________________
भेदान्वयवादः ]
व्युत्पत्तिवादः ।
( ११५ )
कशाब्दबोधे तथाविधयोग्यताज्ञानहेतुताया आधिक्यात् । आश्रयता संसर्गकज्ञानीयकारणतावच्छेदकस्य तदीयसंसर्गविषयताघटिततत्प्रकारकज्ञानत्वरूपकारणतावच्छेदकापेक्षया लघुशरीरतयाऽऽश्रयतायाः संसर्गतामतस्यैव लघुत्वात् । न च यत्राश्रयत्वे ज्ञाधातुसमभिव्याहृताख्यातस्य शक्तिभ्रमः स्वारसिकलक्षणाग्रहो वा तत्र ज्ञानाश्रयताप्रकार कशाब्दबोधस्योभय मतसिद्धतया तत्र ताहशयोग्यताज्ञानहेतुत्वमुभयमतसिद्धमेवेति वाच्यम्, आश्रयतायाः संसर्गतावादिना. तत्राप्याश्रयताप्रकारकबोधस्यानभ्युपगन्तव्यत्वादितिचेत् ?,
ज्ञानाश्रयताप्रकारक चैत्रादिविशेष्यकशाब्दबोधं प्रति तथाविध- ज्ञानाश्रयताप्रकारक चैत्रादिविशेव्यकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकमस्त्येवेति तव मम चात्र साम्यमेवेत्यर्थः । स्वसंसर्गतावादे लाघवं प्रदर्शयति- आश्रयतेति, आश्रयतासंसर्गकज्ञानं शाब्दबोधस्तदीयं यत्कारणतावच्छेदकं योग्यताज्ञानस्यावच्छेदकम् / योग्यताज्ञानत्वं किं वा संसर्गभूताश्रयत्वादिविषयकत्वम् ) तस्य तदीयसंसर्ग=आश्रयतासंसर्गविषयताघटितं यत् तत्प्रकारकज्ञानम् - आश्रयताप्रकार कशाब्दबोधस्तस्य यद् योग्यताज्ञानत्वरूपमाश्रयताप्रतियोगिकसंसर्ग विषयकत्वं रूपं वा कारणतावच्छेदकं तदपेक्षया लघुशरीरतया=लघुभूतत्वेन = आश्रयतायाः संसर्गतामतस्यैव लघुत्वात् आश्रयतायाः संसर्गव्ये एव लाघवादित्यन्वयः । आश्रयतासंसर्गकयोग्यताज्ञाने हि 'ज्ञानं चैत्र आश्रयता' इति त्रयो विषया:ज्ञानस्य प्रकारत्वात् चैत्रस्य विशेष्यत्वाद् आश्रयताया उभयसंसर्गत्वात् । आश्रयताप्रकारकयोग्यताज्ञाने हि 'ज्ञानं चैत्रः आश्रयता. आश्रयतायाश्च स्वरूपसंबन्ध:, ज्ञानस्य निरूपितत्वसंबन्ध:' इति पञ्च विषयाः - ज्ञानस्य निरूपितत्व संबन्धेनाश्रयतायामन्वय स्तादृशाश्रयतायाश्च स्वरूपसंबन्धेन चैत्रेऽन्वयः 'ज्ञानाश्रयतावांश्चैत्रः' इतिबोध: । प्रकारीभूताया आश्रयतायाः संबन्धान्तरं विना चैत्रे - ऽन्वयानुपपत्तेरिति प्रकारतावादापेक्षया संसर्गतावादे लाघवम् एवमुपस्थितावपि लाघवगौरवे ज्ञा-तव्ये इति भावः । तदेवोक्तम्- तदीयेति- प्रकारीभूताश्रयताया यः संसर्गः स्वरूपसंबन्धस्तद्विष यताघटितमित्यर्थः प्रकारतामते योग्यताज्ञानस्य आश्रयतासंसर्ग / आश्रयतायाः स्वरूपसंबन्ध ) विषयकत्वाद् आश्रयतासंसर्गविषयताघटितत्वम् । किं वात्र ज्ञानपदाभ्यां योग्यताज्ञानमेव ग्राह्यम् | ननु यत्त्वया भवन्मते " इत्यादिनाश्रयताप्रकारकयोग्यताज्ञानस्य हेतुताधिक्यं मे प्रदर्शितं नन्नास्ति यतः यत्र ज्ञाधातूत्तरवर्तमानाख्यातस्य कस्यचित् पुंस आश्रयत्वे शक्तिभ्रमः स्वारति. कलक्षणाग्रहो वा स्यात् तत्र ज्ञानाश्रयताप्रकारक एव शाब्दबोधो जायते स च तादृश-आश्रयताप्रकारक योग्यताज्ञानेनैव जायते इत्युभयमतसिद्धमेव तथा चाश्रयताप्रकारकयोग्यताज्ञानस्यात्र हेतु सिद्धमेवेति तेनैवाश्रयताप्रकारक योग्यताज्ञानेन ' जानाति ' इतिमुख्यार्थ पर प्रयोगाज्जायमानाश्रयताप्रकार कशाब्दबोधस्यापि निर्वाहो भविष्यतीत्याशङ्क्याह-- न चेति । परिहारहेतुं हठेनाह - आश्रयताया इति । तत्रापि आख्यातस्याश्रयत्वे शक्तिभ्रमथेपि तथा स्वारतिकलक्षणास्थलेपि संसर्गात्रादिनाश्रयताप्रकारकबोधो न स्वीक्रियते किं वाश्रयतासंसर्गक एव बोधः
66
"Aho Shrutgyanam"