________________
पदार्था तरान्वयविचारः] व्युत्पत्तिवादः ।
(१६९) संसर्गविच्छिन्न प्रतियोगिताकस्य : द्वित्वाद्यवच्छिन्नघटाद्यभावस्य निश्चयसंभवातू, तस्य द्वित्वादिना तादृशसंसर्गकघटादिविशिष्टधीविरोधित्वादिति चेत्?, न-उभयत्वाद्यवच्छिन्नाभाववत्ताज्ञानमुभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिंज्ञानमेव प्रतिबध्नाति न तु केवलं विशेष्ये विशेषणमितिरीत्या जायमानमुभयत्वादिविशिमुपपादयति- तस्येति । तस्य-रक्तपुरुषस्य कर्मतात्वावच्छेदेन कर्मतावावच्छिन्नकर्मतायां भाधेयतासंसर्गात्रच्छिन्नप्रतियोगिताकस्यः-आधेयतासंबन्धावच्छिन्ना प्रतियोगिता यस्यैवंभूतस्य द्वित्वाधवच्छिन्नघटाद्यभावस्य निश्चयसंभवात् अर्थात् पूर्वोक्ताधेयतासंबन्धेन घटद्वयाभावस्य (विषयत्वं षष्टयर्थः) निश्चयसंभवात्-निश्चयसत्त्वात् तस्य उक्तनिश्चयस्य द्वित्वादिना तादृशसंसर्गकवटादिविशिष्टधीविरोधित्वात् उक्ताधेयतासंसर्गेण द्वित्वविशिष्टघटप्रकारककर्मताविशेष्यकधीविरोधित्वात् ( आधेयतासंबन्धेन द्वित्वविशिष्टघटद्वयस्यैककर्मतायामन्वयज्ञानविरोधित्वात् ) इत्यन्वयः । यदि घटद्वये आनयनकर्मस्वमेकमेव स्यात्तदा घटद्वयस्यैकानयनकर्मत्वेऽन्वयः स्यादपि न चैवमस्ति घटव्यक्तिभेदेनानयनकर्मत्वस्य मिन्नत्वात् तथा चोक्ताधेयतासंसर्गेण कर्मतायां घटद्वयस्याभावनिश्वये जाते तादृशनिश्चयस्याधेयतासंबन्धेन कर्मतायां घटद्वयान्वयज्ञान विरोधित्वात् तादृशनिश्चयवतः पुरुषस्य 'घटावानयति' इतिवाक्याद् द्वित्व विशिष्टघटप्रकारकैककर्मताविशेष्यकशाब्दबोधो न संभवतीतिभावः।
परिहरति- नेति । उभयत्वावच्छिन्नाभाववत्ताज्ञानम् उक्तस्वरूपमाधेयतासंबन्धेनैककर्मता घटद्वयान्वयो न संभवतीत्याकारकं निश्चयात्मकं ज्ञानम् उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गाववगाहिज्ञानमेव घटद्वयनिरूपिता यैकानयनकर्मतानिष्ठा एकाधेयता तादृशाधेयतासंबन्धेनानयनकर्मतायां घटद्वयान्वयज्ञानमेव प्रतिबध्नाति प्रथमे निश्चयात्मके प्रतिबन्धकज्ञाने , भानयमकर्षक निष्ठाथेयतायां घटद्वयनिरूपितत्वाभात्रस्य विषयत्वेन द्वितीये प्रतिबध्यज्ञाने आनयनकर्मतानिष्ठाधेयतायां घटद्वयनिरूपितत्वस्य च विषयत्वेन परस्परं विरोधात्,- उक्तोभयत्वावच्छिन्नाभाघवत्ताज्ञानमपि केवलं विशेष्ये विशेषणमितिरीत्या जायमानमुभयत्वविशिष्टज्ञानं तु न प्रतिबध्नाति परस्परं विरोधाभावात् । __ अयं भावः-प्रतिबन्धके आधेयतासंबन्धेनाऽऽनयनकर्मतायामुभयत्वावच्छिन्नघटद्वयाभावविषयकज्ञाने उभयत्वं न केवलं घटविशेषणमात्रं किं त्वानयनकर्मतानिष्ठायताया निरूपिका या घट
यनिष्टाऽऽधारता तादृशाधारतावच्छेदकमप्यस्तीति एतादृशज्ञानेन यस्मिन् ज्ञाने उभयत्वं संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकं स्यात् तादृशज्ञानस्यैव प्रतिबन्धः संभवति, तथा च उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहि ज्ञानं हि 'उभयत्वावच्छिन्नघटद्वयनिष्ठाधारतानिखपिता याऽऽनयनकर्मतानिष्ठाऽऽधेयता तादृशाधेयतासंबन्धेन घटद्वयवती आनयनकर्मता' इति ज्ञानमेव अत्र च ज्ञाने उभयत्वं संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकत्वेन भासते इत्युक्तोभयत्वावच्छिन्नाभाववत्ताज्ञानं होतद् उभयत्वावच्छिन्ननिरूपिताधेयतासंसर्गावगाहिज्ञानमेव
"Aho Shrutgyanam"