________________
( ४०८ )
सादर्श:
[ तृतीयाकारके -
नत्वस्य मरणानुकूलत्वेन कृतिविषयत्वमेवार्थ इत्युपेयते ? तदा व्यापारे तादृशविशेषणस्य तत्कर्तरि विशिष्टकर्तृतानिर्वाहकत्वेप्युक्तस्थले खड्गाभिघातादी तादृशलक्षणाऽव्याप्तिदुर्वारैव । तत्र संपूर्णप्रायश्चित्तस्य निर्विवादतया लक्ष्यताया आवश्यकत्वात् ।
न च विशेषणीभूतफल निष्ठोद्देश्यताख्य विषयतानिरूपकत्वे सति व्यापारनिष्टसाध्यताख्यविषयतानिरूपकत्वमेव विशिष्टविषयकत्वं कृतेरित्युपदर्शितस्थलेऽनुकूलता संबन्धेन मरणवैशिष्टयस्य साध्यतारूपकृतिविषयतावच्छेदकताविरहेपि न विशिष्टकर्तृत्वाऽनिर्वाह इति मरणोद्देशेनानुष्ठीयमानत्वस्य मरणकामनाधीनत्वेन कृतिविषयत्वमित्येवार्थोस्ति तथा च मरणानुकूलत्वेन कृतिविषयीभूतव्यापारकर्तुरुक्तविशेषणेन वधकर्तृत्वं नानुपन्नमित्याशङ्क्याह- यदि चेति । उत्तरमाह- तदेति, एवं हि व्यापारे मरणोदेशेनानुष्ठीयमानश्वमिति यद्विशेषणं दत्तं तेन विशेषणेन तत्कर्तरि उक्त विशेषणविशिष्टव्यापारकर्तरि ( मरणानुकूलत्वप्रकारककृतिविषयीभूतव्यापारकर्तारे ) वधकर्तृत्वे प्राप्तेप्युक्तस्थले= खड्गाभिघातस्य खड्गाभिघातत्वेनेष्टसाधनत्वकृतिसाध्यत्वधी विषयतास्थले खड्गाभिघाते मर णानुकूलत्वेन कृतिविषयत्वाभावादुक्तहिंसालक्षणस्य = मरणानुकूलखेन कृतिविषयत्वस्याव्याप्तिरस्त्येव. अयं भावः -- खडूगाभिघाते खड्गाभिघातत्वेनापीष्टसाधनत्यकृतिसाध्यत्वधीविषयतायां सत्यां परप्राणवियोगे जाते तादृशव्यापारकर्तुर्वधकर्तृत्वं प्राप्नोति हिंसालक्षणे तु मरणानुकूलत्वेन कृतिविषयत्वस्य प्रवेशाद् तादृशव्यापारे च मरणानुकूलत्वेन कृतिविषयत्वस्याभावाद्धिसालक्षणस्याSव्याप्तिः स्पष्टैव न चाव्याप्तिरिष्टा तादृशव्यापारकर्तुरपि संपूर्णप्रायश्चित्तस्य निर्विवादतया तत्प्रयोजकतादृशखड्गाभिघातस्यापि हिंसालक्षणलक्ष्यत्वावश्यकत्वादित्यर्थः ।
ननु कृतेर्यद् विशिष्टविषयक्त्वम् = मरणानुकूलव्यापारविनकत्वं तद् व्यापारविशेषणीभूतं फलं यन्मरणं तनिष्ठा योद्देश्यताख्यविषयता तादृशविषयतानिरूपकत्वे सति व्यापारनिष्ठा या साध्यताख्यविषयता तन्निरूपकत्वमेव, मरणे उद्देश्यता वर्तते सा चोद्देश्यता कृतिनिरूपितैवेति कृतौ मरणनिष्ठोद्देश्यता निरूपकत्वं व्यापारे साध्यता वर्तते सा साध्यतापि कृतिनिरूपितैवेति कृतौ व्यापारनिष्ठसाध्यतानिरूपकत्वमपि वर्तते एवं च कृतेर्मरणानुकूलत्वं प्राप्तं तथा चानुकूलतासंबन्धेन मरणवैशिष्ट्यं कृतौ वर्तते साध्यतारूपकृतिविषयता च व्यापारे वर्तते इति अनुकूलतासंबन्धेन मरणवैशिष्टयस्य साध्यतारूपकृतिविषयतावच्छेदकत्वाभावेपि प्राप्ते न विशिष्टकर्तृत्वस्य वधकतृत्वस्यानिर्वाह: - कृतिरेव कर्तृत्वं कृतौ च मरणानुकूलत्वं प्राप्तमेव एवं च मरणोदेशेनानुष्ठीयमानत्वस्य मरणकामनाधीन कृतिविषयत्वरूपत्वं प्राप्तं तथा चोक्तस्थले मरणोद्देशेनानुष्ठितस्य खड्गाभिघातस्य यत् कृतिविषयत्वं तत् मरणकामनाधीन कृतिविषयत्वमेव मरणकामनाधीनकृतिविषत्वमेव हि मरणोदेशेनानुष्ठीयमानत्वमस्तीति नोक्तखड्गाभिघाते हिंसालक्षणस्योक्ताऽव्याप्तिरित्या - शङ्क्याह- न चेति । परिहारमाह - ब्राह्मणमिति, 56 ब्राह्मणं न हन्यात् ” इत्यत्र हन्तेर्मरणा
" Aho Shrutgyanam"