________________
संख्यान्वयविचारः ]
व्युत्पत्तिवादः ।
( १७१ )
संख्याश्च प्रकृत्यर्थतावच्छेदकगताः कचित् प्रतीयन्ते यथा 'संपन्नौ व्रीहियवी' इत्यादौ, एतत्तत्त्वं प्रागेवाभिहितम् ।
विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्या संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेति यथा-' शतमेकम्' 'द्वे शते' ' त्रीणि शतानि' इत्यत्रभवति किं तु प्रत्येकनिरूपितैव तथा ' घटावानयति' इत्यत्रापि घटव्यक्तिभेदेनानयनकर्मत्वस्य निषाद् आनयनकर्मत्वनिष्ठाधेयतापि प्रत्येकनिरूपिता भिन्नैव न तूभयत्वावच्छिन्न ( घटद्वय ) निरूपिता भवतीत्यानयनकर्मत्वं तादृशाधेयतावगाहिज्ञानस्य = उभयत्वावच्छिन्न निरूपिताधेयता वर्तते इत्यवगाहिज्ञानस्य भ्रमत्वमेवेत्यर्थः ।
'अत्र वटौ स्तः ' 'वटावानयति' इत्यादी प्रकृत्यर्थघटादिगतैव संख्या प्रतीयते, कचिच्च प्रकृव्यर्थे संख्यान्वयबाधे सति प्रकृत्यर्थतावच्छेदकगतैवसंख्या प्रतीयते यथा 'संपन्नौ व्रीहियवौ' इत्यत्र संपन्नानेकत्रीहियवेषु द्विवचनार्थद्वित्वसंख्यान्वयस्य बाधात् प्रकृत्यर्थतावच्छेदकीभूतयोहित्वत्वयोरन्ययो भवति - त्रीहित्ययवत्वजातिमन्तौ संपन्नावित्यर्थ इत्याशयेनाह - संख्याचेति । एतत्तत्त्वं=प्रकृत्यर्थतावच्छेद के संख्यान्वयतत्त्वं प्रागेव ' संपन्नो व्रीहि:' ( पृ०७ ) इत्यत्र प्रदर्शितम् । तथा चात्रापि स्वाश्रयप्रकृत्यर्थतावच्छेदकवत्त्वसंबन्धेन द्वित्वस्य प्रकृत्यर्थभूतव्रीहियवयोरप्यन्वयः संभवतीत्यादिकं तत्रैव द्रष्टव्यम् |
कचिच्च प्रकृत्यर्थतावच्छेदकसंख्यायामेव विभक्त्यर्थ संख्या अन्वेतीत्याह - विरुद्धेति, शतादि - पदोत्तरविभक्त्युपस्थाप्या या संख्या तद्विरुद्धसंख्यावच्छिन्नवाचकं यच्छतादिपदं तदुत्तरवर्तमानविमत्युपस्थाप्येत्यन्वयः । यथा- 'शतमेकम्' इत्यत्र शतपदं शतत्वसंख्यावच्छिन्नवाचकं शतपदोत्तर प्राप्त प्रथमैकवचनं चैकत्ववाचकम् एकत्वसंख्यायाः शतत्वसंख्यायाश्च परस्परं विरोधाच्छतत्वसंख्यावच्छिन्ने एकत्वसंख्याऽन्वयासंभवात् प्रकृत्यर्थतावच्छेदकीभूतशतत्वसंख्यायां विभक्त्यर्थेकरवस्यान्वयो भवति - अत्र शतत्वस्यैकत्वात् 'एकत्वविशिष्टं शतत्वम्' इत्यर्थः । 'एकमू इतिपदं चोक्तैकत्वस्यानुवादकं बोध्यम्. एकत्वस्य स्पष्टप्रतिपत्त्यर्थं चैकपदप्रयोगः । यत्र शतत्व - व्यक्ती द्वे भवतस्तत्र द्विवचनं भवति यथा- 'द्वे शते' इति 'द्वित्वविशिष्टं शतस्त्वम्' इत्यर्थः । एवम् ' त्रीणि शतानि' इत्यादि । यद्यप्यत्र शतत्वसंख्यापि बहुत्वरूपा बहुवचनार्थभूतापि बहुत्वसंख्येति तयोर्बहुवत्वेन रूपेण विरोधो नास्ति तथापि त्रिशब्दसामानाधिकरण्यादत्र शतशब्दोसरबहुवचनं त्रित्वसंख्योपस्थापकमेव त्रित्वसंख्यायाः शतस्त्वसंख्यायाश्च परस्परं विरोधाच्छतत्वसंख्यावच्छिने त्रित्वसंख्यान्वयासंभवात् प्रकृत्यर्थतावच्छेदकतत्वे एव शतशब्दोत्तरबहुवचनार्थमित्वसंख्याया अन्वयः - त्रिवविशिष्टं शतत्वमिति । 'त्रिशतं गावः' इत्यादौ तु एकत्वविशिष्टतत्वकावच्छिन्ना गाव:" इतिवाक्यार्थः । शतादिशब्दानां शक्तिस्तु शतत्वादिसंख्यावच्छिन्ने संख्येये एव । न च शतत्वादिसंख्यायामेकत्वद्वित्वादिसंख्यान्ययासंभवः - गुणे गुणानङ्गीकारादिति वाच्यम्, अत्रेकत्वद्वित्वादीनामपेक्षाबुद्धिविषयत्वरूपत्वेन शतत्वादिसंख्यायामन्त्रये विरोधा
"Aho Shrutgyanam"