________________
.तृतीयायाः कृत्यर्थकत्वम् 1
व्युत्पत्तिवादः ।
( ३९९ )
(
6
<
घटेन न पच्यते ' इत्यादयः प्रयोगाः ' आकाशं न पश्यति' इत्यादिप्रयोगसमानयोगक्षेमा एव मन्तव्याः । अचेतनस्य काष्ठस्थाल्यादेरपि कर्तृत्ववि - वक्षया ' काष्ठं पचति ' स्थाली पचति' इत्यादिवत् ' काष्ठेन पच्यते स्थाल्या पच्यते ' इतिप्रयोगात् तत्र व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे तत्कर्तृकत्वे वा तृतीयाया लक्षणा । एवम्- 'चैत्रेण ज्ञायते. इष्यते गम्यते' इत्यादावाश्रयत्वरूपे कर्तृत्वे आधेयत्वरूपे कर्तृमत्त्वे वा, 'नश्यते घटेन' इत्यादौ प्रतियोगित्वरूपे कर्तृत्वेऽनुयोगित्वरूपे कर्तृमत्ये वा लक्षणा । कर्तृपदमाप व्यापारादिमत्यचेतनादौ भाक्तमेव- अचेतनादौ स्वरसतः कर्तृपदाप्रयोगात्, अत एव च कृञो यत्नवाचकत्वम् |
अस्यात्. ३९२ " इत्यादिना " पाककृतित्वस्यान्वयितानवच्छेदकत्वेप्यर्थलभ्यतादृशधर्मावच्छिन्नत्वस्य संसर्गाशे भानं निराबाधमेव ३९७” इत्यादिना चोपपादितम् । अर्थात् तेमनपाकस्वस्य संसर्गाशे प्रवेशः कर्तव्यस्तथा च तेमनपाकत्वसमानाधिकरणविशेषणता संबन्धेन पाके मैत्रवृत्तिकृतिजन्यत्वाभावस्यान्वयः कर्तव्य इति तेमनपाकत्वेनोपस्थितेरपेक्षा नास्ति ।
घटेनेति - समानयोगक्षेमा = तुल्या निष्प्रामाणिका इत्यर्थः ( २९४ पृ.) द्रष्टव्यम् । नन्वेवम् ' काष्ठेन पच्यते ' इत्यादिप्रयोगाणामप्यऽप्रामाण्यं स्याद् घटकाष्ठयोरचेतनत्वेनाविशेषादित्याशङ्क्याह- अचेतनस्येति, प्रयोगात् = प्रयोगो भवतीत्यर्थः । काष्ठस्थाल्यादीनामचेतनत्वेपि पाके करणत्वादिना पाकोपयोगित्वेन कर्तृत्वविवक्षा संभवति न तु घटादेरपि - पाकोपयोगित्वाभावादित्ययमेव विशेष इति भावः । तत्र = ' काष्ठेन पच्यते ' इत्यत्राचेतने काष्ठे कृतेरसंभवेन तृतीयाया मुख्य कृत्यर्थकत्वासंभवात् कृतिजन्यत्वार्थकत्वासंभवाच व्यापाररूपे कर्तृत्वे तज्जन्यत्वरूपे = व्यापारजन्यत्वरूपे सत्कर्तृकत्वे = काष्ठकर्तृकत्वे वा लक्षणा तत्र कर्तृत्वं काष्ठादौ तत्कर्तृत्वं पाकादौ ज्ञेयम् । एवमिति, “ तृतीयाया लक्षणा " इत्यनुवर्तनीयम् । चैत्रादौ यज् ज्ञानाश्रयत्वं तदेव ज्ञानकर्तृस्वम्, ज्ञानादौ च यचैत्रनिरूपिताधेयत्वं तदेव कर्तृमत्वम् = चैत्रवत्त्वं ज्ञेयम् - आधेयत्वसंबन्धेन ज्ञानादौ चैत्रादिकर्तृपदार्थान्वयात् तथा च चैत्रकर्तृकज्ञानविषयताश्रयश्चैत्रवृत्तिज्ञानविषयताश्रय इति वा शाब्दबोधः । एवमेव ' गम्यते ' इत्यादावपि तृतीयायाः कर्तृवादी लक्षणा अनुयोगित्वेति-नाशरूपाभावेपि घटः स्वप्रतियोगिकत्वसंबन्धेन वर्तत इति अनुयोगित्वं नाशे प्राप्तं तदेव घटवत्त्वमित्यर्थः । भाक्तम् = लाक्षणिकम् । स्वरसत इति - मुख्यस्य कृतिमत्त्वरूपकर्तृत्वस्याचेतनेऽसंभवादित्यर्थः । अत एवेति - यत एवाचेतने कर्तृपदं भाक्तमत एव, यदि कृञो यत्नवाचकत्वं न स्यात्तदा कर्तृपदप्रयोगोऽचेतनेपि मुख्य एव स्यात् न चैतदिष्टमिति कृञो `यत्नवाचकत्वं तथा च कृञर्थयत्नस्याचेतनेऽभावाद् यत्नाश्रयत्वबोधककर्तृपदमचेतने काष्ठादौ लाक्षणिकमेव भवति न मुख्यमित्यर्थः । गम्यते इत्यत्र चैत्रकर्तृकगमनव्यापारजन्यसंयोगाश्रयः, “ काष्ठेन पच्यते इत्यत्र च काष्ठकर्तृकव्यापारजन्यविक्लित्त्याश्रय ओदनः । इतिशाब्दबोधः ।
"Aho Shrutgyanam"