________________
पदार्थान्तरान्वयविचारः ]
व्युत्पत्तिवादः ।
( १६७ )
'घटावानयति चैत्रः' इत्यादौ चैत्रकर्तृकानयन कर्मत्वादिव्याप्य द्वित्वादिमनिष्ठनिरूपकता का वेयत्वादिसंबन्धेन कर्मत्वादौ घटादेरन्वयो व्युत्पन्नस्तेन चैत्रादावेकादिव्यक्तिमात्राऽऽनयनकर्तृत्वेन तादृशप्रयोगः । द्वित्वादिमत्त्वं च प्रकारतावच्छेदकीभूतघटत्वादिव्याप्यपर्याप्तिसंबन्धेन बोध्यं तेन चैत्रस्य पटादिसहितकघटादिव्यक्तयानयन कर्तृत्वेपि न तादृशप्रयोगः । एवमन्यत्राप्यूहनीयम् ।
निष्टव्यापकताया एतदेशवृत्तिपदार्थद्वयवृत्तिद्वित्वनिरूपितत्वादिति न देशान्तरस्थघटव्यासक्तद्वित्ववत्संबन्धे विधेयान्वयः संभवतीत्येक घटसत्त्वदशायाम् ' अत्र घटौ प्रमेयौ ' इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्येवेत्यर्थः । नन्वत्र द्वित्वपदेन तत्तद्वित्वव्यक्तीनां ग्रहणे " एत्रम् १६३ पृ. " इत्यादिनोक्तोवाक्यभेदप्रसङ्गः स्यादित्याशङ्क्याह- न व्विति द्विश्वपदेन सामान्यतो द्वित्वत्वावच्छिन्नस्यैव ग्रहणात् तत्तद्वित्वव्यक्तीनां चाऽग्रहणात् पूर्वोक्तस्य ( १६३ ) वाक्यभेदप्रसङ्ग - रूपदोषस्य प्रसक्तिर्नास्तीत्यर्थः ।
#
घटावानयतीति- 'घटावानयति चैत्रः' इत्यत्र चैत्रकर्तृकानयनकर्मत्वमेव विधेयं विशेष्यं च तच्चानयनकर्मत्वं घटाधेयमस्तीति तत्राधेयत्वं वर्तते तथा चात्र चैत्रकर्तृकानयनकर्मत्वव्याप्यं यद्वित्वं तादृशद्वित्ववन्निष्ठनिरूपकता काधेयत्वसंबन्धेन = तादृशद्वित्ववद् यद् घटद्वयं तन्निष्ठा याऽऽधारता तन्निरूपिता या कर्मत्वनिष्ठाऽधेयता तादृशाधेयतारूपसंबन्धेन चैत्रकर्तृकानयनकर्मतायां घटादेरन्वयो व्युत्पन्न इति चैत्रकर्तृकैकघटानयनदशायाम् ' घडावानयति चैत्र: ' इतिवाक्यस्य प्रामाण्यप्रसङ्गो मास्ति-तादृशैऋघटे संबन्धघटकस्य चैत्रकर्तृकानयनकर्मत्वव्याप्यद्वित्वस्याभावात् एकघटकर्मका• नयनकर्मता निष्ठाधेयतायां विवक्षितस्यानयनकर्मत्वव्याप्यद्वित्ववन्निष्ठाधारतानिरूपितत्वस्याभावाच कर्मतायां संबन्धभूतस्यानयनकर्मत्वव्याप्यद्वित्ववन्निष्ठाभारतानिरूपिताधेयत्वस्याभावान्न तेन संबन्धेन घटान्वयः संभवति, यचैतदेशस्ये देशान्तरस्थे च घटद्वये मिलित्वा द्वित्वमस्ति तत्त्वाऽऽनयaahraanteमेव नास्ति - आनयनकर्मत्वाभाववति देशान्तरस्थघटेपि सत्त्वात् । घटद्वयानयनदशायां तु घटयनिष्ठं द्वित्वमाऽऽनयनकर्मत्वव्याप्यमस्ति तादृशद्वित्ववद् यद् घटद्वयं तन्निष्ठाधारता - निरूपिताधेयता चानयनकर्मतायां वर्तते इति तादृशाधेयतासंबन्धेन कर्मतायां घटद्वयस्थान्वयः संभवतीति' घटावानयति ' इति प्रयोगस्य प्रामाण्यमुपपद्यते इत्यर्थः । तादृशप्रयोगः = ' घटावानयति ' इति प्रयोगः, भवतीति शेषः । किं चात्र द्वित्ववत्त्वं प्रकारतावच्छेदको भूतघटत्वव्याप्यपर्याप्तिसंबन्धेन बोध्यं तथा च घटावानयति ' इत्यत्र प्रकारतावच्छेदकं घटत्वमेवेति घटद्वयानयनदशायामेव घटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वोपपत्त्या घटावानयति इति प्रयोग उपपद्यते, एकटे कपटानयनदशायां प्रकारतावच्छेदकं घटत्वपटत्वोभयमेव न केवलघटत्वमिति टवव्याप्यपर्याप्तिसंबन्धेन द्वित्ववत्त्वाभावान्न' घटावानयति इति प्रयोगस्य प्रामाण्यापत्तिः किं तु 'घटपटावानयति ' इति प्रयोगस्यैव प्रामाण्यं स्यादित्याह - द्वित्वादिमत्त्वं चेति । अत्र कर्मतायां घटस्याऽन्वयाद् घटः प्रकारो घटत्वं प्रकारतावच्छेदकम् । अत्र- एवमन्यत्रापि=
.
"Aho Shrutgyanam"
८८