________________
(१५०)
जादर्श:
[ प्रथमाकारकेअथोद्देश्यतावच्छेदकव्याप्यपर्याप्तदित्वसंबन्धत्वे 'धवखदिरौ छिनत्ति : इत्यादावुद्देश्यतावच्छेदकीभूतधवत्वखदिरत्वव्याप्यं द्वित्वादिद्वयमेव प्रत्येतव्यं न तु धवखदिरादिपर्याप्तद्वित्वादिकं तथा चैकैकवखदिरादितात्पर्येण तथाप्रयोगानुपपत्तिरिति द्वित्वान्वयितावच्छेदकमऽपेक्षाबुद्धिविशेषविषयत्वादिरूपमुभयादिनिष्टं
साहित्यं द्वन्द्वसमासार्थों वाच्यस्तथा च मीमांसकमतप्रवेश इति चेत?, न- यत्रैप्रामाण्यमुपपद्यते एथेति न तदर्थं पर्याप्तिसंबन्धस्वीकारापेक्षा । आकाशे द्वित्वसमवायावच्छिन्नभेदस्य चास्वीकारात् तद्बोधकस्य 'आकाशं न द्वित्वंवत् ' इतिवाक्यस्य तज्जन्यप्रतीतेश्चाऽप्रामाण्यमप्युपपद्यते, द्वित्वसमवायस्यैकत्वादाकाशत्वावच्छेदेनापि सत्त्वेनाकाशस्य द्वित्वसमवायवत्त्वादेव. द्वित्वसमवायवद्मिन्नत्वाभावाद् द्वित्वसमवायबद्भेदबोधकस्य ' आकाशं न द्वित्ववत् । इतियाक्यस्य सजन्यप्रतीतेश्च प्रामाण्यप्रसक्तेर्न संभवः । तथा च विलक्षणपर्याप्तेः संबन्धत्वास्वीकारेपि 'आकाशं न द्वे' इतिप्रतीतेरप्रमात्वप्रसङ्गो नास्त्येव प्रमात्वस्यैवोपपादितत्वात्, ' आकाश न द्वित्ववत् ' इतिप्रतीतेश्च प्रमात्वप्रसङ्गोपि नास्त्येव- अप्रमात्वस्यैवोपपादितत्वादिति सर्व सुस्थमिति न द्वित्वाद् द्वित्वसमवायाच विलक्षणायाः पर्याप्तेः संबन्धत्वस्वीकारापेक्षेत्यर्थः । ___ ननु त्वया “ उद्देश्यतावच्छेदकव्याप्यत्वविशिष्टपर्याप्तेरेव संसर्गतोपगमात् (पृ. १३७ ) । इत्यनेनोदेश्यतावच्छेदकव्याप्यपर्याप्तेविसंबन्धत्वमुक्तं तत्रोदेश्यतावच्छेदकव्याप्यपर्याप्तेविसंबन्धस्वे ' धवखदिरौ छिनत्ति ' इत्यत्रोदेश्यतावच्छेदकं धवत्वं च खदिरत्वं चेति धवत्वव्याप्यपर्याप्तिसंबन्धेनैकस्य द्वित्वस्य धवेऽम्वयो भविष्यति खदिरत्वव्याप्यपर्याप्तिसंबन्धेन चापरस्य द्वित्वस्य खदिरेऽन्वयो भविष्यतीति 'धवखदिरौ' इत्यत्र प्रकारतया द्वित्वद्वयस्य भान प्राप्तं धवत्वखदिरत्वयोरुभयोरेवोद्देश्यतावच्छेदकत्वेन साम्याद् धवत्वव्याप्यपर्याप्तिसंबन्धेन धवातिरिक्त खदिरादौ द्वित्वान्या संभवात् खदिरत्वव्याप्यपर्याप्तिसंबन्धेन ध खदिरातिरिक्ते धवादी द्वित्वान्चयासंभवाच्च न धवखदिरोभयपर्याप्तमेकं द्वित्वं प्रत्येतुं शक्यते युक्यभावात् , तथा चैकैकवखदिरादितात्पर्येण तथाप्रयोगस्य= धवखदिरौ' इतिप्रयोगस्योपपतिन स्यादेव किं तु धवद्वयखदिरद्वयतात्पर्येणैव ' धवखदिरौ' इति प्रयोगो भविष्यति- उक्तयुक्त्या द्वित्वस्य प्रत्येकं धवखदिरयोः प्रतीत्यापत्तेः, न चैवमस्ति किं त्वेकैकधवखदिरतात्पर्येणैव ' धवखदिरौ' इति प्रयोग इष्ट इति तदुपपत्त्यर्थ यदि द्विवचनार्थस्य द्वित्वस्यान्वयितावच्छेदकस्वरूपं तथा — इमौ द्वौ ' इत्याकारकापेक्षाबुद्धिविशेषविषयत्वरूपं ( साहित्यस्यापेक्षाबुद्धिविषयत्वादेव ) धवखदिरोभयपदार्थनिष्ठं यत् साहित्यं ( एकक्रियान्वयित्वरूपम् ) तदेव 'धवखदिरौ । इत्यादौ द्वन्द्वसमासार्धः स्वीकर्तव्यः एवं हि द्वित्वान्वयितावच्छेदकत्वादुदेश्यतावच्छेदकं साहित्यमेवेति प्राप्तं साहित्यं च धवखदिरोभयपर्याप्तमेव न तु प्रत्येकं धवखदिरयोरित्युद्देश्यतावच्छेदकीभूतसाहित्यव्याप्यपर्याप्तिसंबन्धेन द्वित्वस्य धवखदिरोभये एवाऽन्वयसंभवादेकै कवखदिरतात्पर्येण धवखदिरौ' इतिप्रयोगोपपत्तरेकमेवोभयगतं द्वित्वं प्रतीतं भविष्यति न द्वित्वन्यप्रतीत्यापत्तिरित्युच्यते तदा मीमांसकमतप्रवेशः स्यादित्याशङ्कते- अथेति । परिहरति-नेति
"Aho Shrutgyanam"