________________
(४०४ )
सादर्श:
[ तृतीयाकारके
८
"
न चैवं मुख्यविशेष्यतया कृतिबोधकत्वरूपस्य : कर्त्रऽभिधानस्य विवक्षायाम् चैत्रेण पचति इति स्यादिति वाच्यम्, आश्रयातिरिक्तांशेऽविशेषणतया कृतिबोधनस्यैव कर्त्रभिधानरूपत्वात् । तथा तदभिधानं च लकृत्तद्धितसमासानामेव, अत एव तैरेवाभिधानं वृत्तिकृता विवृतम् ।
इदं त्ववधेयम् - यद्यपि स्वतन्त्रव्यापारमात्रे एव तृतीयादेरनुशासनं तथापि लाघवात् कृतिरूपे एव कर्तृत्वे तृतीयादेः शक्तिः । अचेतनव्यापारे निरूढलक्षणैव । अनुशासनस्यानादितात्पर्यमात्रग्राहकत्वात् लाघवसहकृतस्यैव तादृशतात्पर्यस्य शक्तिकल्पकत्वात् व्यापारे तत्सत्त्वेपि गौरवेण शक्यसिद्धेः । एवं च तस्येति । अत्राप्याख्यातस्य कृतिविशिष्टबोधकत्वमस्त्येवेति कृतिविशिष्टबोधनरूपस्य कर्त्रभिवानस्य सत्त्वानं तृतीयापत्तिरित्यर्थः ।
'ननु ' चैत्रः पचति ' इत्यत्र कृतिविशिष्टबोधकत्वरूपस्य कर्त्रभिधानस्याऽक्षतत्वेपि यदि मुख्यविशेष्यतया यत् कृतिबोधनं तदेव कर्त्रभिधानमित्याकारिका विवक्षा स्यात् तदा कृतिवि'शिष्टबोधकत्वेनाख्यातस्य मुख्यविशेष्यतया कृतिबोधकत्वरूपकर्त्रभिधायकत्वाभावादनुक्ते कर्तरि तृतीयापत्त्या ' चैत्रेण पचति ' इत्यपि स्यादेव प्रयोग इत्याशङ्क्याह-न चैवमिति । परिहारमाह-आश्रयेति । आश्रयातिरिक्ते= कर्त्रेऽतिरिक्ते व्यापारादावऽविशेषणतया कृतिबोधनमेव कर्त्रभिधानमस्ति तथा च ' चैत्रः पचति ' इत्यत्राख्यातेनाश्रयविशेषगतयैव कृतिर्बोध्यते न वाश्रयातिरिक्तविशेषणतयेति कर्त्रभिधानस्य जातत्वान्नात्र तृतीयापत्तिरिति न चैत्रेण पचति ' इति प्रयोगापत्तिरित्यर्थः । तथेति -- तथा = आश्रयातिरिक्तांशे चाऽविशेषणतया तदभिधानम्= कृत्यभिधायकत्वं लकारादीनामेवेत्यर्थः । उक्ते प्रमाणमाह-अत एवेति । 66 कर्मणि द्वितीया " इति सूत्रे विवृतम्=" अभिधानं तु प्रायेण तिङ्कृत्तद्धितसमासैः " इति व्याख्यातमित्यर्थः । तदेतत् ( १९४ पृ.) लकृत्तद्धितसमासैरभिधानमेव " इत्यस्यादर्शे द्रष्टव्यम् ।
f
स्वाभिप्रायमाह - इदमिति । अनुशासनमिति - " कर्तृकरणयोस्तृतीया " इत्यनेन कर्तरि तृतीया विहिता कर्ता च स्वतन्त्र व्यापारवानेवेति " स्वतन्त्रः कर्ता " इत्यनेनोक्तं तत्र कर्त्रऽवच्छेदकः स्वतन्त्र व्यापार एवैति स्वतन्त्रव्यापारमात्रे तृतीयादेरनुशासनं प्राप्तं घटादिपदानामघच्छेदकीभूतघटत्वादौ शक्तिवत् तत्र स्वतन्त्रव्यापारो नाम कारकान्तख्यापारानधीनत्वे सति व्यापार एवेति तत्र तृतीयायाः शक्तिस्वीकारे गौरवं स्यादिति लाघवात् कृतौ शक्तिः कल्प्यते कृतिरेव च कर्तृत्वमित्यर्थः । कृतेश्च यत्नरूपत्वेनाऽचत नेऽसंभवादचेतनव्यापारे तृतीयाया लक्षणैव यथा ' काष्ठेन पच्यते ' इत्यत्र । उक्तमुपपादयति - अनुशासनस्येति, ', तादृशतात्पर्यस्य=== अनादितात्पर्यस्य । तत्सत्त्वेपि = तृतीयानिरूपितानादितात्पर्यसत्त्वेपि । व्यापारे शक्तिस्वीकारे कारकान्तरव्यापारानधीनरूपे स्वतन्त्र व्यापारे एव शक्तिस्वीकारापत्त्या गौरवं स्यादिति न तत्र शक्तिः संभवति किं तु लाघवात् कृतावेव शक्तिः शक्यतावच्छेदकं च कृतित्वं लघुस्वरूप
" Aho Shrutgyanam"