________________
(१५२)
सार्शः
[प्रथमाकारकेजन्यसमूहालम्बनशाब्दबोधे विशेष्यंताभेदेन प्रकारताभेदादुद्देश्यतावच्छेदकधवत्वादिव्याप्तिविशिष्टपर्याप्तः संसर्गतानियमेनैकैकवरखदिरादितात्पर्येण तथाप्रयोगासंभवात् ।
‘धवखदिरौ , इत्यादिसमासोत्तरद्विवचनन धवत्वखदिरत्वाद्यवच्छिन्ननानाविशेष्यतानिरूपितैकद्वित्वादिप्रकारताशालिज्ञानमेव जन्यते- तादृशवाक्यजन्य
बन्धत्वं स्वीक्रियते यथा- 'धवखदिरौ ' इत्यत्र धवत्वखदिरत्वरूपनाना ( उभय ) धर्मावच्छिन्ना या धवखदिरनिष्ठा विशेष्यता तादृशविशेष्यतानिरूपिता एका द्वित्वनिष्ठा प्रकारतास्तीति तत्र शुद्धपर्याप्तेः समवायस्य वा संबन्धत्वं स्वीक्रियते ( शेषं पूर्ववत् ) ' धवौ । 'खदिरौ , इत्यत्र तु एतादृशवाक्यद्वयजन्यसमूहालम्बनात्मकशाब्दबोधे धबे : धवपदोत्तरद्विवचनार्थद्वित्वनिरूपिता विशेष्यता पृथग् भासते खदिरे च खदिरपदोत्तरवर्तमानद्विवचनार्थद्वित्वनिरूपिता विशेष्यता पृथग् भासते विशेष्यताभेदेन च धवनिष्ठविशेष्यतानिरूपिता एकद्वित्वनिष्ठा प्रकारता भिन्नास्ति खदिरनिष्ठविशेष्यतानिरूपिताऽपरद्वित्वनिष्टा प्रकारता भिन्नास्तीति प्रकारताया अनेकत्वेनैकवाभावान्नात्र शुद्धपर्याप्तेः समवायस्य वा द्वित्वसंबन्धत्वं स्वीक्रियते किं तूद्देश्यतावच्छेदकव्याप्यपर्याप्तख संबन्धत्वं स्वीक्रियते तथा च 'धवौ । 'खदिरौ' इत्यादिनानावाक्यजन्यसमूहालम्बनशाब्दबोधे धवत्वमप्युद्देश्यतावच्छेदकमस्ति खदिरत्वमप्युद्देश्यतावच्छेदकमस्ति धवत्वव्याप्यद्वित्वपर्याप्तिश्च धवद्वये एव संभवति न त्वेकस्मिन् धवे इत्येकस्मिन् धवे धवद्वयगतद्वित्वस्य संभवेपि संबन्धभूताया द्वित्वपर्याप्तरसंभवात् संबन्धाभावे च संबन्धि (द्वित्व ) प्रतीत्यसंभवादेकवतात्पर्येण धवौ' इति प्रयोगापत्तिर्नास्त्येव, एवमेकखदिरतात्पर्येण · खदिशै । इतिप्रयोगापत्तिर्नास्त्येवेत्येकैकधवखदिरादितात्पर्येण तथाप्रयोगासंभवात् = धवौ' 'खदिरौ' इतिप्रयोगासंभवान्न कोपि दोष इत्यर्थः। धवद्वये च द्वित्वमप्यस्ति धवत्वव्याप्यद्वित्वपर्याप्तिरप्यस्त्येवेति धवद्वयतात्पर्येण धवौ । इति प्रयोग उपपद्यते । एवम् ‘घटौ' इत्यादावपि बोध्यम् । धवखदिरोभयस्मिंश्च द्वित्वमप्यस्ति द्वित्वपर्याप्तित्विसमवायो वा द्वित्वसंबन्धोप्यस्त्येवेत्येकैकधवखदिरतात्पर्येण धवखदिरौ ' इतिप्रपोगोप्युपपद्यते, धवखदिरोभयगतद्वित्वस्य प्रत्येक धवखदिरयोः सत्त्वेपि द्वित्वपर्याप्तेरसत्वान प्रत्येकं द्वित्वप्रतीतिसंभवः । किं वा द्वित्वस्यैव प्रत्येकं पर्याप्तत्वाभावान्न प्रत्येकं द्वित्वप्रतीतिसंभव इत्यवधेयम् ।
यदुक्तम्- " यत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एकैवद्वित्वादिप्रकारता तत्रैव शुद्धायाः पर्याप्तेः समवायस्य वा संसर्गतया भानात् " इति, तत्र नानाधर्मावच्छिन्नविशेष्यतानिरूपिता एका द्वित्वनिष्ठाप्रकारता कास्तीति जिज्ञासायामाह- धवखदिराविति, ' धवखदिरौ' इत्यत्र धचे पृथग् विशेष्यतास्ति खदिरे च पृथग विशेष्यतास्ति तादृशविशेष्यताद्वयनिरूपिता प्रकारता तु द्विवचनार्थकद्वित्वनिष्ठा एकैवास्तीत्यर्थः । भत्र हेतुमाह- तादृशेति, समूहालम्बनात्मकबोधे एव विशेष्यताभेदेन प्रकारताभेदो भवति यथा ' धवौ , ' खदिरौ' इत्यत्र । तादृशवाक्य="धव
"Aho Shrutgyanam"