________________
अन्योदेशेनानुष्ठितव्यापारविषयः] व्युत्पत्तिवादः ।
(४०७) अत एवः संपूर्णप्रायश्चित्तप्रयोजकस्य कर्तृव्यापारस्य लक्ष्यताभिमायण हिंसालक्षणे मणिकृतां मरणोद्देशेनानुष्ठीयमानत्वाऽदृष्टाद्वारकत्वविशेषणयो. रुपादानमिति मिश्राभिधानसंगतिः । मरणोद्देशेनानुष्ठीयमानस्य व्यापारस्यावश्यं मरणानुकूलव्यापारत्वेन प्रतिसंहितत्वात् तादृशरूपेण कृतिविषयत्वमिति ताहशविशेषणस्य विशिष्टकर्तृतानिवाहकत्वात् तद्विशेषणवतो व्यापारस्य नियमेन लक्ष्यत्वात् । तच्छून्यस्य चाऽलक्ष्यत्व नियमात् । . अथ मरणोद्देशेनानुष्ठितस्यापि व्यापारस्य यत्र खड्गाभिघातत्वादिनैवेष्टसाधनत्वकृतिसाध्यत्वंधीविषयता न तु मरणानुकूलत्वविशषिततद्रूपेण तत्र न मरणानु. कूलत्वविशिष्टविषयिणी कृतिरिति तादृशव्यापारकर्तुर्न वधत्वविशिष्टकर्तृत्वमिति कथमुक्तविशेषणस्य विशिष्टकर्तृतानिर्वाहकत्वम् । यदिच मरणोद्देशेनानुष्टीयमा
अत एवेति- यतोन्योदेशेन संपादिताद् व्यापाराद् दैवात् कस्यचिद् मरणे जातेपि न ताशव्यापारकर्तुर्वघ्नकर्तृत्वं भवति किं तु वधोरेशेनैव व्यापारकरणाद् वधकर्तृवं भवति अत एक संपूर्णप्रायशितप्रयोजकस्यैव वधकर्तृव्यापारस्य लक्ष्यत्वमभिप्रेत्य मणिकृता हिंसालक्षणे 'मरणोद्देशेनानुष्ठीयमानत्वमऽदृष्टाऽद्वारकत्वं च ' इति विशेषणद्वयमुपात्तमिति मिश्रोक्तं सङ्गच्छते अर्थात् ' अष्टाद्वारकत्वे सति मरणोदेशेनानुष्ठीयमानत्वं हिंसास्वम् । तत्र श्येनादिना शत्रुमरणे जातेपि न संपूर्ण प्रायश्चित्तं भवतीति तद्व्यवच्छेदाय · अष्टाद्वारकावे सति । इति विशेषणं तत्र हिंसाया अदृष्टद्वारकत्वादेव. अन्योदेशेन नाराचक्षेपाद् वधे जाते तादृशव्यापारव्यवच्छेदाय 'मरणोद्देशेनानुष्ठीयमानत्वम् । इति विशेषणं तत्र मरणोदेशेनानुष्ठीयमानत्वस्याभावादित्यर्थः । लक्षणमुक्त्वा लक्ष्यमाह- मरणोदेशेनानुष्ठीयमानस्येति, मरणोद्देशेनानुष्ठीयमानो व्यापारो मरणानुकूलत्वेनैवाभिप्रायविषयो भवतीति ताशरूपेण मरणानुकूलव्यापारत्वेन रूपेण कृतिविषयोपि भवतीति तादृशविशेषणस्य-मरणोद्देशेनानुष्ठीयमानत्वविशेषणात्य विशिष्टकर्तृतानिर्वाहकत्वात्वधकर्तृत्वनिर्वाहकत्वमपि भवतीति तद्विशे षणवतः अदृष्टाऽद्वारकत्वे सति मरणोद्देशेनानुष्ठीयमानत्वविशेषणवत एव व्यापारस्य हिंसालक्षणलक्ष्यत्वं भवति. तच्छ्न्यस्य-उक्तविशेषणद्वयशून्यस्य अव्यापारस्य लक्ष्यत्वं न भवतीत्यऽन्योद्देशेन नाराचप्रक्षेपस्यापि ब्राह्मणहिंसात्वं न भवतीत्यन्वयः। - उक्तलक्षणे शकते- अथेति, यत्र मरणोद्देशेनैव खगाभिघातः कृतः अथ च तादृशखड्गामिघातस्य खगामिघातत्वेन रूपेणैवेष्टसाधनत्वं कृतिसाध्यत्वं च स्याद् मरणानुकूलत्वविशेषिततद्रूपेण-मरणानुकूलखड्गगाभिधातत्वेन रूपेणेष्टसाधनत्वं कृतिसाध्यत्वं च न स्यासत्र मरणानुकूलत्वविशिष्टविषयिणी मरणानुकूलखड्गाभिघातविषया कृतिर्न संभवतीत्युक्तखड्गामिघातरूपव्यापारकर्तुर्वधत्वविशिष्टो यो वधस्तत्कर्तृत्वमपि न स्यादिति कथमुक्तविशेषणस्य मरणोद्देशेनानुष्ठीयमानत्वविशेषगस्य विशिष्टकर्तृतानिर्वाहकत्वम् वधकर्तृत्वनिर्वाहकत्वं स्यात् ? इष्टं चैताईशखड्गाभिधातकर्तुरपि वधकर्तृत्वमित्यर्थः । ननु मरणोदेशेनानुष्ठीयमानत्वमित्यस्य मरणानुकूल.
"Aho Shrutgyanam