________________
( १७४)
सादर्श:
[प्रथमाकारकेनुशासनविरोधाद् द्विवचनादिसाधुतानुपपत्तेः 'गवां शतानि' इत्यादी षष्ठयर्थान्वयानुपपत्तेश्च । न चाभेदः षष्ठ्यर्थः- तथा सति 'ब्राह्मणा दश' इत्यत्र ब्राह्मणानां दश' इत्यपि स्यात् । अस्माकं चादशतः संख्याः संख्येये वर्तन्ते. अतः परं संख्याने संख्येये च इत्यनुशासनाद् दशादिशब्दानां शतादिशब्दवत् संख्यायवाचकत्वेऽत्र प्राप्तः, उक्तानुशासनविरोधादेव शतादिशब्दस्य संख्येयवाचकत्वे 'द्वे शते '
त्रीणि शतानि ' इत्यादौ द्विवचनादेः साधुत्वानुफ्पत्तिरपि प्राप्ता, तथा शतादिशब्दानां संख्येयवाचकत्वे ' गवां शतानि , इत्यादी गोपदोत्तरषष्टयर्थस्यान्वयानुपपत्तिरप्यस्ति- षष्ठ्यर्थस्य भेदसंबन्धस्य कचिदप्यन्वयो न संभवति- यथा ' घटस्य नीलः' इत्यत्र 'घटवृत्तिर्नीलः ' इति बोधो जायते तथात्र 'गोवृत्तीनि शतसंख्येयानि ' इत्यपि बोधो नोपपद्यते तस्मात शतादिशब्दा न संख्येयवाचकाः किं तु संख्यावाचका एवेति स्वीकार्यम् , संख्यावाचकत्वे तु शतादिपदोत्तरबहुवचनाद्यर्थबहुत्वादेः प्रकृत्यर्थशतादिसंख्यायामेवान्च्यात् “प्रत्ययानां प्रकृत्यान्वितस्त्रार्थबोधकत्वम् " इति नियमरक्षापि भवति, तथा संख्यावाचकत्वे " संख्यायां द्विबहुत्वे स्तः " इत्यनेन द्विवचनान्तत्वबहुवचनान्तत्वयोरपि बोधनात् द्वे शते'' त्रीणि शतानि । इत्यत्रानुशासनविरोधोपि नास्तीति द्विवचनादिसाधुतानुपपत्तिरपि नास्ति, ' गवां शतानि ' इत्यत्र षष्ठयर्थान्धयानुपपत्तिरपि नास्ति 'घटस्य नीलः' इत्यत्र 'घटवृत्तिर्नीलः' इतिबोधवदत्रापि 'गोवृत्तीनि बनि शतत्वानि ' इतिबोध उपपद्यते संख्यायाः संख्येयपदार्थवृत्तित्वे विरोधाभावादित्यर्थः । ननु ' गवां शतानि ' इत्यत्राभेद एव षष्ठ्यर्थस्तथा च शतशब्दस्य संख्येयपरत्वे ' गवाभिन्नानि शतसंख्येयानि ' इतिवाक्यार्थबोधो भविष्यतीत्याशङ्कयाह- न चेति । परिहारमाह- तथा सतीति, यद्यमेदोपि षष्ठयर्थः स्यात्तदा 'ब्रह्मणा दश' (दशसंख्याका ब्राह्मणाः ) इत्यस्य स्थाने ' ब्रह्मणानां दश' इत्यपि प्रयोगः स्यात्-अभेदबोधसंभवात् , न च 'ब्राह्मणानां दश' इतिप्रयोगो भवतीति नाऽभेदः षष्ठ्यर्थस्तथा च शतादिशब्दानां संख्येयवास्वकत्वे गवां शतानि' इत्यादौ षष्ठयर्थान्धयानुपपत्तिस्तदवस्थेति संख्यैव शतादिशब्दार्थ इत्यर्थः।
स्वमतमाह- अस्माकं चेति, " संख्येये ह्यादश त्रिषु " इत्यनुशासनाद् आदशतः एकमारभ्याष्टादशपर्यन्ताः संख्यावाचकाः शब्दाः संख्येयवाचका एव यथा ' एकः पटो द्वौ पटौ दश ब्रामणा भष्टादश गाव: ' इति तथा च दशशब्दस्य संख्येयपरत्वेनाऽभेदबोधनार्थम् ' ब्राह्मणा दश । इत्येव प्रयोगो भवति न तु 'ब्राह्मणानां दश ' इत्यपि-अभेदबोधासंभवात् । अतः परम्-अष्टादशसंख्यातः परं एकोनविंशत्यादिसंख्यावाचकाः शब्दा: संख्यावाचकाः संख्येयवाचकाश्च भवंति तत्र संख्येयवाचका यथा- 'एकोनविंशतिः पटाः ' 'शतं गावः ' इत्यादि, संख्यावाचका यथा 'पटानामेकोनविंशतिः ''गवां शतम् ' इत्यादि, तथा च शतादिशब्दवत= यथा शतादिशब्दानाम् "विशयाद्याः" इत्यनुशासनेन संख्यानार्थकत्वम्-संख्यावाचकस्वमस्ति तथा दशादिशब्दानाम् एकमारभ्याष्टादशपर्यन्तसंख्यावाचकानां दशादिशब्दानाम
"Aho Shrutgyanam"