________________
सादर्श:
[ तृतीयाकारकेभासमानमेव रूपं विशेषणेऽवच्छिन्नत्वसंबन्धेन विशेषणमित्याशयेन तेषां तदभिधानात् । विशेषणसंबन्धे तदवच्छिन्नत्वमेव तदवच्छेदेन विशिष्टबुद्धौ भासते इत्युपगमे शब्दानुपस्थितरूपावच्छेदेन विशेषणान्वये बाधकाभावात् ।
न चावच्छेदकावच्छिन्नत्वस्यावच्छेदकावच्छेदेन विशिष्टबुद्धौ विशेषणांशे भानमसंभवदुक्तिकम्-'घटो द्रव्यम्' इत्यादी घटत्वावच्छेदेन द्रव्यत्वादिमत्त्वबुद्धौ द्रव्यत्वादिविशेषणस्य स्वरूपत एवं भानादिति वाच्यम्, तादृशशाब्द. बोधे द्रव्यत्वाद्यवच्छिन्नस्यैवाऽभेदसंबन्धेन विशेषणत्वात्, घटत्वादिविशिष्टे यथा ' घटवद् भूतलम् । इत्याकारिकायामवच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि भूतले विशेषणतया भासमानरूपम् भूतलत्वं विशेषणे घटसंयोगेपि स्वावच्छिन्नत्वसंबन्धेन विशेषणं भवति सथाऽत्र ' इह भवने ' इत्याकारकावच्छेदकावच्छेदेन विशिष्टबुद्धौ धर्मिणि-पाके विशेषणतयाभासमानरूपम् एतद्भवनाधिकरणकतेमनपाकत्वं विशेषगे-मैत्रान्यसमवेतकृतिविषयत्वाभावे स्वावच्छिन्नत्वसंबन्धेन विशेषणमिति वक्तव्यं तस्य चैतद्भवनाधिकरणकतेमनपाकत्वस्यानोपस्थित्यभावात् मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावे विशेषणत्वं न संभवति--उपस्थितस्यैव विशेषणत्वसंभवादित्याशयेन तेषाम्-दीधितिकृताम् तत् तस्यः-उक्ताभावान्वयासंभवस्य कथनमस्ति न तु 'अन्वयितावच्छेदकावच्छेदेन विशेषणान्त्रयो भवति ' इत्यभिप्रायेण तथा च नोक्तनियमस्वीकारापेक्षाऽस्तीत्यर्थः । स्वाभिप्रायमाह-विशेषणसंबन्धे इति यथा ' घटवद् भूतलम् ' इत्यत्र घटसंयोगेऽवच्छिन्नत्वसंबन्धेन भूतलत्वं विशेषणम्, तथा च स्वाधच्छिन्नत्वसंबन्धेन भूतलत्वविशिष्टो यः संयोगस्तादृशसंयोगसंबन्धेन भूतलं घटवदिति शाब्दबोधाकारः, तथा ' इह भवने ' इत्यत्र विशेषगसंबन्धे विशेषगस्य मैत्रान्यसमवेतभविष्यत्कृतिविषयत्वाभावस्य स्वरूपसंबन्धे तदवच्छिन्नत्वम् एतद्भवनाधिकरणकतेमनपाकत्वावच्छिन्नत्वं तदवच्छेदेन एतद्भवनाधिकरणकतेमनपाकत्वावच्छेदेन विशिष्टबुद्धौ मैत्रान्यसमवेतभविष्यतकृतिविषयत्वाभावान्वयबु. द्धौ भासते तथा चैतद्भवनाधिकरणकतेमनपाकत्वस्य संसर्गकोटी प्रवेशात् तदुपस्थित्यपेक्षानास्तीति शब्दादनुपस्थितेपि एतद्भवनाधिकरणकतेमनपाके मैत्रान्यसमवेतभविष्यत्कृतिविषयस्वाभावस्यान्वये न कोपि दोष इत्यर्थः । तदवच्छिन्नत्वम् अन्वयितावच्छेदकावच्छिन्नत्वम् । तदवच्छेदेन अन्वयितावच्छेदकावच्छेदेन ।
नन्वऽवच्छेदकावच्छेदेन विशिष्टबुद्धौ अवच्छेदकावच्छिन्नत्वं विशेषणे भासते ( विशेषणेऽवच्छिन्नत्वसंबन्धेन विशेषणम् ) इति यत्त्वयोक्तं तदपि न संभवति-'घटो द्रव्यम् । इत्यत्र द्रव्यत्वस्य स्वरूपेणैव भासमानत्वेन अन्वयितावच्छेदकं यद् घटत्वं तदवच्छिन्नत्वेन भासमानस्वाभावाद् अन्यथा सकलद्रव्यस्य घटत्वं स्यादित्याशङ्क्याह-न चेति । उत्तरमाह-तादृशेति, तादृशशाब्दबोधे=' घटो द्रव्यम् ' इत्याकारकशाब्दबोधे द्रव्यामेद एव घटे प्रतीयते इति घटे द्रव्यत्वावच्छिन्नमभेदसंबन्धेन विशेषणमस्तीति नेदं मदुक्तनियमस्योदाहरणं भेदसंबन्धस्थले एव
"Aho Shrutgyanam