________________
(४०२)
सादर्श:
[ तृतीयाकारकेन च ‘पञ्चभिईलैः कर्षति गृही' इत्यादी भूमिलेखनरूपकृष्यादिक्रियायां स्वतन्त्रकर्तृन् प्रयुञानस्य गृहिणो व्यापारस्य दर्शितयुक्त्या लकारादिनाऽभिधाना. संभव इति 'कति इति न स्यात् 'कर्षयति' इति च स्यादिति वाच्यम्,तत्र कृषः प्रतिविधानार्थत्वात्, उक्तं च “याजका यजन्ति' इति यजिहविःप्रक्षेपार्थः, 'पञ्चभिहलैः कर्षति इति कृषिः प्रतिविधानार्थः" इति, यजेवतोद्देश्यकद्रव्यत्यागेच्छाविशेषरूपार्थे मुख्यतया तत्र च यजमानस्यैव कर्तृतया हविःप्रक्षेपरूपलक्ष्यार्थपरत्वं दर्शितं तत्र चत्विजामेव स्वातन्त्र्यम् । 'होता' इत्यत्रापि हविःप्रक्षेप एव हुधातोरर्थो न तु तादृशफलावच्छिन्नस्त्यागः,तथा सति ऋत्विजस्तत्र स्वतन्त्रकर्तृ. ताविरहेण होतृपदेन प्रतिपादनासंभवात् । “धात्वर्थतावच्छेदकफलकर्तृत्वमेवकर्तृप्रत्ययेन प्रतिपाद्यते इति ऋत्विजि होतृव्यवहारो न यष्टरि । अतः प्रतिगृहातृव्यापारो न स्वत्वजनकस्तथा सति तत्र दातृव्यवहारापत्तेः" इति तु जीमूतवाहनः ।
शकते-न चेति । हलपदेनात्र हलवाहका पुरुषा एव ग्राह्याः । गृहिपदेन च व्यवस्थापको प्रायः । स्वतन्त्रकर्तृन्-कृषिक्रियायां स्वतन्त्रान् हलवाहकान् । दर्शितयुक्त्या="स्वतनं प्रयुजानस्य पुंसो व्यापारस्तण्डुल क्रयणादिवत्" इत्यादिदर्शितयुक्त्या, गृहिणः प्रेरणारूपक्रि. यायामेव कारकत्वात् प्रेरणाव्यापारबोधकणिच आपत्त्या ‘कर्षयति ' इतिस्यात् कृषिरूपक्रियायां च गृहिणः कारकत्वाभावात् हलानामेव तत्र कारकत्वात् लकारादिना गृहिव्यापारस्यामिधानासंभवात् 'कर्षति' इति न स्यादित्यर्थः । परिहरति- तत्रेति । तत्र उक्तोदाहरणे प्रतिविधानम् व्यवस्था । उक्ते प्रमाणमाह- याजका इति, तथा च प्रतिविधानरूपक्रियायां गृहिण एव कारकत्वात् तद्गतच्यापारस्यैवात्र लकारेणामिधानात् 'कर्षति गृही' इति युक्तमेव, तथा च 'गृही पंचभिर्हलैर्व्यवस्थां करोति' इति शाब्दबोधः । यजेर्हविःप्रक्षेपार्थत्वमुपपादयति- यजेरित्यादिना । तत्र-देवतोद्देश्यकहविस्त्यागेच्छायां यजमानस्यैव कर्तृकारकत्वात् 'याजका यजन्ति' इति न स्यात् किं तु 'यजमानो यजति तं याजका याजयन्ति' इत्येव स्यादिति यजेर्हविःप्रक्षेपरूपार्थे लक्षणास्ति तया च तत्र-हविःप्रक्षेपे ऋत्विजामेव स्वातन्त्र्यात 'याजका यजन्ति' इतियुक्तमेवेत्यर्थः । एवमेव होतृपदेपि शेयमित्याह- होतेति । तादृशफलावच्छि. नः देवतोद्दे पकद्रव्यत्यागरूपफलावच्छिन्न इच्छारूपत्यागः । विपक्षे बाधकमाह- तथा सतीति, यदि होता इत्यत्र हुधातोर्देवतोदेश्यकद्रव्यत्यागरूपफलावच्छिन्न इच्छारूपः त्याग एवार्थः स्यात्तदा ऋत्विजः ऋत्विग्विशेषस्य तत्र देवतोद्देश्यकेच्छारूपत्यागे स्वतन्त्रकर्तृताविरहेण होतृपदेन ऋत्वि. विशेषस्य प्रतिपादनं न संभवेत् किंतु यजमानस्यैव प्रतिपादनं स्यात्,नचैतदिष्टं तस्मादत्र दुधातोहविःप्रक्षेप एवार्थस्तत्र च ऋत्विजः स्वातन्त्र्यात् जोहुतीति होतेत्यत्र होतृपदेन ऋत्विक्प्रतिपादनं संभवति । अत्र जीमूतवाहनमतमाह-धात्वर्थेति, देवतोदेश्यकद्रव्यत्यागेच्छा धात्वर्थस्तदवच्छेदकं फलं देवतोदेश्यकद्रव्यत्यागस्तत्कर्तृत्वमेव 'होता' इत्यत्र कर्तृवाचकतृच्प्रत्ययेन प्रतिपाइते द्रव्यं
"Aho Shrutgyanam"