________________
प्रकृतविवादः ]
व्युत्पत्तिवादः ।
( ४०३)
अथास्तु 'चैत्रेण मैत्रेण पाच्यते' इत्यादौ स्वतन्त्रव्यापारस्य हेतुकर्तृव्यापाराधीनत्वेपि दर्शितरीत्या तस्य स्वतन्त्रकर्तृत्वनिर्वाहस्तथापि तद्वाचकपदोत्तरं तृतीयानुपपत्ति:- कर्तृत्वस्य णिचूप्रत्ययेनाभिधानादिति चेत् ?, न- कर्तृत्वनिर्वाहकत्वसबन्धेन पाकाद्यन्वयिनो हेतुकर्तृव्यापारस्य णिजर्थत्वेन स्वतन्त्र कर्तृत्वस्य णिचाऽनभिधानात् । कर्तृत्वरूपफलावच्छिन्नस्य तादृशव्यापारस्य णिजर्थतामतेप्याऽऽश्रयोपरक्तस्य कर्तृत्वस्यान्यतो भानाऽनिर्वाहेण कर्तुरनभिधानात् तृतीयोपपत्तिः । आख्यातस्य धर्म्य वाचकत्वेपि कृतिविशिष्टबोधकत्वरूपस्य कर्त्रऽभिधानस्याऽक्षतत्वात् 'चैत्रः पचति' इत्यादौ न तृतीया ।
इविस्त्यागे च ऋत्विजः स्वातन्त्र्यमिति ऋत्विज होतृत्वव्यवहारो भवति न यष्टारे यजमाने इत्यर्थः । अत इति - यतो धावर्थतावच्छेदक फल कर्तृत्वं कर्तृप्रत्ययेन प्रतिपाद्यतेऽतः प्रतिगृहीतृव्यापारो न स्वस्वस्वजनकोऽभ्युपगन्तव्यः, अयं भावः- स्वस्वत्वध्वंसविशिष्ट परस्वत्वानुकूलेच्छेव दावात्वर्थोस्तीत्युक्तम् (२४० पृ.) तत्र धात्वर्थतावच्छेदकं फलं परस्वत्वमेत्र परस्वत्वं च प्रतिगृहीतृस्वत्वमेवेति प्रतिगृहीतृस्वत्वकर्तृत्वम् = प्रतिगृहीतृस्वत्व जनकत्वमेव ' दाता ' इत्यत्र कर्तृप्रत्यमेन तृचा प्रतिपाद्यते इति प्रतिगृहीतृस्वत्वजनकत्वमेव दातृत्वमिति सिद्धं यदि च प्रतिगृहीतृव्यापारोप स्वस्त्वजनकः स्यात्तदा तत्र = प्रतिगृहीतर्यपि दातृत्वव्यवहारः स्यादेव स्वत्वजनकव्यापारवत एव दातृत्वात् तस्मान्न प्रतिगृहीतृव्यापारः स्वस्वत्वजनकः किं तु दातृव्यापार एवेत्यर्थः । तथा सति प्रतिगृहीतृव्यापारस्य स्वस्त्वजनकरखे सति । स्वत्वपदेन संप्रदानस्वत्वं ग्राह्यम् ।
ननु ' चैत्रेण मैत्रेण पाच्यते ' इत्यत्र स्वतन्त्र व्यापारस्य = मैत्रव्यापारस्य हेतुकर्तृव्यापारांचीनत्वेपि = चैत्र व्यापाराधीनत्वेपि दर्शितरीत्या = " तत्र ण्यन्तप्रतिराद्यपाचनादिक्रियायामेव हेतोः कारकतया ४०१पृ, " इत्यादिरीत्या अर्थात् चैत्रस्य ण्यन्तक्रियायां कारकत्वेपि धात्वर्थक्रियायां कारकत्वाभावात्तत्र मैत्रस्यैव स्वातन्त्र्यात् तस्य - मैत्रस्थ स्वतन्त्रकर्तृत्वं यद्यपि संभवति तथापि तद्वाचकपदोत्तरम् = स्वतन्त्र कर्तृवाचकमैत्रपदोत्तरं तृतीया न संभवति - कर्तृत्वस्य णिचप्रत्ययेनामिधानात्, कर्तृत्वानभिधाने एव कर्तृत्ववाचकतृतीयासंभवादित्याशङ्कते - अथेति । परिहरतिनेति । अत्र पाक एव कर्तृत्वनिर्वाहक इति कर्तृत्वनिर्वाहकत्व संबन्धेन पाके हेतुकर्तृव्यापारस्य == चैत्रव्यापारस्यान्वयात् तस्यैव णिचाऽभिधानात् मैत्रवृत्तिकर्तृत्वस्य च णिचाऽनभिधानात् मैत्रपदोत्तरं कर्तृत्वबोधिका तृतीया युक्तैवेत्यर्थः । पक्षान्तरमाह- कर्तृत्वरूपेति, यदि न केवलं हेतु कर्तृव्यापार एव निजर्थः किं तु कर्तृत्वानुकूलपाकान्त्रयी व्यापारो णिजर्थस्तथा च कर्तृस्थस्यापि णिचैत्र लाभस्तदाप्याश्रयोपरक्तस्य = आश्रय विशिष्टकर्तृत्वस्य तृतीयातिरिक्तेन भानं न संभवतीति कर्तृत्वाश्रयीभूतकर्तुरनभिधानात् तादृशकर्तुर्बोधनार्थ मैत्रपदोत्तरं तृतीया युक्तैवेत्यर्थः । णिचो व्यापारवाचकत्वेन कर्तृत्ववाचकत्वाभावाच्चैत्र मैत्रपदाभ्यां कर्तृत्ववाचकतृतीयाया आवश्यकतेति भावः । नन्वेवमाख्यातस्याप्याश्रयत्ववाचकत्वेन धर्म्यऽवाचकत्वात् = कवाचकत्वात् ' चैत्रः पचति ' इत्यत्रापि चैत्रपदोत्तरं तृतीया स्यादित्याशङ्क्याह-आख्या
" Aho Shrutgyanam"