________________
संख्यासंबन्धविचारः ]
व्युत्पत्तिवादः ।
( १५३ )
बोधस्य समूहालम्बनाऽनात्मकतया विशेष्यताभेदेन प्रकारताभेदाभावात् । यथा हि समूहालम्बनानात्मके ' खड्गी चैत्रः कुण्डली ' इत्याकारकनानाविशेषणकैकविशेष्यकज्ञाने नानाप्रकारतानिरूपिता एका विशेष्यता तथा तथाविधे ' धवखदिरौ ' इत्याद्याकारके नानाविशेष्यकैकविशेषण कज्ञाने विशेष्यताभेदेप्यभिन्नैव द्वित्वादिप्रकारता, अन्यथा - समूहालम्बनतस्तद्वैलक्षण्यानुपपत्तेः समासघटकधवखदिरादिपदानामेकवाक्यतानुपपत्तेश्च तत्प्रयोज्यविषयतया साक्षात् परम्परया वा निरूपिता या विषयता तत्मयोजकत्वस्यैव तदेकवाक्यतापदार्थत्वात् ।
"
•
C
खदिरौ ' इत्येतादृशवाक्यजन्यशाब्दबोधस्तु न समूहालम्बनात्मक इत्यत्र विशेष्यतामेदेपि प्रका रताभेदो न भवतीत्यर्थः । अत्र दृष्टान्तमाह-- यथा हीति, यथा ' खड्गी कुण्डली चैत्र: ' इत्यादी समूहालम्बनाऽनात्मके बोधे नानाखड्गकुण्डलादिनिष्ठानां प्रकारतानां भेदेपि विशेष्यताभेदो न भवति किं त्वेकैव चैत्रनिष्ठा विशेष्यता भासते तथा तथाविधे = समूहालम्बनानात्मके 'धवखदिरौ ' इत्याकारकवाक्यजन्यबोधेपि विशेष्यताभेदेपि प्रकारताभेदो न भवति किं त्वेकैवैकद्वित्वनिष्ठा प्रकारता भासते इत्यर्थः । विपक्षे बाधकमाह - अन्यथेति, यदि 'धवौ ' खदिरौ ' इत्याकारकसमूहालम्बनात्मक बोधे इव धवखदिरौ ' इतिबोधेपि विशेष्यतामेदेन प्रकारताभेदः स्यात्तदा धवौ ' ' खदिरौ ' इतिसमूहालम्बनात्मकस्य धवखदिरौ इतिसमूहालम्बनानात्मकस्य च बोधस्य परस्परं किमपि वैलक्षण्यं न स्यादित्यर्थः । धत्रखदिरौ ' इत्यत्र विशेष्यतामेदेपि प्रकारताभेदाभावे हेत्वन्तरमाह- समासेति यद्यत्र विशेष्यतामेदेन प्रकारताभेदोपि स्यात्तदा धवखदिरपदयोः परस्परमेकवाक्यता न स्यात्, एकवाक्यताभावे च समासोपि न स्यादित्यर्थः । विशेष्यताभेदेन प्रकारताया भेदे एकवाक्यता कथं न भवतीति जिज्ञासायामेकवाक्यतास्वरूपमाह - तत्प्रयोज्येति, तथा हि- ' राजपुरुषः ' इत्यत्र राजपदप्रयोज्यप्रकारताख्यविषयतया साक्षान्निरूपिता या पुरुषनिष्ठा विशेष्यताख्या विषयता = शाब्दबोधीयविषयता तत्प्रयोजकत्वं पुरुषपदेस्ति, एवं पुरुषपदप्रयोज्य विशेष्यताख्यविष तया साक्षान्निरूपिता या राजनिष्ठा प्रकारताख्यविषयता तत्प्रयोजकत्वं राजपदेस्तीत्येता योग्यप्रयोजकभावरूपैकवाक्यतायाः सत्त्वात्समासो जातः, तत्राप्यत्र राजनिष्ठप्रकारतायाः पुरुषनिष्ठविशेष्यतायाश्च साक्षादेव परस्परं निरूप्यनिरूपकभावो विज्ञेयः । ' श्रवखदिरौ ' इत्यत्र च धवपदप्रयोज्यविशेष्यताख्यविषयतानिरूपिता खदिरपदप्रयोज्य विशेष्यताख्यविषयतानिरूपिता ant द्विवचनोपस्थापितद्वित्वनिष्ठा प्रकारतास्तीति तादृशप्रकारतारूपपरम्परया वा द्वित्वरूपपरम्परया वा वखदिरोभयनिष्ठविशेष्यतयोर्निरूप्यनिरूपकभावोस्ति न तु धवः खदिरे वा खदि वे वा विशेषणमस्ति येन साक्षान्निरूप्यनिरूपकभावः स्यात् किं तु धवखदिरयोरेकस्मिन् द्विस्वेऽन्वयोस्त्येतादृशपारम्परिक प्रयोज्यप्रयोजकभावरूपैकवाक्यतायाः सत्त्वादत्र समासो जात यद्यत्र धनिष्ठविशेष्यता निरूपिता द्वित्वनिष्ठा प्रकारता भिन्ना स्यात् खदिरनिष्ठ विशेष्यतानिरूपित
2
" Aho Shrutgyanam"
C