________________
भेदान्वयवादः ]
व्युत्पत्तिवादः। यतु 'राज्ञः पुरुषः' इत्यादौ 'राजस्वत्ववान् पुरुषः' इत्याद्यन्वयबोधोपगमें 'राजकीयं स्वत्यम्' 'राजस्वत्ववान् पुरुषः' इत्याकारकद्विविधानुमितेरेव तदतिरिताविषयकत्वेन तादृशानुमितिं प्रति प्रत्येक ताशवाक्यघटितसामग्र्याः प्रति. बन्धकत्वद्वयम् । अस्मन्मते च तादृशानुमित्योस्तथाविधवाक्यजन्यात 'राजकीयः पुरुषः' इत्येतादृशबोधादतिरिक्तविषयकतया तत्र तादृशसामग्र्याः प्रतिबन्धकत्वकल्पनं नास्ति- तथाविधानुमितितथाविधशाब्दसामय्योश्च सत्योरनुमितेरेवोजायते किं तु प्रत्यक्षाभ्युपपत्तेः प्रत्यक्षमेव जायते प्रतिबन्धकीभूतशाब्दसामन्यऽभावादिति स्वीकारेण तदभावाऽनिवेशात्-शाब्दसामन्यां ग्राह्याभावावगाहितया 'राजस्वत्वाभाववान् पुरुषः' इत्यादिबाधस्याभावस्य निवेशेपि तदभावच्याप्यवत्तामुद्रया संसर्गतावादे इस प्रकारतावाद — राजाभावव्याप्यराजस्वत्वाभाववान् पुरुषः ' इतिबाधस्याभावस्य शाब्दसामग्रीनिष्ठप्रतिबन्धकतायामनिवेशाल्लाघवम् , संसर्गतामते च प्रवेशाद् गौरवमित्यर्थः ।।
पुनरपि संसर्गतावादिना प्रकारतामते प्रदर्शितं दोषमनुवदति-यत्त्विति, यथा विभिन्न विषयकप्रत्यक्षं प्रति शाब्दसामयाः प्रतिबन्धकत्वमस्ति तथा समानविषयकानुमितिं प्रत्यपि शान्दसामग्र्याः प्रतिबन्धकत्वमस्ति विभिन्न विषयकानुमितेश्च शाब्दबोधप्रतिबन्धकत्वमस्तीत्युभयमतसिद्धम् । तत्र प्रकारतामते ' राज्ञः:पुरुषः । इतिवाक्यात् ' राजनिरूपितस्वत्ववान् पुरुषः । इतिशाब्दबोधो जायते तत्स्वीकारे, यदा ‘राजकीयं स्वत्वम् ' ' राजस्वत्ववान् पुरुषः । इत्याकारकानुमितिद्वयं प्राप्नुयात् तदा ' राज्ञः पुरुषः । इत्येतद्वाक्यघटकस्य 'राज्ञः । इतिभागस्य 'राजकीयं स्वत्वम् । इत्येवार्थः, प्रथमानुमितिरपि “राजकीयं स्वत्वम् । इत्येतद्रूपेत्युभयोः समानविषयत्वम् , ' राजस्वत्ववान् पुरुषः ' इति शान्दबोधस्तत्समानविषयैव द्वितीयानुमिति - 'राजस्वत्ववान् पुरुषः । इति तथा चोक्तद्विविधानुमितेरेव=उक्तानुमितिद्वयस्थापि तदतिरिक्ताविषयकत्वेन-उक्तशाब्दबोधसमानविषयकत्वेन तादृशानुमितिं प्रति प्रत्येकम्-उक्तद्विविधानुरिति प्रत्येव तादृशवाक्यघटितसामग्र्याः= राज्ञः पुरुषः । इत्याकारकवाक्यघटकसामन्याः प्रतिबन्धकत्वयं कल्पनीयं प्रतिबध्यभेदेन प्रतिबन्धकुताभेदादित्यर्थः । अस्मन्मते इति- संसर्गतामते च “ राज्ञः पुरुषः ' इतिवाक्यात् — राजस्वत्यवान् पुरुषः । इति शाब्दबोध एव न जायते येनोक्तानुमितिद्वयस्य समान विषयत्वं स्यात्तेन च शाब्दसामग्र्याः प्रतिबन्धकत्वद्वयं कल्पनीयं स्यात किं तु — स्वत्वसंबन्धेन राजवान् पुरुषः । इत्येव शाब्दबोधो जायते तदेवोक्तम्- 'राजकीयः पुरुषः । इति, अस्य शाब्दबोधस्योक्तानुमितिद्वयस्य चातिरिक्तविषयकतया विभिन्न विषयकत्वेनोंक्तानुमितिद्वयं प्रति शाब्दबोधसामग्र्याः प्रतिबन्धकत्वकल्पनापत्तिर्नास्तीत लाघवम् । उक्तानुमितिद्वयस्य ' राजकीयः पुरुषः । इतिशाब्दबोधस्य च विभिन्नविषयकत्वेनानुमितिद्वयस्य शान्दबोधस्य च सामन्यां सत्यामनुमितिरेवोत्पद्यते इति कथं शान्दसामग्र्याः प्रतिबन्धकत्वं स्यात, यदि शाम्दसामग्या अत्र प्रतिबन्धकत्वं स्यात्तदा कथमनुमितिद्वयमुत्पद्यतेत्याह- तथाविधेति ।
"Aho Shrutgyanam"