________________
कृतेर्व्यापारविषयकत्वम् ] व्युत्पत्तिवादः ।
(४०९) कृतिविषयत्वरूपतैवेति वाच्यम्, "ब्राह्मणं न हन्यात्" इत्यादौ धात्वर्थतावच्छेदकस्य मरणस्थ स्वोद्देश्यकत्वसंबन्धेन कृतावन्वयसंभवे. एव निरुक्तविशिष्टकर्तृत्वस्य निषेधविधिविषयत्वसंभवातू, व्यापारविशेषणतयोपस्थितस्य कृत्यंशे विशेषणतयाऽन्वयस्य व्युत्पत्तिविरुद्धत्वात् ।
अथ मरणोपलक्षितव्यापारकर्तृत्वस्य ताहशनिषेधविषयत्वेपि न क्षतिःअन्योद्देशेन नाराचक्षेपस्यापि ब्राह्मणमरणोपधायकस्य नरकसाधनत्वात्, परं तु मरणप्रायश्चित्तविधेरेव तदविषयकत्वमुपपादनीयं तच्च मरणोद्देशेन तदनुकूल. व्यापारकर्तृत्वबोधकस्य शब्दस्य तद्विधावन्तर्भावे एवोपपद्यते इति चेत्?, एवमपि नुकूलव्यापारार्थकत्वाद् धात्वर्थतावच्छेदकं मरणमेव तस्य मरणस्य स्वोद्देश्यकत्वसंबन्धेन यदि कृतावन्धयः स्यात्तदैव निरुक्तविशिष्टकर्तृत्वस्य-वधकर्तृत्वत्यैतनिषेधविधिविषयत्वं संभवति न त्वनुकुलतासंबन्धेनापि कृतावन्वये, अयं भावः- कर्तृत्वं कृतिरेव ब्राह्मणवधोद्देश्यका च यस्य कृतिर्भवति तं प्रत्येव " ब्राह्मगं न हन्यात् ।" इति निषेधविधिः प्रवर्तते न तु केवलं ब्राह्मणवधानुकूलकृतिमन्तं प्रत्यपि : ब्राह्मणवधानुकूलकृतेः सहायादौ तथा ब्राह्मणवधमनोरथकालेपि संभवात् तत्र तदा निषेधविधेः प्रवृत्तेरनभिमतत्वात्, स्वोदेश्यकत्व संबन्धेन च मरणस्य व्यापारे विशेषण वे तु कृतौ विशेषणत्वं न संभवति " एकत्र विशेषणतयान्वितस्यान्यत्र विशेषणत्वासंभवात् " इति व्युत्पत्तिविरोधात् तथा चोक्तरीत्या विशिष्टकर्तृत्वनिर्वाहे प्रतिपादितेपि तस्य निषेधविधिविषयत्वं न संभवतीति दोषापत्तिः प्राप्तेत्यर्थः ।
ननु स्वोद्देश्यकत्वसंबन्धेन मरणस्य व्यापारविशेषणत्वे कृतौ विशेषणत्वासंभवेप्युपलक्षणत्वं तु संभवत्येव तथा च मरणोपलक्षित यद् व्यापारविषयकं कर्तृत्वं (कृतिः)तस्योक्तनिषेधविषयत्वस्वीकारेपि क्षति स्ति. तच्च संभवत्येवेत्याशङ्कते- अथेति । नन्वेवमन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणमरणं तत्रापि ब्राह्मणमरणस्योपलक्षगत्वसंभवात् तादृशव्यापारकर्तृत्वस्याप्युक्तनिषेधविषयत्वं भविव्यतीत्याशङ्क्येष्टापत्त्याह- अन्योद्देशेनेति,ब्राह्मणमरणोपधायकस्य ब्राह्मणमरणरूपफलजनकस्यान्योद्देशेनापि नाराचक्षेपस्य नरकसाधनत्वात् तादृशव्यापारकर्तृत्वस्योक्तनिषेधविषयत्वं त्विष्टमेव किं तु मरणरूपपापप्रायश्चित्तविधिविषयत्वं नेष्टमिति मरणप्रायश्चित्तविधेरेव तदविषयकत्वम् अन्योद्देशेनयन्नाराचक्षेपाद ब्राह्मणमरणं जातं तदविषयकत्वमुपपादनीयं तस्य भाविनरकसत्त्वेपि तादृशवायश्चित्तस्याभावात्, तबोपपादनं मरणोद्देशेन तदनुकल-मरणानुकूलव्यापारकर्तृत्वबोधकस्य शब्दस्य तद्विधौ-मरणप्रायश्चित्तविधावन्तर्भाव एव संभवति-- 'मरणोद्देशेन मरणानुकूलव्यापारकर्ता संपूर्ण मरणप्रायश्चित्तमाचरेत्। इत्येवं प्रायश्चित्तविधिवाक्यनिर्माणे एवोक्तं तदविषयकत्वमुपपद्यते तथा 'चान्योद्देशेन नाराचक्षेपाद् ब्राह्मगवधे जाते तादृशनाराचक्षेपरूपव्यापारे मरणानुकूलत्वस्य सत्त्वेपि मरणोद्देश्यकत्वं नास्तीति न तादृशव्यापारकर्तुः प्रायश्चित्तविधिविषयत्वमित्यर्थः । तचन्तदविमयकत्वं च । उत्तरमाह-एवमपीति, एवमपि मरणोपलक्षितव्यापारकर्तृत्वस्य तादृशनिषेधविषय
"Aho Shrutgyanam"