________________
( १७० )
सादशैं:
[ प्रथमाकारके --
ष्टज्ञानम्, अतो विशेषदर्शिनां तादृशवाक्याद् दोषायत्तमाधेयत्वांशे उभयत्वाद्यवच्छिन्ननिरूपितत्वावगाहिभ्रमात्मकज्ञानं न भवत्येव अपि तु तदंशे तदनवगादि प्रमात्मकं ज्ञानमिति । उभयत्वावच्छिन्ननिरूपिताधेयत्वं चोभयादिवृत्तावेकस्मिन् धर्मे एव न तु प्रत्येकमात्रवृत्ताविति कर्मत्वांशे तादृशाधेयत्वावगाहिज्ञानस्य भ्रमत्वमित्यवधेयम् ।
प्रतिबध्नाति न तु यस्मिन् ज्ञाने उभयत्वं केवलं विशेष्ये घटद्वये विशेषणमात्रं स्यात्तादृशज्ञानमपि -' घटावानयति चैत्रः ' इतिवाक्यजन्यशाब्दज्ञाने चोभयत्वं घटद्वयस्य विशेषणमात्रमेव न तु संबन्धभूताधेयतानिरूपकाधारताया अवच्छेदकत्वेनापि भासते ( येन प्रतिबध्यत्वं स्यात् ) 'घटावानयति' इतिवाक्येनानयनकर्मता घटद्वयनिष्ठा एकैवेति प्रतिपादनाभावात्, घटद्वयनिष्ठानयनकर्मताया ऐक्ये आनयनकर्मतानिष्ठाधेयता एका स्यात्तदा तादृशैकाधेयतानिरूपिका घटद्वयनिष्ठा एकैवाधारता स्यादिति तादृशाधारतावच्छेदकमुभयत्वं स्यादपि न चैवमस्ति व्यक्तिभेदेनानयनकर्मताया भिन्नत्वात् तस्मादुक्तप्रतिबन्ध कज्ञानेन 'घटावानयति' इतिवाक्याज्जायमानस्योभयत्व( द्वित्व ) विशिष्टघटप्रकार कानयन कर्मताविशेष्यकज्ञानस्य प्रतिबन्धो न भवतीत्यर्थः । स्त्रनिष्ठानयनकर्मतायामेव प्रत्येकघटस्य प्रकारतया मानस्वीकारात् प्रत्येकघटस्यापि द्वित्वविशिष्टत्वाच द्वित्वविशिष्टघटद्वयस्यैकानयनकर्मतायामन्वयास्वीकाराच ।
अत इति - यतो व्यक्तिमेदेनानयनकर्मता भिन्नास्त्यतस्तादृशानयनकर्मतानिष्ठाधेयतापि भिन्नास्ति न तु घटद्वयनिरूपिता ( घटयनिष्ठाधारतानिरूपिता ) एकैवाधेयतास्तीति विशेषदशिनां किं वाऽऽनयनकर्मत्वमुभयत्वावच्छिन्ननिरूपिताधेयत्वाभाववदिति विशेषनिश्चयवतां पुंसां - तादृशवाक्यात् =' घटावानयति इतिवाक्याद् आधेयत्वांशे दोषायत्तम् = दोषाधीनमुभयत्वावच्छिन्न ( घटद्वय ) निरूपितत्वावगाहि भ्रमात्मकं ज्ञानं नैव भवति ( आधेयताया घटद्वयनिरूपितत्वाभावाद् घटद्वयनिरूपितत्वज्ञानं भ्रमात्मकमेव स्यात् ) अपि तु तदंशे - आधेयत्वांशे तदनवगाहि=उभयत्वावच्छिन्न ( घटद्रय ) निरूपितत्वानवगाहि प्रमात्मकमेव ज्ञानं भवतीत्यर्थः । तथा च प्रतिबन्धकत्वेनाभिमतमपि ज्ञानमाऽऽधेयत्वाशे उभयत्वावच्छिन्ननिरूपितत्वाभावावगाह्येव 'घटावानयति' इतिवाक्यजन्यमपि ज्ञानमाऽऽधेयत्वांशे उमयत्वावच्छिन्ननिरूपितत्वानवगाह्येवेति परस्परं साम्येन विरोधाभावात् प्रतिबध्यप्रतिबन्धकभायो नैव संभवतीति यावत् । ननूक्ताधेयतायामुभयत्वावच्छिन्ननिरूपितत्वावगाहिज्ञानस्य कथं भ्रमत्वमित्याशङ्क्याह- उभयत्वावच्छिन्नेति यः खलु धर्मो घटद्वये एक एव व्यासज्यवृत्त्या वर्तेत तस्मिन् धर्मे याऽऽधेयता सैवोभयत्वावच्छिन्ननिरूपिता भवति यथा द्वित्वनिष्ठाऽऽधेयता द्वित्वं घटद्वये एकमेवेति द्वित्वनिष्ठाऽऽधेयता घटद्वयनिरूपिता = घटद्वयनिष्ठाधारता निरूपिता भवति न तु प्रत्येकवृतिधर्मनिष्ठाऽऽधेयता उभयत्वावच्छिन्ननिरूपिता भवति किं तु प्रत्येकमात्रनिरूपितेव भवति यथा ' नीलो घटौ ' इत्यत्र नीलस्वगुणस्य घटव्यक्तिभेदेन भिन्नत्वेन प्रत्येकवृत्तित्वाद् नीलत्वनिष्ठाधेयता न घटद्वयनिरूपिता
"Aho Shrutgyanam"