________________
तृतीयायाः कृत्यर्थकत्वम् ]
व्युत्पत्तिवादः । द्रव्यत्वादिविशेषणकतादृशप्रत्यक्षेऽवच्छेदकावच्छिन्नत्वभानानुपगमे हात् । तथा च ' मैत्रेण न पच्यते ' इत्यादौ पाककृतित्वस्यान्वयितानवच्छेदकत्वेप्यऽर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गांशे भानं निराबाधमेवेति चेत् ?, न - मैत्रेण न पक्कः इत्यादौ कृतौ मैत्रादिवृत्तित्वाभावबोधासंभवेन कृतिजन्यत्वस्य तृतीयार्थतां स्वीकृत्य क्रियायां मैत्रादिकृतिजन्यत्वाभावबोधस्यावश्यमुपगन्तव्यतया मैत्रेण न पच्यते ' इत्यादावपि तद्बोधोपगमेन सामञ्जस्यात् ।
न च यदा मैत्रः सुप्तस्तदा ' मैत्रेण पक्ष्यते न तु पच्यते ' इतिप्रयोगानुपपत्तिः - मैत्रवृत्तिवर्तमानकृतेरप्रसिद्धया तादृशकृतिजन्यत्वाभावप्रत्यायनासंभवात्,
"
3
( ३९७
क्षतिविर
तस्य मदुक्तनियमस्य संभवात् 'घटवद् भूतलम् ' ' इह भवने' इत्यादौ भेदसंबन्धेनैवान्वयादित्यर्थः । घटत्वविशिष्टविषयके द्रव्यत्वविशेषण के तादृशप्रत्यक्षे-' घटो द्रव्यम् ' इत्याकारकप्रत्यक्षे च विशेषणेऽवच्छेदकावच्छिन्नत्वभानानभ्युपगमेपि क्षतिविरहात् = उक्तस्थलयोरन्वयितावच्छेदकावच्छिन्नत्वभानाभ्युपगमे बाधकाभावादित्यर्थः । उपसंहरति- तथा चेति, 'मैत्रेण न पच्यते ' इत्यत्र पाकक्रियाया विशेष्यत्वात् कृतौ विशेषणत्वाभावात् कृतित्वमेवान्वयितावच्छेदकं न तु पाककृतित्वमिति पाककृतित्वस्यान्वयितानवच्छेदकत्वेपि शब्दादनुपस्थितत्वेपि च पचधातुसमभिव्याहारवलात् पाककृतित्वस्य भानं संभवत्येवेत्यर्थलभ्यः = अर्थालुभ्यो यस्तादृशधर्म:पाककृतित्वधर्मस्तदवच्छिन्नत्वस्य संप्तर्गाशे = मैत्रवृत्तित्वाभाव संसर्गांशे भानं निराबाधमेव, पाककतित्वस्य संसर्गाशे प्रवेशेन तदुपस्थित्यपेक्षाभावात् तथा चात्र कृतौ पाककृतित्वावच्छिन्नविशेषणतासंबन्धेन वा पाककृतित्वावच्छिन्नस्वरूपसंबन्धेन वा मैत्रवृत्तित्वाभावस्यान्वयः क्रियते इति न कोपि दोषः । अत्रापि मैत्रवृत्तित्वाभावरूपविशेषणस्य संबन्धे एव तदवच्छिन्नत्वम् - पाककृ तित्वावच्छिन्नत्वं प्राप्तमित्यर्थः ।
"Aho Shrutgyanam"
$
अथेत्यादिनाऽऽशङ्कितं परिहरति-नेति, यदि कृतिराख्यातार्थ एव स्यान्न तृतीयार्थस्तदा मैत्रेण न पकः ' इत्यत्राख्यातस्याभावेन कृत्युपस्थितिर्न स्यात्तथा च कृतौ मैत्रवृत्तित्वाभावबोधनमपि न स्यादित्यगध्याऽत्र तृतीयायाः कृतिजन्यत्वमर्थः स्वीकार्यस्तथा च तृतीययोपस्थित - मैत्रवृत्तिकृतिजन्यत्वस्य पाकक्रियायामभावस्तद्बोधनं च संभवतीति मैत्रेण न पच्यते ' इत्यत्रापि तृतीयायाः कृतिजन्यत्वार्थकत्वेन तद्बोधोपगमेन - पाके मैत्रवृत्तिकृतिजन्यत्वाभावबोध एव युक्त इत्यर्थः ।
ननु यदा मैत्रसुप्तस्तदा मैत्रे कृतिर्न संभवतीति मैत्रवृत्तिवर्तमानकृतेरसंभवाद् मैत्रवृत्तिवर्तमानकृतिजन्यत्वस्याsसंभवेन मैत्रवृत्तिवर्तमानकृतिजन्यत्वाभावस्य बोधोपि न संभवति वर्तमानत्वाविशेपितस्य सामान्यतः कृतिजन्यत्वस्याभावस्तु बाधित एव भूतभविष्यत्कृतिजन्यत्वस्य भूतभवियत्पाकादौ संभवादिति ' मैत्रेण पक्ष्यते न तु पच्यते ' इति प्रयोगानुपपत्तिरित्याशङ्क्याह