________________
भेदान्वयवादः ] व्युत्पत्तिवादः।
( ११३) तियोग्यताज्ञानादिघटितसामग्या आश्रयतासंसर्गकशाब्दबोधजनने बाधकाभावात् ।
न चैतन्मते आश्रयतासंबन्धेन ज्ञानादिप्रकारकशाब्दबोधे ताशयोग्यताज्ञानहेतुत्वान्तरकल्पनाधिक्यम् , आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रादितात्पर्यकात् तसामघ्या ' आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः । इत्येवमाश्रयतासंसर्गकबोधो बाधकामावाजायते एव. अत्र च चैत्रादेोधात्वर्थज्ञानविशेष्यतया भानं भवत्येवेत्येवं चैत्रस्य धात्वर्थज्ञानविशेष्यतया मानसंभवेनाश्रयतायाः संसर्गतया भानसंभवे तत्राख्यातस्य वृत्तिकल्पनं व्यर्थमेव अन्यथाश्रयताया आख्यातार्थत्वे तदुपस्थितिकल्पनापत्या गौरवं स्यादिति 'जानाति' इत्यादावाख्यातं निरर्थकमेवेत्यर्थः ।
नन्चाख्यातस्याश्रयतार्यकत्ये आश्रयतायाश्च प्रकारत्वे यथा ज्ञाधातोः पाकादौ लक्षणादशायां ज्ञाधात्वर्थनिष्ठप्रकारतानिरूपितज्ञाधातूत्तरवर्तमानतिबर्थनिष्ठविशेष्यताकयोग्यताज्ञानस्य ज्ञाधात्वर्थप्रकारकशाब्दबोधं प्रति हेतुत्वमस्ति तथा तस्यैव योग्यताज्ञानस्य मुख्यार्थपरवाक्यजन्यशाब्दबोधेपि कारणत्वमस्ति, लक्षगास्थले ज्ञाधात्वर्थः पाकः तियर्थश्च कृतिः मुख्यार्थपरप्रयोगस्थले च धास्वों ज्ञानं तित्रर्यश्चाश्रयतेत्यन्यदेतत् तथोभयत्र कार्यकारणभायोप्येकविध एव- धात्वर्थप्रकारकतिबर्थविशेष्यककार्यकारणभावस्थाश्रयणात् । तव संसर्गतात्रादिनस्तु मते नैयं संभवति किं तु ज्ञाधातोः पाकादौ लक्षणादशायामाख्यातस्य कृत्यर्थकत्वाश्रयणेन तत्र ' जानाति ' इत्यत्राख्यातार्थकृतिप्रकारकयोग्यताज्ञानस्य 'पाकानुकूलकृतिमांश्चैत्रः । इतिशाब्दबोधे हेतुत्वम् , मुख्यार्थपरे ' जानाति ' इति प्रयोगे च 'आश्रयतासंबन्धेन ज्ञानवांश्चैत्रः' इत्याकारकाऽऽश्रयतासंबधेन ज्ञानप्रकारकशाब्दबोधे तादृश-आश्रयतासंबन्धेन ज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्यमाख्यातस्यात्र निरर्थकत्वाश्रयणाद् आश्रयतायाश्च संसर्गस्थाश्रयणादित्येकस्मिन्नेव जानाति' इतिप्रयोगस्थले द्विविधयोग्यताज्ञानस्य हेतुत्वापत्त्या तत्राश्रयतासंसर्गकयोग्यताज्ञानस्य यद्धेतुत्वकल्पनं तदधिकमित्याशङ्कते- न चेति । एतन्मते-संसर्गतावादे ।
ननु नाश्रयतासंसर्गकयोग्यताज्ञानस्य हेतुत्वकल्पनमधिकं यतः- यदा ' आश्रयतासंबन्धन ज्ञानविशिश्चैत्रोस्ति तमानय । इत्येवं केनचिदुक्तं तत्र तत्पदस्य बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ने शक्तत्वेन आश्रयतासंबन्धेन ज्ञानविशिष्टचैत्रबोधकत्वात् तत्र ताशवोधं प्रत्या
श्रयतासंसर्गकज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्वं क्लुप्तमस्ति तथा यदा केनचित् 'मया मणिघण्ट इत्युक्ते लया आश्रयतासंबन्धेन ज्ञानविशिष्टश्चैत्रो बोद्धव्यः' इति संकेतः कृतस्तदा तस्य मणिघण्टशब्दस्याश्रयतासंसर्गकज्ञानप्रकारकचैत्रविशेष्यकशान्दबोधजनकत्वात्तत्राश्रयतासंसगेकज्ञानप्रकारकयोग्यताज्ञानस्य हेतुत्वं सर्वमतक्लुप्तमेवति तेनैव योग्यताज्ञानेन 'जानाति । इति मुख्यार्थपरप्रयो स्थस्टेप्याश्रयतासंसर्गकज्ञानप्रकारक जायमानशा बोधं प्रति हेतुत्वस्य निर्वाहेण न नवीनहेतुत्वकल्पनापतिरित्याशझ्याह- आश्रयतासंबन्धेनेति । आश्रयतासंबन्धेन
"Aho Shrutgyanam"