________________
(१५४)
सादर्शः
[ प्रथमाकारके न चैतादृशैकवाक्यताविरहेपि क्षतिविरह:- तथा सति समासस्यैवानुपपत्तेः । 'अयमेति पुत्रो राज्ञः पुरुषोऽपसार्यताम् ' इत्यादौ , राजपुरुषपदादीनां समासवारणाय समर्थपदयोरेव समासानुशासनात्, सामर्थ्यस्य च निरुक्तैकवाक्यतारूपत्वात् । च द्वित्वनिष्टा प्रकारता भिन्ना स्यात्तदा तादृशप्रकारतयोः परम्परावाभावात् परम्परयाप्युक्तप्रयोज्यप्रयोजकमावो न स्यादित्येकवाक्यताया असत्त्वात् समासो न स्यादेव. भवति च समास इति धवखदिरोभयनिष्ठविशेष्यताद्वयनिरूपिता द्वित्वनिष्ठा एकैव प्रकारतास्तीति स्वीकार्यम् । तादृशद्वित्वनिष्ठप्रकारताया एकत्वे तु तादृशुपकारतापपरस्पस्याव्यतरपद्प्रयोज्यविषयतानिरूपितविषयताप्रयोजकत्वमन्यतरपदस्य संभवतीति संभवत्येकवाक्यसेत्यर्थः ।। .. मन व 'धखदिरौ' इत्यत्र तत्प्रयोज्या धवपदप्रयोज्या या धवपदज्ञानजन्यधवपदार्थोपस्थितिजन्यधवखदिरावितिशाब्दबोधनिरूपितधवपदार्थनिष्ठविशेष्यता तया परम्परया निरूपिता या द्वित्वनिष्ठा प्रकारताख्यविषयता तत्प्रयोजकत्वस्य खदिरपदनिष्ठस्यैव तदेकवाक्यतापदार्थत्वात्= धवपदैकवाक्यतापदार्थत्वात्, धवपदजन्यधवोपस्थितिजन्यधवखदिरशाब्दबोधनिरूपितधवनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारतानिरूपितशाब्दबोधीयखदिरनिष्ठविशेष्यताशालिशाब्दधोजनकखदिरोपस्थितिजनकत्वं खदिरपदे इति धवपदैकवाक्यतापन्नं खदिरपदमेवेत्येवंरीत्या खदिस्पदैकवाक्यतापने धवपदमिति परस्परं धवखदिरपदयोरेकवाक्यत्वमित्यर्थः । एवम्- 'राजपुरुषः । इत्यत्र राजसंबन्धी प्रकारः पुरुषो विशेष्यस्तत्र तत्प्रयोज्या-राजपदप्रयोज्या या राजपदजन्यराजसंबन्ध्युपस्थितिजन्यशाब्दबोधीयराजसंबन्धिनिष्ठा प्रकारताख्यविषयता तन्निरूपिता या पुरुषनिष्ठा विशेष्यताख्या साक्षाद्विषयता तत्प्रयोजकत्वम् तन्निरूपकशाब्दबोधजनकपदार्थोपर स्थितिजनकत्वरूपमेकवाक्यत्वं पुरुषपदे, एवं पुरुषपदप्रयोज्या पुरुषपदजन्यपदार्थोपस्थितिजन्यप्रक्दबोधनिरूपिता पुरुषनिष्ठविशेष्यताख्य विषयता तन्निरूपिता या राजसंबन्धिनिष्ठा प्रकारता द्वित्वपेनकत्वम्- तन्निरूपकशाब्दबोधजनकपदार्थोपस्थितिजनकत्वरूपमेकवाक्यत्वं राजपदे । प्रपोगन्यज्ञाननिरूपितत्वेन तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यमित्यर्थः ।" इति कृष्णभट्टाः। ___ ननु ' धवखदिरौ ' इत्यत्रोक्तस्वरूपैकवाक्यता मा भवतु विशेष्यताभेदेन प्रकारताभेदं तु स्वीकरिष्याम एव इत्याशझ्याह- न चेति । परिहारमाह- तथा सतीति, विशेष्यताभेदेन प्रकारताभेदस्वीकारे उक्तैकवाक्यता न भविष्यति तथा सति-उक्तस्वरूपैकवाक्यताय “एक्वे च ' धक्खदिरौ' इति समासो न भविष्यतीत्यत्रोक्तंकवाक्यता स्वीकार्या. एक
पृथतार्थं च विशेष्यताभेदेष्यभिन्नैव द्वित्वनिष्ठा प्रकारता स्वीकार्येत्यर्थः । उक्तैकवाक्यत्वाभावे द्विसानुपपत्तौ प्रमाणमाह- अयमेतीति, यद्युक्तकवाक्यता समासे कारणं न स्यात्तदा विअयमेति पुत्रो राज्ञः पुरुषोऽपसार्यताम् । इत्यत्रापि राजपदपुरुषपदयोः समासो
"Aho Shrutgyanam"