________________
संख्यासंबन्धविचारः ]
व्युत्पत्तिवादः ।
कधर्मस्य द्वित्वाद्युद्देश्यतावच्छेदकता तत्रैवोद्देश्यतावच्छेदकव्याप्तिविशिष्टपर्याप्तेः संसर्गतानियमः । यत्र धर्मद्वयादेस्तथात्वं तत्र केवला पर्याप्तिः समवाय एव वा संसर्ग इत्युपगमाद् विनैव साहित्यस्यान्वयितावच्छेदकतामेकैकतात्पर्येण ' धवखदिरौ ' इत्यादिप्रयोगोपपत्तेः ।
न चैवमेकैकधवख दिरादितात्पर्येण 'धवौ' ' खदिरौ ' इत्यादिप्रयोगापत्तिः नाशवाक्यद्वयविषयक समूहालम्बनजन्यसमूहालम्बनशाब्दबोधस्य नानाधर्मानच्छिन्नोद्देश्यताकतया शुद्धपर्याप्तेरपि संसर्गतयाऽवगाहनसंभवादिति वाच्यम्, यत्र नानाधर्मावच्छिन्न विशेष्यतानिरूपिता एकैव द्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतथा भानात् । 'धवौ' 'खदिरौ' इत्यादिनानावाक्य
( १५१ )
I
यत्रेति । यत्रैकस्यैव धर्मस्य द्वित्वोद्देश्यतावच्छेदकत्वं भवति तत्रैवोद्देश्यतावच्छेदकव्याप्यपर्याप्तोर्टस्वसंबन्धत्वं स्वीक्रियते यथा 'घटौ ' इत्यादौ यत्र च ' धवखदिरौ ' इत्यादौ धर्मद्वयस्य तथा. त्वम् = उद्देश्यतावच्छेदकत्वं भवति तत्र तु शुद्धपर्याप्तेः समवायस्य वा द्वित्वसंबन्धत्वं स्वीक्रियते न नूद्देश्यतावच्छेदकन्याप्यपर्याप्तेः तत्र द्वित्वपर्याप्तावुद्देश्यतावच्छेदकव्याप्यत्वस्यासंभवात् तथा हिउद्देश्यतावच्छेदकं ह्यत्र धवत्वं खदिरखं च व्याप्यत्वं च तद्वदन्यावृत्तित्वं द्वित्वपर्याप्तेश्चात्र धवत्ववदन्यस्मिन् खदिरेपि सत्त्वान्न धवत्वव्याप्यत्वं तथा खदिरत्ववदन्यस्मिन् धपि सत्त्रान्न खदरत्वव्याप्यत्वमिति ' धवखदिरौ ' इत्यादौ शुद्धाया एव पर्याप्तेः समवायस्य वा द्वित्वादिसंबन्धवं स्वीक्रियते तथा च 'घटौ ' इत्यत्रोद्देश्यतावच्छेदकीभूतस्य घटरवस्यैकत्वात् तद्व्याप्यपर्याप्तिसंबन्धेन घटये एकस्यैव द्वित्वस्यान्वयः प्रतीतिश्च संभवति, ' धवखदिरौ ' इत्यत्र च घवत्यखदिरयोभयस्योद्देश्यतावच्छेदकत्वाद् द्वित्वसंबन्धभूतपर्याप्तावुद्देश्यतावच्छेदकव्याप्यत्वविशेषणराहित्याच. साहित्यस्य द्वित्वान्वयितावच्छेदकत्वाश्रयणं विनापि केवलपर्याप्तिसंबन्धेन वा समत्रायसंबन्धेन बैकस्य द्वित्वस्य धवखदिरयोरुभयोरन्वये विरोधाभावादेकैकधवखदिर तात्पर्येण 'ववखदिरौ इतिप्रयोगे न काचिदनुपपत्तिर्न वा मीमांसकमतप्रवेश इत्यर्थः ।
ननु यत्रोद्देश्यता नानाधर्मावच्छिन्ना स्यादर्थाद् उद्देश्यतावच्छेदकं धर्मद्वयं धर्मत्रयादिकं वा स्या चत्र यदि शुद्धपर्याप्तेर्द्वित्यसंबन्धत्वं स्वीक्रियते तदा तादृशवाक्यद्वय = ' धवौ ' ' खदिरौ ' इत्येतादृशवाक्यद्वयविषयकेन समूहालम्बनेन = समूहालम्बनात्मकश्रावणप्रत्यक्षेणजन्यो यो धवविशेष्यकखदिरविशेष्यकशाब्दबोधस्तस्मिन् उद्देश्यतावच्छेदकत्वेन यत्रत्त्रखदिरवैतद्धर्मद्वयस्य भानाद् द्वित्वसंबन्धत्वं शुद्धपर्याप्तेः प्राप्तं तथा च तादृशशुद्धपर्याप्तिसंबन्धेन प्रत्येकं धवखदिरयोर्द्वित्वान्वयसंवादेकधवैकखदिरतात्पर्येणापि ' धवौ ' ' खदिरौ ' इतिप्रयोगः स्यादेव प्रत्येकं धवादौ द्वित्वस्य तत्संबन्धभूतपर्याप्तेश्च सत्त्वादेव न चैतदिष्टमित्याशङ्क्याह- न चैवमिति । परिहारमाहयत्रेति, यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एका द्वित्वादिनिष्ठा प्रकारता भवति तत्रैव शुद्धायाः ( उद्देश्यतावच्छेदकव्याप्यत्वविशेषणरहितायाः ) पर्याप्तेः समवायस्य वा द्वित्वादिसं
"Aho Shrutgyanam"