________________
( ११४ )
सादर्श:
[ प्रथमाकार के
“
9
6
सर्वनाम्नः सांकेतिक शब्दान्तरादा तादृशसंबन्धेनः ज्ञानादिप्रकार कचैत्रादिविशेष्यकशाब्दबोधस्य सर्वमते एव प्रसिद्धावपि तादृशशाब्दबोधे पदार्थान्तरभाननैयत्येन तमिश्रित योग्यताज्ञानस्य तत्र हेतुताया आवश्यकत्वात् ज्ञानादिविशिष्टचैत्रादिमात्रविषयक योग्यताज्ञानस्य ज्ञानादिविशिष्टचैत्रादिविषयकशाब्दबोधे हेतुतायाः कुत्राप्यक्लप्तत्वादिति वाच्यम्, भवन्मतेपि ज्ञानाश्रयताप्रकारकचैत्रादिविशेष्यज्ञानविशिष्टचैत्रादितात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा तादृश संबन्धेन=आश्रयता संबन्धेन ज्ञानादिप्रकारक चैत्रादिविशेष्यकशाब्दबोधस्य सर्वमते एव प्रसिद्धावपि तत्र यादृशयोग्यताज्ञानस्य हेतुत्वं नात्र तादृशयोग्यताज्ञानेन निवाहो यतः- शाब्दबोधे ह्यपरपदार्थवैशिष्ट्यं तदन्यपदार्थे भासते इति नियमः अपरपदार्थवैशिष्ट्यमानं विना पदार्थस्य शाब्दबोधविषयत्वमेव न भवति किं तूपस्थितिमात्रविषयत्वं भवतीति तादृशशाब्दबोधे= आश्रयतासंबन्धेन ज्ञानादिविशिष्टतात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा जायमाने शाब्दबोधे पदार्थान्तरभाननैयत्येन = ' सः तम् ' मणिघण्ट : ' इत्यादावाऽश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रस्तु पदार्थ एवेति तस्मिन् तद्बोधक सर्वनामादिपदोत्तरवर्तमानविभक्त्यर्थे कत्वादेवैशिष्ट्यस्य मानमवश्यं स्वीकार्यम् - आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्र एकः ' इति तथा चात्र त्वेकत्ववैशिष्ट्यं योग्यताज्ञाने भासते इति तन्मिश्रम् = एकत्वविषयकं यद् योग्यताज्ञानं तस्यैव हेतुत्वमस्ति । जानाति ' इति मुख्यार्थपरप्रयोगजन्यशाब्दबोधे स्वेकत्वविषयक योग्यताज्ञानस्य हेतुत्वं नास्ति शुद्धचैत्रमात्रस्य पदार्थत्वेन तत्र वाववैशिष्ट्रस्य भासमानत्वादिति जानाति । इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधं प्रयुक्तरीत्या यदाश्रयतासंसर्गकयोग्यताज्ञानस्य हेतुत्वं तदधिकमेव संसर्गतावादे इत्यर्थ: 1 नवाश्रयुतासंबन्धेन ज्ञानविशिष्ट चत्रादितात्पर्यकात् सर्वनाम्नः सांकेतिकशब्दान्तराद्वा जाय-माने उक्त शाब्दबोधे नैकत्वादिविशिष्टविषयक योग्यताज्ञानस्य हेतुत्वं किं तु ज्ञानविशिष्टचैत्रमात्रविषयक योग्यताज्ञानस्य हेतुत्वं वक्ष्यामस्तथा च तेनैव योग्यताज्ञानेन ' जानाति इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधस्यापि निर्वाहो भविष्यतीत्याशङ्क्याह- ज्ञानादिविशिष्ट चैत्रादिमात्रेति । ज्ञनादिविशिष्ट चैत्रादिविषयकशाब्दबोधं प्रति पदार्थान्तरेकत्वादिवैशिष्ट्य शून्यज्ञानादिविशिष्टचैत्रायेकपदार्थमात्रविषयक योग्यताज्ञानस्य कचिदपि लोके हेतुत्वं क्लृप्तं नास्ति येन तेनैव 'जानाति' इत्यत्र निर्वाहः स्यादिति ' जानाति ' इतिमुख्यार्थपरप्रयोगजन्यशाब्दबोधे आश्रयतासंसर्गकयोग्यताज्ञानस्य यद्धेतुत्वकल्पनं तदुक्तरीत्याधिकमेवेत्यर्थः । तथा च ' जानाति ' इत्यत्राख्यातस्याश्रयत्वार्थकत्वं स्वीक्रियतामितिभावः ।
परिहारहेतुमाह- भवन्मतेपीति । भवन्मते 'जानाति
इत्यादावाख्यातस्याश्रयत्वार्थकत्वम
तेपि ज्ञाधातोः पाकादौ लक्षणास्थले तु पाकानुकूलकृतिप्रकारकयोग्यताज्ञानस्य हेतुत्वं स्त्रीकार्य तेन च योग्यताज्ञनेन ' जानाति इत्यादी गुरूपार्थस्थले आख्यातस्याश्रयत्वार्थवत्वाश्रयणे निर्वाहाभावाद् यथा मन्मने आश्रयतासंसर्गक योग्यताज्ञानस्य हेतुत्वकल्पनमधिकं तथा तव मतेपि
"Aho Shrutgyanam"