________________
प्रकान्तवादः ]
व्युत्पत्तिवादः ।
शरत्संबन्धनिमित्तकत्वाभावान्नोक्तातिप्रसङ्ग इत्युक्तस्थलेऽवच्छेदकावच्छेदेनान्वय एव नोपयते इत्युच्यते ? तथापि तादृशनियमो निष्प्रामाणिक एव ।
न च तादृशनियमानुपगमे ' इह भवने मैत्रेणैव पक्ष्यते तेमनम् ' इत्यत्रैतद्भवनाधिकरणकतेमनपाकत्वेन रूपेण शब्दात् पाकानुपस्थित्या तदवच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वव्यवच्छेदबोधासंभवकथनं ! दीधितिकृतां विरुध्येतेति वाच्यम्, अवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि विशेषणतया दोहदवशाज्जायमानचम्पकपुष्पोत्पत्तौ च शररसंबन्धप्रयोज्यत्वाभावादुक्तातिप्रसङ्गः = ' शरदि पुष्ट्यन्ति चम्पका:' इति प्रयोगापत्तिर्नास्ति, इति=तथा चोक्तस्थले= ' शरदि पुष्प्यन्ति सप्तच्छदाः इत्यत्रान्वयितावच्छेदकावच्छेदेन= पुष्पोत्पत्तित्वा वच्छेदेन शरवृत्तित्वस्यान्वय एव नोपेयते ( सप्तच्छदे एवान्वयस्वीकारात् ) येनान्वयितावच्छेदकावच्छिन्नत्वस्य विशेषणसंबन्धेत्र भानापत्तिः स्यात् ' मैत्रेण न पच्यते ' इत्यत्र त्वन्वयितावच्छेदकावच्छेदेनैव कृतौ मैत्रवृत्तित्वाभावान्ययस्वीकारावश्यकत्वाद् विशेषणसंबन्धेऽन्वयितावच्छेदकावच्छिन्नत्वं गले पतितमेव तत्र दोषाः प्रद
ता एवेत्याशङ्क्याह- यदि चेति । परिहारमाह- तथापीति । तादृशनियमः = अन्वयितावच्छेदावच्छिन्नत्यमेव विशेषणसंबन्धे भासते इतिनियमः । तथा च ' मैत्रेण न पच्यते ' इत्यत्र वर्तमापाककृती मैत्रवृत्तित्वाभावान्वयसंभवान कोपि दोष इति भावः ।
ननु ' इह भवने मैत्रेणैव पक्ष्यते तेमनम् ' इत्यत्रैतद्द्भवनाधिकरण कतेमनपा करवावच्छिन्ने मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयबोधो न संभवति - पाकस्य एतद्भवनाधिकरणकतेमनपाकत्वेन रूपेणोपस्थिस्यभावादिति दीधितिकारोक्तमुक्त नियमस्वीकारे संगच्छते अनैतद्भवनाधिकरणकते मनपाकत्वस्यैवान्वयितावच्छेदकत्वात् तेन रूपेण चोपस्थिस्यभावेन तत्रोक्ताभावान्वयस्यासंभवात्, एतन्नियमानभ्युपगमे चाऽन्वयितानवच्छेदकं यत् पाकत्वं तादृशपाकत्वसामानाधिकरण्येन ( कस्मिंश्चित् पाके ) मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयः संभवत्येव -- पाकत्वेन रूपेणोपस्थितेः सत्त्वादित्युक्तनियमानभ्युपगमे दीधितिकारोक्तं मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्यान्वयाऽसंभवकथनं न संगच्छते इति दीधितिग्रन्थ संगत्यर्थमुक्तनियमः स्वीकार्य एवेत्याशङ्क्याह-न चेति, तदवच्छिन्ने = एतद्भवनाधिकरण कते मनपाकत्वाव-च्छिन्ने । अत्र च पाकस्यावच्छेदेनापि मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्याभ्वयो न संभवति - कस्मिंश्वित्पाके मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वस्यैव संभवादिति पाकत्व सामानाधिकरण्येनेत्युक्तम, ' चैत्रेण न पच्यते ' इत्यत्र कृतौ पाकक्रियाया विशेषणत्वाभावात् कृतित्वमेवान्वयितावच्छेदकं न तु पाकक्रियावच्छिन्नकृतित्वम्, ' शरदि पुष्प्यन्ति सप्तच्छदाः ' इत्यत्रापि सप्तच्छदानां विशेष्यत्वेन पुष्पोत्पत्तौ विशेषणत्वाभावात् केवलं पुष्पोत्पत्तित्वमेवान्वयितावच्छेदकम्, अत्र तु एतद्भवनाधिकरणकत्वस्य तेमनपाकत्वस्य च पाके विशेषणत्वाद् एतद्भवना - धिकरणकतेमनपाकत्वमेवान्वयितावच्छेदकमिति विशेषः । परिहारमाह-अवच्छेदकावच्छेदेनेति,
( ३९५ )
"Aho Shrutgyanam"
1