________________
(४१०)
सादर्श:
[ तृतीयाकारकेब्राह्मणमरणकामनया यत्र न तन्मरणानुकूलव्यापारानुष्ठानमऽपि तु फलान्तर. कामनाधीनतन्मरणानुकूलव्यापारत्वप्रकारकचिकीर्षया तदनुष्ठितं तत्राव्याप्तिरेतन्मते दुचारैव । तत्रापि संपूर्णस्यैव प्रायश्चित्तस्याऽचरणादलक्ष्यतोपगमासंभवादिति । __ मैवम् - यत्र हि मरणानुकूलव्यापारत्वेन कृतिसाध्यताधीस्तत्रेव यत्र व्यापारविशेषत्वेनैव तद्धीस्तत्रापि मरणरूपफलकामनाधीनव्यापारविषयिणी कृतिर्मरणानुकूलत्वेन व्यापारमवगाहते-कृतेः : कामनाविषयफलोपरागेणोपायविषयतोपगमात्, विश्व लफलभानोपगमे यत्र तृप्तिकामनया भोजनं फलान्तरका मनया च गमनमवगाहमाना समूहालम्बनकृतिस्तत्र 'तृप्तये गमनं करोति !
त्वस्वीकारेपि यदा ब्राह्मणमरणकामनया न ब्राह्मणमरणानुकूलो व्यापारः कृतः किं तु तदीयधनग्रहणादिरूपफलान्तरस्य कामनाधीना या ब्राह्मणमरणानुकूलव्यापारत्वप्रकारकचिकीर्षासाह्मणमरणानुकूलव्यापारविषयकेच्छा तया मरणानुकूलव्यापारः कृतस्तत्र ब्राह्मणधनग्रहणस्यैवोद्देश्यस्वेनं ब्राह्मणमरणस्योद्देश्यस्वाभावात् तादृशव्यापार कर्तुः प्रायश्चित्तविधिविषयत्वं न संभवतीति तत्र प्रायश्चित्तविधेरव्याप्तिरेतन्मते प्राप्ता, न चाऽव्याप्तिस्तत्रेष्टा तादृशस्थलेपि संपूर्णप्रायश्चित्तस्येष्टत्वेन तादृशव्यापारकर्तुरलक्ष्यत्वस्वीकारासंभवादित्यर्थः ।
प्रथमाथशब्देनाशङ्कितं पारिहरति- मैवमिति, यत्र व्यापार मरणानुकूलव्यापारत्वेन कृतिसाध्यताज्ञानं भवति तत्र यथा मरणरूपफलकामनाधीनव्यापारविषया कृतिापार मरणानुकूल. स्वेनावगाहते इति तादृशव्यापारस्य हिंसालक्षणलक्ष्यत्वं तत्कर्तुश्च प्रायश्चित्तविधिविषयत्वं भवति तथैव यत्र खड्गाभिघाते खड्गाभिघातत्वेनैव तद्धी:-कृतिसाध्यताज्ञानं तत्रापि मरणरूपफलकामनाधीनव्यापारविषया कृतिः खड्गाभिघातव्यापार मरणानुकूलव्यापारत्वेनैवावगाहते इति ताहशव्यापारस्य हिंसालक्षणलक्ष्यत्वं तत्कर्तुश्च प्रायश्चित्तविधिविषयत्वं भवत्येवेत्यर्थः । मरणरूपकाः मनाधीनव्यापारविषयककृतेर्व्यापारस्य मर गानुकूलत्वेनावगाहने हेतुमाह- कृतेरिति, कृतेर्योपा. यनिषयता व्यापारविषयता भवति सा कामनाविषयफलोपरागेण-कामनाविषयीभूतफलक्षियतापूर्वकमेव भवति तथा चात्र कृतेः खड्गाभिघातविषयत्वं मरणरूपफलानुकूलत्वेनैव प्राप्तमिति खड्याभिघातस्य हिंसाव्यारारत्वं प्राप्तमेवेति नोक्तदोषापतिरित्यर्थः । विपक्षे बाधकमाह- विश ड्वति, यदि कृतेः कामनाविषयीभूतफलविषयतापूर्वकं तादृशकलोपाय ( व्यापार ) विषयता न स्यात् ( फलोपरागेणोपायविषयता न स्यात् ) किं तु विशृङ्खलरीत्या फलभानं स्यात् फल स्योपायविशेषगत्वेन भानं न स्यात्तदा यत्र समूहालम्बना कृत्तिस्तृप्तिकामनया भोजनं फळा स्तरकामनया च गमनमवगाहते- 'तृप्तये मोजनं मदिष्टसाधनं फलान्तराय गमनं मदिष्टसाधनम् इति तत्र 'तृप्तये गमनं करोति । इत्यपि व्यवहारः स्यात्- बाधकाभावात्- तृप्तिगमयोर
"Aho Shrutgyanam"