________________
( ४०६ )
सादर्श:
[ तृतीयाकारके -
"
मुख्यं च क्रियाकर्तृत्वं न क्रियानुकूलकृतिमात्रम् - एकक्रियाविषयक कृतितो यत्र नान्तरीयक क्रियान्तरनिर्वाहस्तत्र तत्कृतिमतस्तत्क्रिया कर्तृत्वाभावात्, अंत एव मत्तो भूतं न तु मया कृतम् ' इति व्यपदेश इति, किं तु तत् क्रियाविषयंकत्वे सति तदनुकूला या कृतिस्तदेव तत्कर्तृत्वम् । अन्योद्देशेन नाराचक्षेपांडू यत्र ब्राह्मणवधस्तत्र मरणानुकूलस्य नाराचक्षेपरूपव्यापारस्य कृतिविषयत्वेपि ब्राह्मणमरणानुकूलव्यापारत्वेन तस्याऽनभिसंहितत्वात् तेन रूपेण कृतिविषयत्वं. न तादृशव्यापारस्येति ब्राह्मणमरणानुकूलव्यापारत्वेन कर्तृत्वं न तादृशव्यापारकर्तुरिति न तस्य संपूर्णप्रायश्चित्तम् ।
कारकत्वं वा कर्तृत्वं वा न संभवति सत एव कारकत्वादिसंभवात् सत्कार्यव तुत्पत्तिपूर्वमपि घटादेः सत्त्वेन कारकत्वादिकमुपपद्यते इत्यर्थः । सूत्रानुसारेण - " स्वतन्त्रः कर्ता " इत्यादिसूत्रानुसारेण ।
मुख्यमिति, क्रियानुकूलकृतिमात्रस्य मुख्यकर्तृत्वास्वीकारे हेतुमाह-एकेति यत्र कृतिस्तु केवलं गमन क्रियानुकूलैवास्ति अथ च नान्तरीयकस्य तत्सहावश्यंभाविनः क्रियान्तरस्य परशरीरेऽभिघातस्यापि निर्वाहो जातः गमनानुकूलकृत्यैवाभिघातोपि परस्य जातस्तत्र तत्कृतिमतः = गमनानुकूलकृतिमतस्तत् क्रियाकर्तृत्वाभावात् = अभिघातक्रियाकर्तृत्वमिष्टं नास्तीति हेतोर्न क्रियानुकूकृतिमात्रं मुख्यं क्रियाकर्तृत्वम् । अत एव = उक्तस्थले अभिघात क्रियाकर्तृत्वाभावादेव तादृशस्थले " मत्तो भूतम् ( काकतालीयन्यायेन विवशमभिघातो मत्तो जातः ) न तु मया कृतम् इति व्यपदिशन्ति, यदि च क्रियानुकूलकृतिमात्रं मुख्यं कर्तृत्वं स्यात्तदोक्तस्थले गमनानुकूलकृत्याप्यभिघाते जाते गमनानुकूलकृतिमतोऽभिघात क्रियाकर्तृत्वमपि स्यादेव कृतिं विनाभिघातस्याप्यसंभवेनाऽभिघातक्रियोत्यादिकाया गमनानुकूलकृतेः सत्त्वादेव न चैतदिष्टमित्यर्थः । मुख्यं क्रियाकर्तृत्वमाह - किं त्विति, तत्क्रियाविषयकत्वे सति या तत् क्रियानुकूला कृतिः सैव मुख्यं तत्क्रियाकर्तृत्वमित्यर्थस्तथा च गमनानुकूलकृतेरुक्तस्थलेऽभिघात क्रियाविषयकत्वं नास्ति गमनकर्तु - रभिघाते तात्पर्याभावादिति नाभिघातक्रियाकर्तृश्वम्, गमने तापसत्त्वेन कृतेर्गमनविषयकत्वमस्तीति गमनकर्तृत्वमपीष्टमेवेत्यर्थः तत्कर्तृत्वम् = तत् क्रियाकर्तृत्वम् । अत्र प्रसङ्गसङ्गत्या विषयान्तरमाह - अन्येति, अन्योद्देशेन मृगाद्युद्देशेन बाणप्रक्षेपाद् यत्र ब्राह्मणवधो जातस्तत्र बाणप्रक्षेपव्यापारस्य मरणानुकूलत्वं कृतिविषयत्वं च यद्यप्यस्ति तथापि तस्य = बाणप्रक्षेपस्य ब्राह्मणमरणानुकूलव्यापारत्वेनाभिप्रायविषयत्वाभावात् तेन रूपेण त्राह्मणमरणानुकूलव्यापारत्वेन रूपेण तादृशव्यापारस्य = अन्योद्देशेन बाणप्रक्षेपरूपव्यापारस्य कृतिविषयत्वं नास्तीति तादृशव्यापारकर्तुः = अन्योद्देशेन बाणप्रक्षेपकर्तुर्ब्राह्मण मरणानुकूलव्यापारकर्तृत्वं न भवतीति न तस्य संपूर्णप्रायश्चित्तं भवतीति तत्क्रियाविषयकत्वे सति तत् क्रियानुकूला या कृतिस्तद्वत्त्वमेव मुख्यं कर्तृत्वं वक्तव्यम्, अन्यथोक्तस्थलेऽन्योद्देशेनापि नाराचप्रक्षेपाद् ब्राह्मणवधे जाते नाराचप्रक्षेर्ब्राह्मणवधकर्तृत्वं प्राप्नुयात्तेन च तस्य संपूर्णमेव प्रायश्चित्तं स्यान्न चैतदिष्टमित्यर्थः ।
"Aho Shrutgyanam"
2