________________
व्युत्पत्तिवादः ।
समानलिङ्गकस्थले तथानियमोपगमेन
" इति हेतुस्तदुद्भवे" इतिकारिकायाः " इति त्रयः समुदिता हेतु: " इतिकाव्यप्रकाशव्याख्याया असङ्गतिर्दुर्वारव । एवमसमानलिङ्गकस्थले विशेव्यवाचकपदाऽसमानवचनस्यापि विशेषणपदस्य साधुत्वे तादृशस्थले औत्सर्गिकमेकवचनमेव सर्वत्र विशेषणपदानन्तरं प्रयोक्तुमुचितमिति “ पितरो देवताः" इत्यादेरनुपपत्तिः ।
- समानवचनकत्व परिष्कारः ]
मैवम् - यत्र विशेष्यवाचकपदोत्तरविभक्तितात्पर्यविषयसंख्याविरुद्ध संख्याया अविवक्षितत्वं तत्र विशेष्यविशेषणपदयोः समानवचनकत्वनियमः, अत एव
(५)
ननु विशेष्यविशेषणापत्र समानलिङ्गकल मग तो समानवचनकत्वस्य निय मोस्ति यथा - 'नीलो घटः' इत्यादी, 'वेदाः प्रमाणम्' इत्यत्र तु वदपदमनायष्टयों समानलिङ्गकत्वाभावेन समानवचनकत्वाभावेपि न साधुत्वानुपपत्तिरित्याशङ्क्याह-समान किरातीः नियमोपगमेन = समानवचनकत्वनियमोपगमेन । एवमपि " इति हेतुस्तदुद्भवे" इत्याकरिककाव्य-काशकारिकाया या " इति त्रयः समुदिता हेतुः" इत्याकारकटीकास्ति तत्र तु त्रिपद हेतुपदयोयोरपि पुंलिङ्गत्वेन समानलिङ्गकत्वात् समानवचनकत्वेन भवितव्यमिति कथं त्रिपदहेतुपदयोर्विभिन्नवचनकत्वे साधुत्वं स्यादित्युक्त समानवचनकत्वनियमस्याऽव्याप्तिं प्रदर्शयन्नाक्षिपति - इतिहेतुरिति । उक्तरीत्या " इति त्रयः समुदिता हेतु :" इत्यत्र समान लिङ्गकस्थलेपि समानवचनत्वं नास्तीत्यव्याप्ति प्रदर्श्याऽसमानलिङ्गकस्थले समानवचनत्वस्यातिव्याप्तिं प्रदर्शयति- एवमिति, उक्तार्थानां प्रयोगो न भवतीति विशेष्यवाचकपदोत्तरवर्तिन्या विभक्त्या संख्याया उक्तत्वाद् विशेषणवाचकपदोत्तरं द्विवचन बहुचनयोरपेक्षैव नास्तीति साधुत्वार्थमत्सर्गिकमेकवचनमेव प्राप्नोतीति 'वेदाः प्रमाणम्' इत्यत्र प्रमाणपदोत्तरमेकवचनमेवात्सर्गिकं यदि युक्तम् - समानवचनकत्वनियमस्य समानलिङ्गकस्थले एव स्वीकारात् तदा विशेष्यविशेषणवाचकपदयोस्तादृशस्थले =असमानलिङ्गकस्थले सर्वत्रौत्सर्गिकमेकवचनमेव विशेषणवाचकपदोत्तरं प्रयोक्तव्यमिति "प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र प्रमाणपदोत्तरम् " पितरो देवताः" इत्यत्र च देवतापदोत्तरमेकवचनमेव प्रयोक्तव्यमासीन्न तु बहुवचनम् - विशेष्यविशेषणवाचकपदयोः समानवचनकत्व नियामकस्य समानलिङ्गकत्वस्याभावादित्यर्थः तथा च समानलिङ्गकस्थले एव समानवचनकत्वं भवतीति नियमस्याsसंभवाद् यथा " प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि" इत्यत्र समानलिङ्गकत्वाभावेपि समानवचनकत्वं तथा 'बेदाः प्रमाणम्' इत्यत्रापि समानलिङ्गकत्वाभावेपि समानवचनकत्वं युक्तं तच नास्तीति कथं साधुत्वमित्याक्षेपः ।
उक्तरीत्याक्षिप्य परिहरति- मैवमिति । यत्रेति - यथा 'नीला घटाः चकपदं घटपदं तदुत्तरत्रर्तिविभक्तिर्ज विभक्तिस्तत्तात्पर्यविषयीभूता संख्या
"Aho Shrutgyanam"