________________
(३९८)
सादर्श:
[ तृतीयाकारकेवर्तमानत्वाविशेषिततदीयकृतिजन्यत्वाभावस्य च बाधितत्वादिति वाच्यम्, आख्यातार्थवर्तमानत्वादेर्नसमभिव्याहारस्थलेऽभावांशे एवान्वयस्य व्युत्पन्नत्वात् । अन्यथा 'विनष्टघटं न पश्यति' इत्यादौ तादृशघटकर्मकवर्तमानदर्शनाद्य ऽप्रसिद्धयाऽन्वयबोधानुपपत्तेः । प्रकृते च मैत्रीयवर्तमानकृत्यप्रसिद्धावपि वर्तमानकालावच्छिन्नतजन्यवाभावस्यैव पाके प्रतीत्या सामञ्जस्यात् । पाकत्वाद्यव. च्छेदेनैव मैत्रादिकर्तृकत्वाभावबोधोपगमाद् मैत्रादिकर्तृकपाकदशायामन्यकर्तृकपाके मैत्रादिकर्तृकत्वाभावसत्त्वेपि न पच्यते मैत्रेण ' इत्यादयो न प्रयोगाः। ___ यत्र मैत्रेणौदनं पच्यते न तु तेमनं तत्र 'मैत्रेण न पच्यते तेमनम् ' इत्यादिप्रयोगनिहाय तेमनपाकत्वाद्यवच्छेदेनैवाऽभावान्वयबोध उपगम्यते न तु शुद्धपाकत्वाद्यवच्छेदेन- बाधितत्वात् । यथा च तेन रूपेण शब्दादनुपस्थितावपि तदवच्छेदेनान्वयबोधनिर्वाहस्तथोपपादितमाधेयत्वस्य तृतीयार्थत्ववादिनैव । न चेति । फरहारमाह-आख्यातार्थेति, नसत्त्वे वर्तमानत्वादिकालस्याभावेऽन्वयो भवति न तु कृतौ कृतिजन्यत्वे वेत्यर्थस्तथा चोक्तस्थले वर्तमानकालिको यः कृतिजन्यत्वाभावस्तस्य पाकेऽन्धयोऽभीष्टस्तत्र च न काप्यनुपपत्तिः-उक्तस्थले पाके वर्तमानकालिकस्य कृतिजन्यत्वाभावस्य बाधाभावात् । विपक्षे बाधकमाह- अन्यथेति, यदि नसममिव्याहारस्थले आख्यातार्थवर्तमानस्वादेरभावेऽन्वयो न स्त्री क्रियेत तदा ‘विनष्टघटं न पश्यति ' इत्यत्र विनष्टघटस्यासत्त्वेन तादृश विनष्टघटकर्मकवर्तमानदर्शनस्याऽसंभवात्तदभावबोधनं नोपपद्येत, नत्रर्थाभावे च वर्तमा. नत्वस्यान्वये तु वर्तमानस्य दर्शनाभावस्य सत्त्वेनान्वयबोधः शाब्दबोध उपपद्यते । उपसंहरतिप्रकृते चेति, प्रकृते= मैत्रेण पक्ष्यते न तु पच्यते ' इत्यत्र । वर्तमानकालावच्छिन्नो यस्तजन्यत्वाभाव: कृतिजन्यवाभावस्तस्येत्यर्थः । पाकत्वेति- 'मैत्रेण न पच्यते' इत्यत्र पाकरवावच्छेदेन मैत्रकर्तृकत्वाभावबोधस्य मैत्रवृत्तिकृतिजन्यत्वाभावबोधस्य स्वीकारात् पाकत्वावच्छेदेन मैत्रकर्तृकत्वाभावस्याऽसत्त्वाच्च अन्यकर्तृकपाके मैत्रकर्तृकत्वाभावस्य सत्त्वेपि मैत्रकर्तृकपाके मैत्रकर्तृकत्वाभावस्याऽसत्त्वात् मैत्रकर्तृकपाकदशायाम् ' मैत्रेण न पच्यते ' इतिप्रयोगस्यापत्तिआस्तीत्यर्थः । - यत्रेति- यदा मैत्रेणौदनं पच्यते तेमनं तु न पच्यते तदा ' मैत्रेण न पच्यते तेमनम् । इतिप्रयोगनिर्वाहाय तेमनपाके एव मैत्रवृत्तिकृतिजन्यत्वाभावः स्वीक्रियते न तु सामान्यतः पाकेओदनपाके मैत्रवृत्तिकृतिजन्यत्वस्यैव सत्त्वेन मैत्रवृत्तिकृतिजन्यत्वामावस्य बाधितत्वादित्यर्थः । ननु “ मैत्रेण न पच्यते तेमनम् । इत्यत्र तेमनपाकत्वेन रूपेण पाकस्योपस्थितिरेव न संभवतीति कथं तेमनपाकत्वावच्छेदेन मैत्रवृत्तिकृतिजन्यत्वाभावस्यान्वयः स्यादित्याशझ्याह- यथा
चेति । तेन रूपेण-मनपाकत्वेन रूपेण । तदवच्छेदेन तेमनपाकत्वावच्छेदेन । अन्वयबोध'निर्वाहः मैत्रवृत्तिकृतिजन्यत्वाभावबोधनिर्वाहः । उपपादितम् =" क्रियाविशेषघटितधर्मस्यान्वयितानवच्छेदकत्वेपि तदवश्छिन्नत्वविशिष्टविशेषणताया अभावसंसर्गतया भानसंभवेन साम
"Aho Shrutgyanam"