________________
(४००)
सादर्श:
[तृतीयाकारकेन च यत्नवत एव कर्तृपदार्थत्वे “कर्तृकरणयोस्तृतीया" इत्यादौ कर्तृपदस्य मुख्यार्थत्यागे युक्तिविरहादञ्चेतनकाष्ठादिपदप्रयोगे कर्तृप्रत्ययानुपपत्तिरिति वाच्यम्, सूत्रस्थकर्तृपदानाम् " स्वतन्त्रः कर्ता " इतिसूत्रकृत्परिभाषितकई परत्वात्, अन्यथा तत्प्रणयनवैयर्थ्यप्रसङ्गात् । स्वतन्त्रत्वं च कारकान्तरव्यापारानधीनत्वे सति कारकत्वम् । 'काष्ठं पचति ' इत्यादौ स्वातन्त्र्यविवक्षया काष्ठादेः कर्तृत्वम् ।
न च स्वातन्त्र्यविवक्षणेपि पुरुषव्यापाराधीनक्रियानुकूलव्यापारवतामेषामन्यव्यापारानधीनक्रियानुकूलव्यापारवत्वरूपस्य स्वातन्त्र्यस्य वास्तविकस्याभावात्तद्रोधकविभक्तीनामप्रामाण्यं दुर्वारमेवेति वाच्यम्, समभिव्याहृताक्रयाकारकान्तरव्यापारानधीनतक्रियानुकूलस्य व्यापारस्यैव तक्रियावाचकपदसमभिव्याहृतविभत्त्यर्थत्वात् । अनधीनान्तविशेषणप्रयोजनं च 'चैत्रः काठैः स्थाल्यां पचति' इत्यादिस्थले 'चैत्रः स्थाली काष्ठानि पचति' इतिप्रयोगापत्तिवारणम् । यत्र च 'चैत्र: पचति ' 'काष्ठं पचति' इत्यादौ समभिव्याहृतकारकान्त
शङ्कते- न चेति, अचेतने काष्ठादौ यत्नाऽसंभवा देत्यर्थः । परिहारमाह- सूत्रस्थेति, " स्वतन्त्रः कर्ता " इतिसूत्रे सूत्रकृता परिभाषितं यत् स्वतन्त्रत्वरूपं कर्तृत्वं तत्परत्वात् सूत्रस्थकर्तृपदानामित्यर्थः । विपक्षे बाधकमाह-- अन्यथेति, अन्यथा उक्तपरिभाषितकर्तृत्वाग्रहणे यत्नाश्रयत्वरूपकर्तृत्वस्य लोकप्रसिद्धत्वात् " स्वतन्त्रः कर्ता " इतिसूत्रप्रणयनं व्यर्थमेव स्यात्, तथा च काष्ठादीना स्वतन्त्रत्वरूपकर्तृत्वस्य संभवात् काष्ठादिपदोत्तरं कर्तृतृतीया संभवतीत्यर्थः । स्वतन्त्रत्वलक्षणमाह- स्वतन्त्रत्वं चेति । __ शङ्कते- न चेति । एषाम्-काष्ठादीनाम् । तद्बोधकेति-- कारकान्तरव्यापारानधीनकारकत्वरूपं यत् स्वतन्त्रत्वं तादृशस्वतन्त्रत्वरूपकर्तृत्वबोधकविभक्तीनाम्, अचेतकाष्ठादौ पुरुषाधीनत्वेनोक्तस्वतन्त्रत्वस्याप्यसंभवादित्यर्थः । परिहारमाह-समभिव्याहृतेति, 'काष्ठेन पच्यते" इत्यादौ व्यापारस्यैव कर्तृत्वमुक्तमिति सममिव्याहृता क्रियाकारकान्तरव्यापारानधीना या तत्क्रिया पाकक्रिया तदनुकूलो यः प्रज्वलनरूपो व्यापारस्तस्यैव तक्रियावाचकेन 'पच्यते ' इति पदेन समभिव्याहृता या तृतीयाविभक्तिस्तदर्थत्वात् तस्य च काष्ठादावपि सत्त्वात् न काष्ठादिपदोत्तरतृतीयादिविभक्तेरप्रामाण्यमित्यर्थः । स्वतन्त्रत्वलक्षणेऽनधीनान्तविशेषगप्रयोजनमाहअनधीनान्तेति, कारकत्वं स्वतन्त्रत्वमित्येतावन्मात्रोक्ते काष्ठस्थाल्यादीनामपि कारकत्वेन स्वतन्त्रत्वरूपं कर्तृत्वं स्यात् तस्य च पचतीत्याख्यातेनोक्तत्वात् काष्ठादिपदोत्तरं प्रथमैव स्यादिति 'चैत्रः काष्ठैः स्थाल्यां पचति । इत्यस्य स्थाने ' चैत्रः स्थाली काष्ठानि पचति' इत्यपि प्रयोगः स्यात् "कारकान्तरव्यापारानधीनत्वे सति" इति विशेषणसत्त्वे तु काष्ठादीनामत्र चैत्रव्यापाराधीनत्वेन स्वतन्त्रत्वाभावात् तेन च कर्तृत्वाभावान्न काष्ठादिपदोत्तरं प्रथमापत्तिरिति न 'चैत्रः काष्ठैः' इत्यस्य स्थाने 'चैत्रः काष्ठानि' इति प्रयोगापत्तिरित्यर्थः । यत्र चेति- कारकान्तरबोध
"Aho Shrutgyanam"