________________
शतादिशब्दार्थविचारः] व्युत्पत्तिवादः। बाधात् । अथ वा तत्रापि बहुत्वमेव बहुवचनार्थः, परस्परसमानाधिकरणद्या. त्तिपर्याप्तिरेवाकाङ्क्षानिरूपकः संबन्धः । __ यत्तु द्वे शते'' त्रीणि शतानि इत्यादौ संख्यैव शतादिशब्दार्थो न त संख्ये
यम, संख्येयस्य तदर्थत्वे "विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः" इत्यपरस्पराऽसमानाधिकरणशतत्वेषु वर्तमानस्य बहुवचनार्थभूतबहुत्वस्य एकशतवृत्त्यपेक्षाबुद्धिजन्योक्तनानाशतत्वेषु बाधात् , तस्मादेकशतद्विशततात्पर्येण 'शतानि' इति प्रयोगापत्तिर्नास्त्येवेत्यर्थः । एकस्मिन्नेव शते यदा नानापुरुषीयापेक्षाबुद्धिभि नाशतत्वान्युत्पद्यन्ते तत्र तादृशनानाशतत्वेषु वर्तमानं बहुत्वं परस्परसमानाधिकरणम्-बहुत्वाश्रयीभूततृतीयशतत्वसमानाधिकरण यच्छतत्वद्वयं तद्वत्त्येव भवति तत्र बहुत्वाश्रयीभूतसकलशतत्वानामेकस्मिन्नेत्र शते वर्तमानत्वेन समानाधिकरणत्वात्, न चैतादृशं परस्परसमानाधिकरणनानाशतत्वेषु वर्तमानं बहुत्वं बहुवच-. नार्थो भवति येनैकशतगतनानाशतत्वान्याश्रित्यैकशतद्विशततात्पर्येणापि 'शतानि । इति प्रयोगः स्यादित्यर्थः ।
पक्षान्तरमाह-अध वेति । यथान्यत्र सर्वत्र बहुत्वमेव बहुवचनार्थस्तथा तत्रापि शतानि' इत्यत्रापि परस्परसमानाधिकरणद्वयावृत्तित्वविशेषणरहितमेव बहुत्वं बहुवचनार्थ इत्यत्र बहुत्वस्य परस्परसमानाधिकरणद्वयावृत्तिपर्याप्तिः संबन्ध इत्युच्यते तथा च बहुशततात्पर्ये सति 'शतानि , इतिप्रयोगो भवति-- तत्र बहुत्वाश्रयीभूतशतत्वत्रयस्य पृथक् पृथक् शते वर्तमानत्वेन समानाधिकरणलाभावात् . परस्परसमानाधिकरणम्-तृतीयशतत्वसमानाधिकरणं यच्छतत्वद्वयं तदऽवृत्तिर्या बहुत्वपर्याप्तिस्तादशपर्याप्तिसंबन्धेन बहुवचनार्थबहुत्वस्य शतत्वत्रये वर्तमानत्वात् . बहुत्वपर्याप्तेबंगतत्वेष्वेव संभवादित्यर्थः । एकशतद्विशतविषयकतात्पर्ये च सत्येकशवगतनानापुरुषीयाने, क्षाबुद्धिजन्यनानाशतत्येषु बहुत्यस्य परस्परसमानाधिकरणद्वयातिपर्याप्तिसंबन्धेन वृत्तित्वं न संभवति यत:- एकशतगतनानापुरुषीयापेक्षाबुद्धिजन्यनानाशतत्वानामेकशतगतत्वेन समानाधिकरणत्वात् तेषु वर्तमानस्य बहुत्वस्य बहुत्वाश्रयीभूततृतीयशतत्वसमानाधिकरणशतत्वद्वयेपि पर्याप्तिरस्त्येवेति तत्र बहुत्वं परस्परसमानाधिकरणद्वय ( शतत्वद्वय ) वृत्तिपर्याप्तिसंबन्धेनैव वर्तते न चैतादृशपर्याप्तिसंबन्धेन बहुत्वमिष्टमिति नैकशतद्विशतविषयकतात्पर्येण 'शतानि । इति प्रयोगापत्तिः । 'परिहाराय मतान्तरमनुवदति- यत्तिति, 'शतानि' इत्यत्र शतादिशब्दानां संख्येयवाचकवे शतत्वादेः संख्येयपदार्थतावच्छेदकत्वं प्राप्तं तत्र शतत्वादौ शतपदोत्तरबहुवचनाद्यर्थबहुत्वा. देरन्वये च " प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वम् " इतिनियमस्य परित्यागः स्थादेवकृत्यर्थभूतसंख्येये समन्वयाभावात् संख्येयार्थावच्छेदकीभूते शतत्वादावन्वयात्, तथा शतादिशब्दानां संख्येषवाचकत्वे " विशल्याद्याः " इत्यनुशासनेनैकवचनान्तत्वं प्रतिपाद्यते 'द्वे शते' त्रीणि शतानि' इत्यत्र तु द्विवचनान्तो बहुवचनान्तश्च प्रयोगोस्तीत्युक्तानुशासनविरोधोपि संख्ये
"Aho Shrutgyanam"