________________
तृतीयायाः कृत्यर्थकत्वम् ]
व्युत्पत्तिवादः ।
(४०१ )
रामसिद्धिस्तत्राऽनधीनान्तविशेषणं न प्रतीयत एव तन्निर्वाहश्च तत्र लकारादेः स्वतन्त्रशक्त्यन्तरकल्पनात, विशिष्टविषयकशक्त्या विशेषणांशाविषयक बोधाऽजननात् ।
न च 'मैत्र चैत्रेण पाचयति' इत्यादौ हेतु कर्तृसमभिव्याहारस्थले कर्तरि तृतीयानुपपत्तिः - कर्तृव्यापारस्य समभिव्याहतहेतुव्यापाराधीनत्वादिति वाच्यम्, तत्र ण्यन्तप्रतिपाद्य पाचनादिक्रियायामेव हेतोः कारकतया स्वतन्त्रकर्तृव्यापारस्य पच्यादिक्रियायां कारकान्तरव्यापारानधीनत्वात् । स्वतन्त्रं प्रयुञ्जानस्य पुंसो व्यापारस्तण्डुलक्रयणादिवत् पाकादावन्यथासिद्धतया न कारणमिति पाकादिप्रयोकव्यापारवत्त्वेपि तस्य तत् क्रियाकारकत्वाभावात्, अत एव चैत्रो मैत्रेण पाचयति' इत्यादौ 'चैत्रः पचति' इति न प्रयोगः ।
कपदाभावेन कारकान्तरोपस्थित्यभावात् तेन च कारकान्तराधीनत्वप्रतीत्यसंभवात् तदभावरूपकारकान्तरानधीनत्वप्रतीतेरप्यसंभव एवेत्यर्थः । : "कारकान्तरव्यापारानधीनत्वे सति कारकत्वं स्वतन्त्रत्वम्” इत्याकारक विशिष्टविषयकशक्त्या अनधीनान्तविशेषणं विना केवलकारकत्वविषयक बोधोत्पत्तिर्न संभवतीति तन्निर्वाह: - अनधीनान्तविशेषणाऽप्रतीतिनिर्वाहो लकारादेः स्वतन्त्रशक्त्यन्तरकस्यनात्=केवलकारकत्वरूप स्वतन्त्रत्वे शक्तिकल्पनाद् भवतीत्यर्थः तथा च कर्तृवाचकलकारतृतीयादीनाम् ' चैत्रः काष्ठैः' इत्यादौ कारकान्तरव्यापारानधी नकारकत्वरूप स्वतन्त्रत्वभूत कर्तृत्व शक्तिर्ज्ञेय ' चैत्रः पचति ' इत्यादौ कारकान्तराभावात् शुद्धकारकत्वरूप स्वतन्त्रत्वभूतकर्तृत्वे शक्तिर्ज्ञेयेति नाऽनधीनत्वरूपविशेषणप्रतीत्यापत्तिः ।
शङ्कते - न चेति, चैत्रव्यापारस्य मैत्राधीनत्वेन चैत्रस्य स्वतन्त्रत्वं नास्तीति तृतीया - नुपपत्तिरित्यर्थः । हेतुकर्ता = प्रयोजककर्ता स चात्र मैत्रः । परिहारमाह - तत्रेति, तत्र = 'मैत्रत्रेण पाचयति' इत्यत्र मैत्रस्य हेतुकर्तृभूतस्य ण्यन्तप्रतिपाद्यपाचन क्रियायामेव कारकत्वमस्ति न तु धात्वर्थपचनक्रियायामिति स्वतन्त्र कर्तव्यापारस्य = चैत्रव्यापारस्य धात्वर्थपचनक्रियायां कारकान्तरव्यापाराधीनत्वं नास्त्येव पचनक्रियायां कारकान्तरस्यैवाभावादिति न चैत्रपदोत्तरतृतीयानुपपतिरित्यर्थः । उक्ते हेतुमाह- स्वतन्त्रमिति, स्वतन्त्रम् = धात्वर्थपचनादिक्रियाकर्तृभूतं चैत्रादिकं प्रयुञ्जानस्य = प्रेरकस्य पुंसो मैत्रादेः प्रेरणारूपो व्यापारः क्रयणादिव्यापारवत् पाकक्रियायामन्यथासिद्ध एवोपयोगित्वाभावादिति न कारणं तथा च मैत्रादेः पाकादिप्रयोजकव्यापारवत्त्वेपि = पाकविषयकप्रेरणालक्षणव्यापारवत्त्वेपि तस्य = मैत्रादेस्तत् क्रियायाम् = पाकक्रियायां कारकत्वमेव नास्ति येन पाकक्रियायां चैत्रस्य मैत्राधीनत्वं स्यात्तेन च तृतीयानुपपत्तिः स्यादित्यर्थः । अत एव = Vचैत्रो मैत्रेण पाचयति' इत्यत्र चैत्रस्य धात्वर्थपाकक्रियायां कारकत्वाभावादेव । अन्यथा चैत्रस्यापि कारकत्वे कर्तृत्वं स्यादिति 'चैत्रो मैत्रेण पाचयति' इत्यस्य स्थाने 'चैत्रः पचति' इतिप्रयोगः स्यादेवेत्यर्थः ।
२६
" Aho Shrutgyanam"