________________
संख्यासंबन्धविचार : ]
व्युत्पत्तिवादः ।
( १४९ )
,
स्वीकर्तव्यः तथा च पर्याप्तेरविलक्षणत्वे ' आकाशं न द्वे' इत्यादिप्रतीतेरप्यsप्रमात्वापत्तिरिति तन्न - ' आकाशं न द्वित्ववत् ' इतिमतीतौ द्वित्वसमवायाव - च्छिन्नभेद एव विषयो मतुपा संबन्ध्युल्लेखात् न तु द्वित्वावच्छिन्नभेदः, एवं चाकाशत्वाद्यवच्छेदेन द्वित्वाद्यवच्छिन्नभेद एव स्वीकर्तव्यो न तु तत्संबन्धावच्छिन्नभेद इति ' आकाशं न द्वे ' इतिप्रतीतेरप्रमात्वस्य ' आकाशं न द्वित्ववत्' इति प्रतीतेर्वा प्रमात्वस्य न प्रसङ्ग इति ।
मुपपद्यते । घटाकाशोभयगत द्वित्वस्याकाशे सत्त्वेपि द्वित्वपर्याप्तर्घटाकाशोभयत्रैव संभवात् केवलाकाशे चासंभवात् पर्याप्तिसंबन्धेन केवलाकाशे द्वित्वस्यासंभवेन द्वित्वावच्छिन्नभेदस्य स्वीकारात् तादृशद्वित्वावच्छिन्नभेदस्य सतो बोधकत्वात् ' आकाशं न द्वे ' इतिवाक्यस्य प्रामाण्यमप्युपपद्यते इति संबन्धमेदेनोमयप्रतीत्योः प्रामाण्याऽप्रामाण्ययोर्व्यवस्था संभवतीत्यर्थः । अत्र ' आकारां न द्वे' इतिप्रतीतिवदिति व्यतिरेकी दृष्टान्तस्तथा च यथा ' आकाशं न द्वे ' इतिप्रतीतेः प्रमात्वं तथा ' आकाशं न द्वित्ववत् इतिप्रतीतेरापद्यमानप्रमात्वस्य वारणायेत्यन्वयः ।
यदि च पर्याप्तिर्द्वित्वस्वरूपा वा द्वित्वसमवायस्वरूपा वा स्यात्तद्विलक्षणा न स्यात्तदा समवायस्यैकत्वेन घटाकाशोभयगत द्वित्वसमवायस्याप्याकाशे सत्त्वाद् घटाकाशोभयगत द्वित्वस्यापि चाकाशे सत्त्वादेव ' आकाशं न द्वे ' इतिप्रतीतेरसंभवादप्रमात्वं स्यादेव द्वित्वाद् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेद्वित्वसंबन्धत्वे तु घटाकाशोभयगतद्वित्वस्याकाशे सत्त्वेपि घटाका - शोभयगतद्वित्वपर्याप्तेस्तूभयत्वावच्छेदेनैव संभवेन केवलाकाशेऽसंभवात् संबन्धाभावे संबन्धिप्रतीत्यसंभवाचाकाशे द्वित्वप्रतीतिर्न संभवतीति आकाश न द्वे ' इति द्वित्वावच्छिन्नभेदप्रतीतिस्तस्याः प्रमात्वं च संभवत्येवेति पर्याप्त्याख्यसंबन्धोऽवश्यं स्त्रीकर्तव्य इत्याह- तथा चेति । तथा च समवायेन द्वित्वादिमभेदस्या का शत्यावच्छेदेना स्वीकारे पर्याप्तेश्चाविलक्षण रूप आकाशं न 'हे' इत्यादिप्रतीतेरप्यऽप्रमात्वमापद्येत न चैतदिष्टमित्यर्थः ।
6
,
6
परिहरति-- तन्नेति, द्वित्वात् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेः संबन्धत्वस्वीकारं विनापि समवायस्यैव द्वित्वसंबन्धत्वस्वीकारेण ' आकाशं न द्वे' इतिप्रतीतेः प्रमात्वम् ' आकाश न द्वित्ववत् ' इतिप्रतीतेरप्रमात्वं चोपपादयितुं शक्यते इति भावः, तथा हि- ' आकाशं न द्वित्ववत् ' इत्यत्र मतुपः संबन्ध्युपस्थापकत्वाद् द्वित्वसमवायवतः संबन्धिनो भेदो विषयोस्तिआकाश द्वित्वसमवायवद्भिन्नम् ( आकाशं द्विश्वसमवाययन्त्र ) इति, न त्वत्र न द्वित्ववत् ' इत्यनेन द्वित्वावच्छिन्नभेद: ( द्वित्ववन्नेतिभेदः ) प्रतिपाद्यते, 'आकाशं न द्वे ' इत्यत्र च द्वित्वावच्छिन्नभेद एव विषयः, उक्तप्रतीत्योः प्रमात्वाप्रमात्वयोरुपपत्यर्थं चाकाशत्वावच्छेदेनाकाशे द्वित्वावच्छिन्नभेदस्तु स्वीक्रियते तत्संबन्धावच्छिन्नभेद:- द्वित्वसमवायावच्छिन्नभेदः ( आकाश द्विश्वसमवायवद्भिन्नम् = द्वित्वसमवायवन्नेतिभेदः ) तु न स्वीक्रियते, तथा चाकाशे समवायेन द्वित्वावच्छिन्नभेदस्य स्वीकारात् तद्बोधकस्य' आकाशं न द्वे ' इतिवाक्यस्य तज्जन्यप्रतीतेश्व
"Aho Shrutgyanam"