________________
( १६६ )
सादर्श:
[ प्रथमाकारकेबाधितमिति न तादृशवाक्यस्य प्रामाण्यम् । अधिकरणस्य घटद्वयादिमत्त्वे च घटत्वादिव्याप्यं द्वित्वमेव तथेति घटत्वादिव्याप्यपर्याप्तिसंबन्धन तद्वत्वं घटादाasबाधितमिति तादृशवाक्यस्य प्रामाण्यं निर्वहति ।
haatratefaधेयकस्थले च द्वित्वत्वाद्यवच्छिन्नव्यापकत्वमेव संसर्गघटकम् केवलान्वियिनि तादृशव्यापकताया अक्षतत्वात्, न तु तचद्वित्वत्वावच्छिन्नव्यापकत्वमिति न पूर्वोक्तदोषावकाशः ।
दिधर्मवत्त्वम् उद्देश्यतावच्छेद कव्याप्यपर्याप्तिसंबन्धेनोक्तं तथा च 'अत्र घटौ स्तः' इत्यत्रोद्देश्यता - वच्छेदकं घटत्वमेव घटत्वव्याप्यपर्याप्तिसंबन्धेन चात्र घंटे विधेयव्याप्यं द्वित्वं नास्तीति विधेयव्याप्य द्वित्ववत्त्व संबन्धेन विधेयान्ययासंभवात् 'अत्र घटौ स्तः' इतिवाक्यस्य प्रामाण्यापत्तिर्नास्त्येव, अन्यथा संबन्धान्तरेणात्र विधेयव्याप्यद्वित्ववत्त्वस्यैकघटेपि संभवात् प्रामाण्यापत्तिः स्यादेवेत्यवधेयम् । यच्च घटद्वयनिष्ठं द्वित्वं घटत्वव्याप्यं तन्न विधेयव्याप्यम् - विधेयाभाववति देशान्तरस्थघटेपि सत्त्वात् यच्च घटपटोमयनिष्ठं द्वित्वं विधेयव्याप्यं तन्न घटत्वव्याप्यं घटत्वाभाववति टेपि सत्त्वादितिसार : एतदेशे घटद्वयसत्त्वे ' ra घटौ स्तः इतिवाक्यस्य प्रामाण्यमुपपादयतिअधिकरणस्येति, पूर्वमेवेदं व्याख्यातम् । तथा= एतदेशवृत्तित्वाश्रयत्वरूप विधेयव्याप्तिमत् ( विधेयव्यावमित्यर्थः ), तदच्चम् विवेयव्याप्यवित्तम्, पटद्वये विधेयव्याप्यद्वित्ववत्त्वं घटत्वव्याप्यपयोप्तिसंबन्धेनास्त्येवेति तादृशद्वित्ववत्त्वसंबन्धेन विधेयान्वयोपपत्त्या ' अत्र घटौ स्तः इतिवाक्यस्य प्रामाण्यमुपपद्यते इति सारः । एवकारो भिन्नक्रम इति 'घटत्वादिव्याप्यमेव द्वित्यं तथा",
इत्यन्वयः ।
-
"
"Aho Shrutgyanam"
ननु 'घटो प्रमेयौ ' इत्यादिकेवलान्वयिविधेयकस्थले विधेयव्याप्यत्वं तद्वदन्यावृत्तित्वं यदुक्तं तन्न संभवति -- केवलान्वयिवदन्यस्याऽप्रसिद्धेरित्याशङ्क्याह- केवलान्वयीति, केवलान्वयिविधेयकस्थले विधेयव्याप्यत्वं संसर्गप्रविष्टं नास्ति किं तु द्वित्वत्वावच्छिन्नव्यापकत्वम् - द्वित्वनिष्टव्याप्यस्वनिरूपितं केवलान्वयिप्रमेयत्वादिरूपविधेयनिष्ठं व्यापकत्वमेव संसर्गघटकं ज्ञेयं केवलान्वयिनि प्रमेयत्वादौ व्यापकत्वं चाक्षतमेवेत्यन्वयः, अर्थात्- ' वटौ प्रमेयौ ' इत्यत्र स्वनिष्ठव्यापकतानि - रूपकोद्देश्यतावच्छेदकाश्रयत्वसंबन्धेन विधेयस्य प्रमेयत्वस्यान्वयो भवतीति स्वीकृतम्, स्वं प्रमे ' यत्वं तन्निष्टव्यापकतानिरूपकं यदुद्देश्यतावच्छेदकं प्रमेयत्वव्याप्यं द्वित्वं तदाश्रयत्वम्= तद्वत्त्वं टद्वये एवास्तीति तादृशद्वित्ववत्त्वसंबन्धेन घटद्वये एवात्र प्रमेयत्वस्यान्वयः संभवतीति ' अत्र बटौ प्रमेयौ ' इतिवाक्यस्य वटद्वयसत्त्वे एव प्रामाण्यमुपपद्यते, संबन्धभूतं व्यापकतानिरूपकद्वित्वयत्त्वं चोद्देश्यतावच्छेदकव्याप्यपर्याप्तिसंबन्धेन बोध्यं तेनैकघटैकपटदशायां यद् व्यापकता निरूपकं घटपटोभयगतं द्वित्वं तत्तूद्देश्यतावच्छेदकघटत्वव्याप्यपर्याप्तिसंबन्धेन नास्ति तस्य घटत्वपटनोभयव्याप्यपर्याप्तिसंबन्धेन वर्तमानत्वात् यच्च एतदेशस्थे देशान्तरस्थे च घटद्वये मिलित्वा बटत्वव्याप्यपर्याप्तिसंबन्धेन द्वित्वमस्ति तत्तक्तव्यापकताया निरूपकमेव नास्ति - अत्र प्रमेयत्व -