________________
( ११६ )
सादर्श:
[ प्रथमाकारके
सत्यम् - एतदभिप्रायेणैव 'जानाति' इत्यादावाख्यातस्य निरर्थकता मणिकार उरीचकार । तत्राश्रयत्वे निरूढलक्षणामभ्युपगच्छतां दीधितिकाराणां पुनरेष आशयः - पत्र ज्ञाधातोर्ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र चैत्रायंशे वावर्थैकदेशस्य ज्ञानादेरन्वयानुपपत्त्या स्वरूपसंबन्धेन ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यकान्वयबोध एव तत्र मणिकृता स्वीकरणीयः । तथा च तत्र ज्ञानाश्रयतापकारकशब्दबोधे तत्प्रकारकयोग्यताज्ञानहेतुताया: क्लृप्तत्वादाऽऽश्रयतासंसकशाब्दबोधे तादृशयोग्यताज्ञानहेतुता कल्पनमधिकमेव मणिकृन्मते ।
स्वीक्रियते इति नोमयमतसिद्धः शक्तिभ्रमादावण्याश्रयताप्रकार कशाब्दबोधो येनोक्तरीत्या प्रकारतावादे आश्रयताप्रकारकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकं न स्यात् तत्प्रयुक्तं गौरवं च न स्यादित्यर्थः । यथा कस्यचिन्मते विभक्त्यर्थः कर्मत्वमपि संसर्ग एव कर्मतासंबन्धेनौदनवान्
पाक: ' इति बोधस्वीकारात् यथा च 'राज्ञः पुरुषः इत्यत्र पष्ठयर्थस्वत्वमपि संसर्ग एव ' स्वत्वसंबन्धेन राजवान् पुरुषः इतिबोधस्वीकारात् तथा ' जानाति इत्यादावाख्यातार्थ आश्रयतापि संसर्ग एव न तु प्रकार: ' माश्रयतासंबन्धेन ज्ञानवांचैत्रः ' इति च बोधः स्वीक्रियते, अनुपस्थितस्य प्रकारत्वासंभवेप्युपस्थितस्य संसर्गत्वे बाधकाभावादाख्यातेन शक्त्योपस्थितस्याप्याश्रयत्वस्य संसर्गत्वमेव प्रकारत्वे हि तत्संसर्गभानावश्यंभावाद् गौरवं स्यादिति भावः । जानाति' इत्यादावाश्रयत्वस्य संसर्गतयैव भानं भवति न प्रकारतयेत्यत्र चिन्तामणिकारं प्रमाणयति - सत्यमिति । एतदभिप्रायेणैवेति- यद्याश्रयतायाः प्रकारत्वं स्यात्तदा पदादनुपस्थि• तस्य प्रकारत्वासंमवेनाख्यातस्याश्रयत्वे शक्तिर्वा लक्षणा वा स्वीक्रियेत तथा चाश्रयत्वोपस्थापकावादाख्यातस्य ' जानाति इत्यादी सार्थक्यं स्यादपि नैवमस्ति आश्रपत्यस्य संसर्गत्वस्वीकारात् संसर्गतया भानं च पदादनुपस्थितस्यापि संभवतीत्याश्रयत्वे आख्यातस्य वृत्तिकल्पनापेक्षाभावादाख्यातस्य ' जानाति इत्यादौ निरर्थकत्वमेवेत्यर्थः । दीधितिकारेण त्वाश्रयत्वस्य प्रकारत्वं स्वीकृत्य ' जानाति इत्यादावाख्यातस्याश्रयत्वे निरूढलक्षणा ( अनादितात्पर्यवती लक्षणा ) स्वीकृतेत्याह--तत्रेति । तत्र= ' जानाति ' इत्यादौ । दीधितिकाराशयं वर्णयतियत्रेति, यदा हि कस्यचित् ' जानाति ' इत्यत्र प्रकृतिमात्रज्ञाधातोरेव ज्ञानाश्रयत्वे शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा जातस्तत्र ज्ञानाश्रयत्वं धात्वर्थस्तदेकदेश एवं ज्ञानमिति धात्वचैकदेशस्य ज्ञानस्य चैत्रेऽन्वयो न संभवति - " एकत्र विशेषणत्वेनान्वितस्यान्यत्र विशेषणत्वेनान्वयाऽयोगात् " इति नियमेनोक्तस्थले आश्रयत्वे विशेषणतयान्वितस्य ज्ञानस्य चैत्रादावन्वयासंभवात् तेन च ' आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः ' इतिशाब्दबोधासंभवात् तत्र स्वरूपसंबन्धेन ज्ञानाश्रयत्वप्रकारक चैत्रादिविशेष्यक एव ' ज्ञानाश्रयत्ववश्चैित्रः इति बोधः संसर्गतावादिनापि मणिकारेण स्वीकर्तव्यः, तथा चोक्तस्थले ज्ञाधातोरेव ज्ञानाश्रयत्वे शक्तिभ्रमस्थले स्वारसिकलक्षगाहस्थले चोक्तरीत्या ज्ञानाश्रयत्वप्रकारक शाब्दबोधं प्रति तत्प्रकारक ज्ञानाश्रयत्वप्रकारकयो
"
८
"
7
" Aho Shrutgyanam"