________________
( १७६ )
स्वार्थैकदेशेपिं संख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षतयाऽन्यप्रकृतिकषष्ठ्यर्थ संबन्धान्वयसाकाङ्क्षतया च तेषां संख्यानार्थकतामवादों न तु दशादिशब्दानां तथात्वं दशादिब्राह्मणतात्पर्येण ' ब्राह्मणानां दश ' इत्यादिप्रयोगविरहादिति तेषां संख्येयमात्रवाचिताप्रवाद इति, “विंशत्याद्याः सदैकत्वे
सादश:
&
{ प्रथमाकार के
घटादिपदार्थानां घटत्वादिविशिष्टत्वात् तथा विंशत्यादिसंख्याशब्दानामपि संख्या विशिष्टसंख्येयवाचकत्वमेवेति संख्येयरूपधर्मिविशेषणतापन्नसंख्यावाचकत्वमपि प्राप्तमेवेत्येव युक्तं न तु धर्मिविशेषणताडनापन्न संख्यावाचकत्वम् = केवलं संख्यामात्रवाचकत्वमित्यर्थः ।
ननु यदि 'गवां शतानि ' ' गवां शतं दद्यात्' इत्यादी शतादिशब्दानां संख्येयवाचकत्वमेव न च संख्यावाचकत्वं तदा सर्वत्र संख्येयवाचकत्वमेव स्यात्तथा च शतादिशब्दानां संख्यायाचकत्वं कथमुच्यते जनैः तथा दशादिशब्दानां केवलं संख्येयमात्रवाचकत्वं न संख्यावाचकत्वमित्यपि कथमुच्यते? इत्याशङ्क्य शतादिशब्दानां संख्यावाचकत्वप्रवादमुपपादयति - स्वार्थेकेति । दशादिशब्दानां संख्येयमात्रवाचकत्वप्रवादं चोपपादयति-दशादिब्राह्मणेति । ' एकं शतम्" इत्यत्र स्वार्थैकदेशे = स्वार्थैकदेशभूतायां संख्यायाम् = शतत्वसंख्यायां स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षतया = स्वं शतंशब्दस्तत्प्रकृतिकविभक्तिः शतपदोत्तरप्रथमा विभक्तिस्तदर्थ भूतैकत्वसंख्याया अन्यये साकाङ्क्षतया ( एकं शतस्वमितिबोधात् ) तेषाम् = शतादिशब्दानां संख्यानार्थकताप्रवादः =संख्यावाचकत्वप्रवादोस्ति-शतादिपदोत्तरविभक्तयर्थभूतसंख्यायाः शतत्वादिसं ख्यायामन्वयस्वीकारादित्यर्थ एतच्च पूर्वमेव 'विरुद्ध संख्यावच्छिन्नवाचक' (पृ. १७१ ) इत्यादि - नोक्तम्, तथा स्वार्थैकदेशसंख्यायां शतत्वादौ अन्यप्रकृतिकषष्ठयर्थसंबन्धान्वयसाकाङ्क्षतया = 'गवां शतम्' इत्यत्रान्यप्रकृतिका = गोपदप्रकृतिका या गवामिति गोपदोत्तरषष्ठी तदर्थो यो वृत्तित्वसंबन्धस्तस्यान्वये साकाङ्क्षतया च तेषां शतादिशब्दानां संख्यानार्थकताप्रवादोस्ति-- गर्वा शतम् 6 इत्यत्र गोवृत्तिशतत्वम् = गोवृत्तित्वाश्रयतावच्छतत्वमतिबोवोदयात्
6
षष्ठयर्थवृत्तित्वस्य शतत्वादावन्वय स्वीकारात् संख्यावाचकत्वप्रवाद एव, संख्येयवाचकत्वं तु युक्तमेव 'गवां शतं दद्यात् ' इत्यादिप्रयोगात् । दशादिशब्दानां च तथात्वम् = स्वप्रकृतिकविभक्त्यर्थसंख्यान्वयसाकाङ्क्षत्वं तथाऽन्यप्रकृतिकषष्ठ्यर्यसंबन्धान्वय साकाङ्क्षत्वं च नास्तीति दशपदोत्तरविभक्त्यर्थसंख्यायास्तथा ब्रह्माणपदाद्युत्तरषष्ठ्यर्थ वृत्तित्वस्य दशत्वसंख्यायामन्वयासंभवान्न दशादिशब्दानां संख्यानार्थकताप्रवाद इत्यर्थः । दशादिशब्दानां संख्येयमात्रवाचिताप्रवादकारणमाह- दशादिब्राह्मणेति, यदि दशादिशब्दानामपि संख्यावाचकत्वं स्यात्तदा ब्राह्मणानां शतम् ' इतिवत् 'ब्राह्मणानां दश' इत्यपि प्रयोगः स्याद् न चैवं प्रयोगो मवतीति न दशादिशब्दानां संख्यावाचकत्वं किं तु ब्राह्मणा दश ' इत्येव प्रयोगो भवतीति तेषाम् = दशादिशब्दानां संख्येयमात्रवाचितापवादोस्ति, वस्तुतस्तु सर्वेषामेव दशादिशब्दानां
"Aho Shrutgyanam"