________________
सादर्श:
[ प्रथमाकारके -
शतत्वादावेकत्वद्वित्वबहुत्वानामन्वयः । अत एव चैकशतद्विशततात्पर्येण न ' शतानि ' इति प्रयोगः -- तत्र प्रकृत्यर्थस्य शतस्य बहुत्वाद्यन्वययोग्यत्वेपि प्रकृत्यर्थतावच्छेदकशतत्वांशे बहुत्वाद्यन्वये एव बहुवचनस्ये साकाङ्क्षत्वात् तत्र च योग्यताविरहात् ।
न चैकशतेपि नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्व संभवादेकशवनिष्ठशतत्वेपि Magaraatग्यताsतैवेति वाच्यम्, परस्परसमानाधिकरणद्वयाऽवृत्ति बहुत्वस्यैव शतादिपदोत्तरबहुवचनार्थत्वात् तादृशबहुत्वस्य चैकशतादिवृत्तिनानाशतत्वादौ भावात् । एकादिपदं चानुवादकमपि सन्न व्यर्थम् - " संभेदे नान्यतरवैयर्थ्यम्” इति न्यायादिति विभावनीयम् ।
अत एव = विरुद्धसंख्यावच्छिन्नवाचकशतादिपदोत्तरविभक्त्युपस्थाप्या च संख्या प्रकृत्यर्थतावच्छेदकसंख्यायामेवान्वेतीति नियमस्वीकारादेव । तत्र - एकशततात्पर्येण द्विशततात्पर्येण वा कृते ' शतानि ' इति प्रयोगे । तत्र = शतत्वे । एकशततात्पर्येण वा द्विशततात्पर्येण वा 'शतानि ' इतिप्रयोगकाले प्रकृत्यर्थे शतत्वसंख्या विशिष्ट बहुत्वमस्तीति बहुवचनार्थबहुत्वान्वययोग्यताप्यति यद्यपि तथापि तत्रान्वय स्वीकारो नास्ति यत्र च प्रकृत्यर्थतावच्छेदकीभूततत्वे शतपदोत्तरबहुवचनार्थबहुत्वस्यान्वय इष्टस्तत्र शतत्वे तदानीं बहुत्वाऽभावाद बहुत्वान्यययोग्यता नास्तिएकशतविषयक तात्पर्ये सति शतत्वव्यक्तेरेकत्वविशिष्टत्वाद् द्विशतविषयकतात्पर्ये च सति द्वित्वविशिष्टत्वादित्यर्थः । एकशतद्विशततात्पर्येण ' शतानि ' इतिप्रयोगो न भवतीति विनिगमनायाः सादेव विरुद्धसंख्यावमिवाचके श्याद्युक्तनियमः स्वीक्रियते अन्यथा बहुवचनार्थ बहुत्वस्य शतत्वसंख्याव - च्छिन्नप्रकृत्यर्थेऽन्वयसंभवे एकशतद्विशततात्पर्येणापि ' शतानि इतिप्रयोगः स्याद्न चैतदिष्टम
ननु तत्वादिसंख्या ह्यपेक्षाबुद्धिजन्येव भवति अपेक्षाबुद्धिश्च पुरुषभेदेन भिन्नेत्येकस्मिन्नपि शते देवदत्तयज्ञदत्तादिनानापुरुषीयापेक्षा बुद्धिभिर्नानाशतत्वोत्पत्त्या एकशतद्विशततात्पर्यकालेप्येकशतादौ नानाशतत्वसंभवात् तादृशनानाशतत्येषु बहुत्वसत्त्वेन बहुवचनार्थ बहुत्वान्वय योग्यतायाः संभवाद् एकशतद्विशततात्पर्यकालेपि ' शतानि ' इति प्रयोगः कथं न स्यादित्याशङ्कते म चेति । परिहारमाह-- परस्परेति, नानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वानि परस्परं समानाधिकरणान्येव भवन्ति - एकस्मिन्नेव शते वर्तमानत्वात् शतादिपदोत्तरबहुवचनार्थभूतबहुत्वं च परस्परसमानाधिकरणद्वयाऽवृत्ति बहुत्वमेव भवति यथा बहुशततात्पर्ये सति ' शतानि ' इत्यन शतत्रये पृथक् पृथक शते शतत्वं वर्तते इत्येतादृशशतत्वानि परस्परं व्यधिकरणान्येवेति तत्र शत त्रयगतशतत्वत्रये यद् बहुत्वं तत् परस्परसमानाधिकरणम् = एतत्तृतीयशतत्वसमानाधिकरणं यच्छतत्वद्वयं तद्वृत्तिन भवति तादृशबहुत्वस्य परस्पराऽसमानाधिकरणशतत्वेषु वर्तमानत्वाद् एतादृशं परस्पराऽसमानाधिकरणशतत्वेषु वर्तमानमेव बहुत्वं च शतपदोत्तरबहुवचनार्थ इति तस्य बहुततात्पर्ये सत्येव शतत्वेष्वन्वयः संभवति न त्वेकशतद्विशततात्पर्ये सत्यपि तादृशबहुत्वस्य =
( १७२ )
" Aho Shrutgyanam"