________________
( ९८ )
सादर्श:
[ प्रथमाकारके -
-संबन्धावच्छिन्नप्रतियोगिताकराजाभावव्याप्य राजस्वत्वाभाववान् पुरुषः' इत्यादिनिश्वयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया तादृशवाक्य जन्य शाब्दधीविरोधितया साहशनिश्वयाभावस्य तयाविधसामग्रीप्रतिबन्धकतायां निवेशस्याधिक्येन लाघवानवकाशात् । मन्मते 'राजस्वत्वाभाववान् पुरुषः' इत्यादिबाधकाभावनिवेशेनैव तादृशनिश्चयकाले प्रत्यक्षाभ्युपपत्तेस्तदभावानिवेशात् ।
茹
भावव्याप्यवताज्ञानस्य च प्रतिबन्धकत्वं सर्वसंमतं यथा वह्निमानिति ज्ञानं प्रति वह्यभावनिश्चयस्य बयभावव्याप्यजलवत्ता निश्चयस्य च प्रतिबन्धकत्वमस्ति तथा संसर्गतामते 'राज्ञः पुरुषः' इति वाक्यजन्यम् ' स्वत्वसंबन्धेन राजवान् पुरुषः ' इतिशाब्दबोधं प्रति स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकरा जाभावनिश्चयस्य तथा स्वत्वसंबन्धावच्छिन्नप्रतियोगिता करा जाभावव्याप्यंशजस्वत्वाभा
“
यस्य च प्रतिबन्धकत्वमस्त्येव यत्र स्वत्वसंबन्धेन पुरुषादौ राजा वर्तते तत्र राजस्वत्वमपि चर्तते तथा यत्र स्वत्वसंबन्धेन राजाभावो वर्तते तत्र राजस्वत्वाभावोपि वर्तते एवेति समनियतत्वेन स्वत्व संबन्धेन राजाभावस्य राजस्वत्वाभावो व्याप्पोस्ति तथा च ' स्वत्वसंबन्धेन राजाभाववान पुरुषः ' इत्याकारकबाधनिश्वयामात्रस्य ' राज्ञः पुरुषः ' इतिवाक्याजायमानशाब्दसामम्यां निवेशात् ' स्वत्वसंबन्धेन राजाभाववान् पुरुषः सुन्दरः ' इति प्रत्यक्षस्य कारणाभावादेवोत्पत्त्यसंभयात शाब्दसामग्र्याः प्रतिबन्धकत्वाभावेपि • स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभावव्याध्यस्वत्वाभाववान् पुरुषः ' इत्याकारकप्रत्यक्षं प्रति तु शान्दसामग्र्याः प्रतिबन्धकत्वमस्येवेत्येतत्प्रतिबन्धकत्वकल्पनापत्या गौरवमित्यर्थः । मुद्रा = रीतिः | स्वत्वसंबन्धावच्छिन्नप्रतियोगिताकराजाभाकयाप्यस्वत्वाभाववान् पुरुषः ' इति निश्वयस्य तदभावव्याप्यवत्तानिश्चयमुद्रया - स्वत्वसंबमैंने राजवस्त्वामावव्याप्य राजस्वत्वाभाववत्तानिश्चयत्त्ररूपेण तादृशवाक्यजन्य शाब्दधी विरोधितया राज्ञः पुरुषः ' इतिवाक्यजन्यशाब्दबोधविरोधत्वेन तादृशनिश्चयाभावस्य - ' स्वत्वसंबन्धारच्छिन्नप्रतियोगिताकराजाभावव्याप्यस्वत्वाभाववान् पुरुषः ' इतिनिश्चयामावस्य तथाविधसामग्रीप्रतिबन्धकतायाम् = ' राज्ञः पुरुषः ' इतिशाब्दबोधसामग्री निष्ठायां विभिन्नविषयको क्तप्रत्यक्षनिष्ठप्रतिबध्यतानिरूपित प्रतिबन्धकतायां निवेशाधिक्येन लाघवाऽसंभवादित्यन्त्रयः ।
८
2
,
—
एतत्प्रतिबन्धकत्वकल्पनापत्तिः प्रकारतामते नास्तीत्याह- मन्मते इति । प्रकारतामते हि राज्ञः पुरुषः " इत्यत्र : राजस्वत्ववान् पुरुषः ' इत्येष बोधो जायते एतहो च राजस्वस्वाभाववान् पुरुषः इत्येव बाधोस्ति, अस्यैव च बाधस्य तदभावव्याप्यवत्ता निश्चयमुद्रया ' राज्ञः पुरुषः' इतिशाब्दधीप्रतिबन्धकत्वं संसर्गतामते प्रदर्शितं तत्र राज्ञः पुरुषः ' इतिवाक्यजन्यस्य राजस्वत्वत्रान् पुरुषः इतिशाब्दस्य सामग्री यदा ' राजस्वत्वाभाववान् पुरुषः ' इतिबाधस्याभावेन घटिता भवति तदा शाब्दबोध एव जायते प्रत्यक्षस्य च स्वकारणाभावादेवोत्पत्तिर्न संभवतीति न तद्दारणाय शाब्दसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिः । यदा च बातू पुरुषः । इतिबाधस्य निश्चयो भवति तदा बाधाभावरूप योग्यताज्ञानस्याभावाच्छान्दवोवो न
6
राजस्व त्राभाव
"Aho Shrutgyanam"