________________
( १६८ सादर्श:
[ प्रथमाकारकेयत्रानेकवृत्तिधर्मो द्वित्वान्वयितावच्छेदकतया भासते तत्रोभयादिनैव समं पदार्थान्तरस्यान्वयः । यत्रैकमात्रवृत्तिस्तथा तत्रैकेनापि, व्युत्पत्तिभेदावलम्बनात कार्यकारणभाववैचित्र्याच्च सर्व समनसमित्यपि वदन्ति ।
अथ घटादिव्यक्तिभेदेनाऽऽनयनकर्मता भिन्नति प्रतिसंदधानस्य पुंसः 'घटावानयात' इतिवाक्याच्छाब्दबोधानुपपत्ति:- तस्य कर्मतात्त्वावच्छेदेनाऽऽधेयता'घटानाऽऽनयति । इति बहुवचनान्तप्रयोगेपि चैत्रकर्मकानयनकर्मतादिव्याप्यबहुत्वादिमन्निष्ठनिरूपकताकाधेयत्वादिसंबन्धेन कर्मताया, तादृशप्रकारता बोध्येत्यप्यूहनीयमित्यर्थः । " इति कृष्णभट्टाः। ____ मतान्तरमाह- यत्रेति, यथा ' अत्र घटौ स्तः ' इत्यत्राऽनेकवृत्तिधर्मो घटत्वमेव द्वित्वान्वयितावच्छेदकमस्तीत्यत्रोमयेनैव घटद्वयेनैव पदार्थान्तरस्य-एतद्देशवृत्तित्वाश्रयत्वस्यान्वयः स्त्रीकर्तव्य इत्येकघटसत्त्वदशायाम् ‘भत्र घटौ स्तः । इतिप्रयोगापत्तिर्नास्ति वर्तमानकघटे एतद्देशवृत्तित्वाश्रयत्वस्यान्वयास्त्रीकारात् । एकपटैकपटसत्त्वदशायां च द्विस्वान्वयितावच्छेदकं घटत्वपटत्वोभयमेव न केवलघटत्वमिति न तत्रापि केवलवटेनतद्देशवृत्तित्वाश्रयत्वान्श्योपपत्तिर्येन ' अत्र घटौ स्तः । इतिवाक्यस्य प्रामाण्यं स्यादित्यर्थः । यत्र चैकमात्रवृत्ति आकाशत्वादिकं तथा द्वित्वान्बयितावच्छेदकतया भासते तत्रैकेनाप्याकाशादिना पदार्थान्तरस्य एतद्देशवृत्तित्वाश्रयत्वस्यान्वयः स्वीक्रियते यथा ' अत्राकाशौ स्तः । इत्यत्र, तथा चात्रकेनैवाकाशेन पदार्थान्तरान्वयावीकारादेकाकाशबोधकस्य ' अत्राकाशः ' इतिवाक्यस्यैव प्रामाण्यं स्यात् न तु ‘भत्राकाशौ ' इत्यस्यापीत्याऽऽह- यत्रै केति । व्युत्पत्तिभेदावलम्बनात= उत्तनियमस्वीकारात् । कार्यकारणभाववैचित्र्यादिति-अत्र . " द्वित्वविशिष्टघटद्वयविशेष्यकैतद्देशवृतित्वादिरूपेतरपदार्थान्वयबुद्धित्वावमिमं प्रतिः अत्रेत्यादिसप्तम्यन्तपदसमभिव्याहृतद्विवचनान्तघटपदज्ञानत्येन कारणता, एक्माकाशावत्रेत्यत्र अत्रेतिसमभिव्याहृतद्विवचनान्ताकाशपदज्ञानत्वेन कारणता इति कार्यकारणभाववैचित्र्यात् सर्व समञ्जसम्- एकघटसत्त्वे ' अत्र घटौ ' इत्यापत्तिर्न, 'अत्राकाशौ' इतिप्रयोगोषि, सर्व समञ्जसं सर्वकार्यनिर्वाहः, वदन्तीत्यनेन ' अत्राकाशौ स्तः' इति प्रयोगो न भवति तनिहाय व्युत्पत्त्यङ्गीकारकार्यकारणभावकल्पनमसमञ्जसमेवेत्यस्वरसः सूचितः " इति कृष्णभट्टाः।
ननु ' घटावानयति चैत्र: ' इत्यत्र यदेकस्यामानयनकर्मतायां घटद्वयस्यान्वय उक्तस्तन्न संभवति यतः- आनयनकर्मत्वं ह्येतदेशसंयोगाश्रयत्वमेव तत्र संयोगस्य स्वाश्रयीभूतव्यक्तिभेदेन भिन्नत्वात् ( नानात्वात् ) संयोगाश्रयत्वमपि घटादिव्यक्तिभेदेन भिनमेवेति प्राप्तं तथा च चैत्रकर्तृकघटद्वयानयनदशायामपि तद्घटवृत्त्यानयनकर्मत्वे तस्यैवैकस्य घटस्यान्वयः संभवति न घटद्वयस्यापि- घटद्वये एकाया आनयनकर्मताया अभावात्- आश्रयीभूतव्यक्तिभेदेनानयनकर्मताया भिन्नत्वादिति प्रतिसंदधानस्य ज्ञानवतः पुंसः 'घटावानयति । इतिवाक्यात् शाब्दबोधा. नुपपत्तिः= घटद्वयप्रकारकैककर्मताविशेष्यकशाब्दबोधस्यानुपपत्तिरित्याशङ्कते- अथेति, उक्त
"Aho Shrutgyanam"