________________
जातादिशब्दार्थ विचार: ]
व्युत्पत्तिवादः ।
( १७५)
नार्थकत्वाभावात् । दशत्वादिसंख्यायाः पदार्थतावच्छेदकत्वेन तत्र षष्ठयर्थसं-बन्धान्वथासंभवेन न तथाप्रयोग इति ।
तदसत् - ' गवां शतानि' इत्यादौ संख्यायाः प्राधान्येन शतादिशब्दवाच्यत्वे गवां शतं दद्यात्' इत्यादौ शतादिपदार्थस्य संख्याया दानादिकर्मत्वान्वयायोग्यतया प्रामाण्यानुपपत्तिः, ' गवां शतं शुलम्' इत्यादी संख्यायां शुक्लाद्यमेदान्वययोग्यताविरहात् तदनुपपत्तिश्च तस्माद् दशादिशब्दा इव विंशतिशत सहस्वादिशब्दा अप संख्यावच्छिन्नवाचका एव न तु धर्मिविशेषणतानापन्नसंख्यावाचकाः ।
-
€
“ संख्येये ह्यादश त्रिषु " इत्यनुशासनात्संख्येयमात्रवाचकत्वेन संख्यानार्थकत्वाभावात् = संख्यावाचकत्वमेव नास्ति येन 'ब्राह्मणानां विंशतिः ' इतिवत् ' ब्राह्मणानां दश ' इत्यपि प्रयोगः स्यात् । दशादिशब्दानां संख्यावाचकत्वे " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन ” इति व्युत्पत्तर्विरोधमप्याह- दशत्वादीति, दशादिशब्दानां संख्यावाचकत्वे संख्यायाश्च पदार्थतावच्छेदकत्वेन पदार्थत्वाभावात् तत्र षष्ठ्यर्थस्य वृत्तित्वस्य दशत्वसंख्यायामन्वयो न संभवतीतिहेतोरपि तथा=' ब्राह्मणानां दश' इति प्रयोगो न भवति ब्राह्मणानां विंशति: ' इत्यादौ तु " विंशत्याद्याः " इत्यनुशासन बलाद् विवशम् " पदार्थः पदार्थेनान्वेति " इतिव्युत्पत्तेः संकोचं कृत्वा पदार्थतावच्छेदकीभूतविंशतित्वादिसंख्यायां षष्ठयर्थान्वयः स्वीक्रियते यथा- ब्राह्मणवृत्तिविंशतित्वम्' इति, एवमेव ' गवां शतानि ' इत्यस्यापि ' गोवृत्तीनि शतत्वानि इत्येवार्थस्तथा च सिद्धम् - 'द्वे शते ' ' त्रीणि शतानि' इत्यादौ संख्यैव शतादिशब्दार्थ इत्यर्थः ।
#
፡
परिहरति- तदसदिति, यदुक्तम् ' द्वे शते ' ' त्रीणि शतानि ' इत्यादी संख्यैव शतादिशब्दार्थो न तु संख्येयमिति तन्न युक्तं एवं हि ' गवां शतानि ' इत्यत्रापि शतशब्दवाच्या प्राधान्येन संख्यैव स्यात् तथा च गवां शतं दद्यात् ' इत्यत्रापि शतशब्दवाच्या संख्यैव स्यात् संख्यायाश्च दानकर्मत्वं न संभवतीति शतसंख्याया दानकर्मत्वेऽन्वययोग्यताया असंभवाद् भसंभवितार्थबोधकत्वात् ' गवां शतं दद्यात् ' इत्यस्याप्रामाण्यं स्यात् एवम् ' गवां शतं शुक्लम् ' इत्यत्रापि शतशब्दवाच्या संख्यैव स्यात् संख्यायाश्च शुक्लगुणवत्त्वं शुक्लत्वगुणेनाभेदो वा न संभबतीति ' गवां शतं शुक्लम्' इति वाक्यस्यापि तदनुपपत्तिः प्रामाण्यानुपपत्तिः, तस्माद् यथा दशा दिशन्दाः संख्यावच्छिन्नसंख्येयवाचकास्तथा: शतादिशब्दा अपि संख्यावच्छिन्नसंख्येययाचका एव न तु प्राधान्येन संख्यावाचकास्तथा च ' गवां शतं दद्यात्' इत्यत्र शतशब्दस्य संख्येयवाचकत्वे प्राप्ते संख्येयस्य च दानकर्मत्वयोग्यत्वान्न प्रामाण्यानुपपत्तिः, तथा L गवां शतं शुकम् ' इत्यत्रापि शतशब्दस्य संख्येयवाचकत्वे प्राप्ते संख्येयस्य च शुक्लत्वगुणेनाऽन्वययोग्यत्वेन शुक्लपदार्थेनाभेदान्वययोग्यत्वान्न प्रामाण्यानुपपत्तिरित्यर्थः । धर्मिविशेषणतानापन्नेति - यथा घटादिशब्दानां घटाद्यवच्छेदकीभूतघटत्वादिवाचकत्वमपि भवति - घटादिवाचकत्वाद
"Aho Shrutgyanam"
८