________________
निरर्थकैकवचनादिविचारः ]
व्युत्पत्तिवादः ।
सर्वा: संख्येय संख्ययोः । संख्पार्थे द्विबहुत्वे स्तः तात्पर्यग्राहकम् ।
59
( १७७ )
इत्यनुशासनमप्युक्तार्थे
एकद्विबहुशब्दोतरेकवचनद्विवचनबहुवचनानि च न संख्याबोधकानि - उद्देइयतावच्छेदकविधेययोरैक्येनैकत्वाद्यन्वये आकाङ्क्षाविरहादिति तदुत्तरं प्रथमाविभक्तिः प्रयोगसाधुतामात्राय ।
" Aho Shrutgyanam"
K
नित्यबहुवचनान्ताऽवादिशब्दपरं प्रथमाबहुवचनमपि क्वचिन्निरर्थकमेव - यंत्रशतादिशब्दानां च संख्यावच्छिन्नवाचकत्वमेवास्ति तत्र 'ब्राह्मणा दश' इत्यादौ दशादिशब्दोत्तरविभक्त्यर्थसंख्यायाः प्रकृत्यर्थे दशादावेवान्वयो भवति न तु दशत्वादावित्येव दशादिशब्दानां संख्येयवाचकत्वम्, विभक्त्यर्थ संख्याया दशत्वादावन्वयासंभवादेव 'ब्राह्मणानां दश' इति प्रयोगो न भवति, शतत्वादात्रन्त्रयसंभवादेव ' ब्राह्मणानां शतम् ' इतिप्रयोगस्तु भवति । शतादिशन्दोत्तरविभक्त्यर्थ संख्यायास्तु प्रकृत्यर्थतावच्छेदकशतत्वादावप्यन्वयो भवतीत्येव शतादिशब्दाना संख्यानार्थकता वस्तुतस्तु संख्यावच्छिन्नबोधकत्वमेव, तत्रापि यत्र शतादिशब्दोत्तरविभक्त्यर्थसंख्यायाः शतत्वादिसंख्यायामन्वयस्तत्र वचनत्रयमेव भवति यथा ' गवां शतं शते शतानि इति, यत्र च प्रकृत्यर्थे एवान्वयस्तत्रैकवचनमेव यथा शतं गाव: ' इति विवेकः । अत्रामरकोशं प्रमाणयति-- विंशत्याद्येति । उक्तार्थे= विंशत्यादिशब्दोत्तर विभक्त्यर्थ संख्यायाः प्रकृत्यर्थे विंशत्यादावन्वये विंशत्यादिशब्दानामेकवचनान्तत्वं प्रकृत्यर्थतावच्छेदके विंशतित्वादावन्वये च वचनत्रयान्तत्वमेव यथायोग्यं भवतीत्यमरवाक्यस्यार्थ एतदेवोक्तम्- संख्यार्थे इति । अत्र च "" उक्तार्थे तात्पर्यग्राहकमिति - विंशत्याद्याः संख्या: ( संख्याशब्दाः ) संख्येयसंख्ययोर्वाचका इति नार्थः किं तु संख्येयसंख्यान्यतर विशेष्य के कत्वादिरूपविभक्त्यर्थप्रकारकान्वयबोधपरा इत्येवानुशासनार्थ:- ' शतं गावः गर्वा शतम् । इत्युभयविधप्रयोगदर्शनात् संख्येयमात्रविशेष्यकशतत्वादिप्रकारकबोधपगः शतादिसंख्यावाचकशब्दाः सदैकत्वे वर्तन्ते शतं ब्राह्मणाः इतिप्रयोगदर्शनात् संख्यायाम् = शतत्वादिसंख्या विशेष्यकशतादिपदोत्तरेकवचन द्विवचनबद्ध्रुवचनार्थैकत्वद्वित्वबहुत्वप्रकारक बोधपराः शतादिसंख्यावाचकाः शब्दा एकवचनान्ता द्विवचनान्ता बहुवचनान्ता भपोत्यर्थः - ' गवां शतं शते शतानि' इतिप्रयोगात् एकं शतत्वं द्वे शतत्वे त्रीणि शतत्वानीत्यर्थादिति " इति कृष्णभट्टा: ।
एकेति - एकशब्दोत्तरमेकवचनं द्विशब्दोत्तरं द्विवचनं बहुशब्दोत्तरं च बहुवचनं संख्याबोधकं न भवति संख्याबोधकत्वे ह्येकमित्यत्रोद्देश्यतावच्छेदकमप्येकत्वं विधेयमप्येकत्वमेव द्वावित्यत्र द्वित्वमेव स्यादू बहव इत्यत्र बहुत्वमेव स्यात्तथा चोद्देश्यतावच्छेदकविधेययोरैक्ये जाते एकत्वादेः प्र स्पर्थेनान्वये आकाङ्क्षा न संभवतीति न संख्याबोधकत्वं किं तु साधुत्वार्थस्वमेव, एतच्च पूर्वमेव ( पृ. ६४ ) " एवमुद्देश्यतावच्छेदकविधेययोरैक्येन" इत्यत्र प्रतिपादितम् ।
नित्येति- यथा एकद्विबहुशब्देभ्यो जायमाना प्रथमा विभक्तिर्निरर्थकैव तथा नित्यबहुवच
१२