________________
विभक्त्या कर्तृत्वबोधविचारः ] व्युत्पत्तिवादः ।
( ४०५ )
कर्तृत्वरूपकृतिबोधस्थले कारकान्तव्यापारानधीनत्वं न प्रतीयते इति तदन्तभावेण शक्तिकल्पने मानाभावः । व्यापारलाक्षणिकेन : कर्तृप्रत्ययेन लक्षणया तदन्तर्भावेण व्यापारबोधनादेव पूर्वोक्तातिप्रसङ्गवारणात् । अन्यथा तदन्तर्भावेण कृतिशक्तावपि तादृशातिप्रसङ्गस्य दुर्वारत्वादिति ।
E
घटो जायते ओदनः सिद्धयति ' इत्यादौ सत्कार्यवादविद्वेषिणां नैयायिकानां कारकत्वं कर्तृत्वं च घटौदनादेर्यथाश्रुतसूत्रानुसारेण दुरुपपादमेव ।
मेवेत्यर्थः । एवं चेति - कारकान्तख्यापारानधी नत्वप्रतीतावऽन्वयव्यतिरेकावपि सहायकौ न स्तः कृतिबोधस्थले कारकान्तरव्यापारानधीनत्वस्याऽप्रतीयमानखादिति : तदन्तर्भावेण कारकान्तरव्यापारानधीनत्वान्तर्भावेण कारकान्तरव्यापारानधीनव्यापारविषयककृतावपि शक्तिकल्पने मानं नास्तीत्यर्थः । ननु यदि कृतिबोधनस्थले कारकान्तरख्यापारानधीनत्वं न प्रतीयते तदा 'चैत्रः काष्ठैः स्थाल्यां पचति ' इत्यस्य स्थाने ' चैत्रः काष्ठं स्थाली पचति ' इत्यपि प्रयोगः स्यात्, 'व्यापारवत्त्वेन काष्ठादीनामपि कर्तृत्वप्रसङ्गात् कारकान्तरव्यापारानधीनत्वप्रतीतौ तु काष्ठादीनां चैत्र व्यापाराधीनत्वेन स्वतन्त्रत्वाभावात्तेन च कर्तृत्वाभावान्न काष्ठादिपदोत्तरमत्र प्रथमापत्तिरित्याशङ्क्याह-व्यापारलाक्षणिकेनेति, अत्र शक्त्या कर्तृप्रत्ययेन कारकान्तरव्यापारानधीनत्वस्या
,
प्रत्यायनेपि व्यापारे तस्य लक्षणास्तीति लक्षणया तदन्तर्भावेण = कारकान्तरव्यापारानधीनत्वान्तर्भावेण व्यापारस्यापि बोधनात् काष्ठादिव्यापारस्य च चैत्रव्यापाराधीनत्वान्न काष्ठादीनां कर्तृत्वं तथा च न काष्टादिपदोत्तरं प्रथमापत्तिरित्यर्थः । विपक्षे बाधकमाह - अन्यथेति, अन्यथा= उक्तव्यापारे लक्षणाया अस्वीकारे तदन्तर्भावेण = कारकान्तरव्यापारानधीनत्वान्तर्भावेण, कर्तृप्रत्य यस्थले केवलं कारकान्तरव्यापारानधीनव्यापारविषयककृतौ शक्तिस्वीकारे ' पचति ' इत्यनेन `कारकान्तरव्यापारानधीनव्यापारविषयककृतेरुक्तत्वेन " उक्ते कर्तरि प्रथमेव " इत्यनेन चैत्रपदोत्तरमिव काष्ठादिपदोत्तरमपि प्रथमापत्त्या ' चैत्रः काष्ठं स्थाली पचति ' इति स्यादेव, यदा च केवलं शुद्धकृतौ शक्तिः कारकान्तरख्यापारानधीनव्यापारे च लक्षणा तदात्र कर्त्राख्यातेन 'चैत्रवृत्तिकृतेरभिधानाञ्चैत्रपदोत्तरं प्रथमा जाता लक्षणया च कारकान्तरव्यापारानधीनव्यापारस्योपस्थितिर्जाता काष्ठादिव्यापारे च चैत्रव्यापाराधीनत्वस्यैव सत्त्वात् कारकान्तरव्यापारामधीनव्यापार एव काष्ठादौ नास्ति यस्याख्यातेनाभिधानं स्यादिति काष्ठादिवृत्तिकारकान्तव्यापारानधीनव्यापारस्यानुक्तत्वात् काष्टादिपदोत्तरं तृतीयैव भवति किं वाख्यातेन चैत्रवृत्तिकृत्यभिधाने कृते काष्ठादिवृत्तिव्यापारस्याभिधानासंभवात् काष्ठादिपदोत्तरं तृतीयैत्र । "काष्ठं पचति' इत्यादिप्रयोगानुरोधेन च कारकान्तरव्यापारानधीनव्यापारे लक्षणास्वीकारावश्य"कता- अचेतनकाष्ठादौ कृतेरसंभवेन काष्ठादिवृत्तिकृत्यभिधानस्याप्यसंभवादित्यर्थः प्रतीयते ।
घट इति- घटो जायते ' इत्यत्रोत्पत्तिपूर्वमसतो घटस्यासत्कार्यवादिनैयायिकमते
८
"Aho Shrutgyanam"