________________
(४)
सादर्शः
[प्रथमाकारकेसमावि स्वप्रकृतिकविभक्तिसजातीयविभक्तिकत्वम् । साजात्यं च विभक्तिविभाजकप्रथमात्वादिना न तु समानानुपूर्वीतत्वं साजात्यमू'वेदाः प्रमाणम् ' 'शतं ब्राह्मणाः ' इत्यादावन्वयबोधानुपपत्तेः।
ननु "विंशत्याद्याः सदैकत्वे" इत्यनुशासनात् 'शतं ब्राह्मणाः' इत्यादेः साधुत्वेपि 'वेदाः प्रमाणम्' इत्यादयः कथं प्रयोगा: ?-- विशेष्यविशेषणवाचकपदयोरसति विशेषानुशासने समानवचनकत्वनियमात्, अन्यथा 'घटा नीलः' इत्यादेरपि साधुताप्रसङ्गात् ।
ननु · वेदाः प्रमाणम् ' इत्यादौ वेदादिपदप्रमाणादिपदयोः समानविभक्तिकत्वाभावेपि वेदप्रमाणादिपदार्थयोरभेदो भासते एवेत्याशङ्कय समानविभक्तिकत्वं निर्वक्ति- स्वसमानेति, स्वम्=
मेखिकायकपदम् । स्वप्रकृतिके ति- यथा 'वेदाः प्रमाणम् ' इत्यत्र स्वपदेनाऽनुयोगिवाचक बाद ग्रोहा तत्प्रकृतिका विभक्तिर्जस्विभक्तिस्तत्सजातीयविभक्तिकत्वं प्रमाणपदेप्यस्त्येव तस्य प्रथमान्तत्वादिति नात्राऽभेदान्वयबोधानुपपत्तिरित्यर्थः । ननु वेदपदोत्तरं जसूविभक्तिः प्रमाणपदोत्तरं च सुविभक्तिस्तयो. फयं च क च साजात्यमित्याशय विवक्षितसाजात्यस्य स्वरू. पमा- साजात्यमिति, अत्रानुपूर्वीलक्षणं साजात्यं न ग्राह्यं किं तु प्रथमारवादिधर्मेण तथा च सुजसोरुभयोरपि प्रथमावेन साजात्यमस्त्येवेति वेदपदप्रमाणपदयोः समान विभक्तिकत्वं प्राप्तं तेन चाभेदान्वयः प्राप्त इत्यर्थः । समानानुपूर्वीक्रत्वरूपसाजात्यस्वीकारे बाधकमाह-- न विति, यदि समानानुपूर्वीकत्वं साजात्यं स्यात्तदा सुजसोः समानानुपूर्वीकत्वाभावात्साजात्यं न स्यात्तथा व वेदपदप्रमाणपदयोः शतपदब्राह्मणपदयोश्च सजातीयविभक्तिप्रकृतित्वाभात् ' वेदाः प्रमागम्' 'शतं ब्राह्मणाः । इत्यादौ वेदादेः प्रमाणादेश्चान्वयबोधः अभेदान्वयबोधी नोपपयेतेत्यर्थः ।
ननु “विंशत्याद्याः सदैकत्वे" इत्यनुशासनाद्-विंशत्याद्याः संख्यावाचकाः शब्दा यदा संख्येयपरा भवन्ति तदा नियमेनैकवचनान्ता एव भवन्तीति नियमात् 'शतं ब्राह्मणाः' इत्यत्र ब्राह्मणशब्दस्य बहुवचनान्तत्वेपि शतशब्दस्यैकवचनान्तत्वमुपपद्यते, 'वेदाः प्रमाणम्' इत्यत्र वेदपदस्य बहुवचनान्तत्वेपि यत् प्रमाणपदस्यैकवचनान्तत्वेन विशेष्यविशेषणवाचकपदयोविभिन्नवचनकरवं तत् कथमुपपद्यतेत्याशङ्कते- नन्विति । स्वाभिप्रायं शाब्दबोधव्युत्पत्त्या प्रकटयति
म्येति प्रथा 'नीलो घटः' इत्यादौ विशेष्यविशेषणवाचकयोर्घटपदनीलपदयोः समानवचनकत्वमस्ति सारा वेदाः प्रमाणम्' इत्यत्रापि विशेष्यविशेषणवाचकयोर्वेदपदप्रमाणपदयोः समानवचनकत्वेन भवितव्य तद्बाधकस्य विशेषानुशासनस्याभावादित्यर्थः । विशेष्यविशेषणवाचकपदयोः समानवचनकत्वनियमानङ्गीकारे बाधकमाह- अन्यथेति, 'घटा नीलः' इत्यादिप्रयोगाणां यदऽसाधुत्वं तत् सम्मवचनकत्वाभावादेवास्तीति 'वेदाः प्रमाणम्' इत्यादिप्रयोगाणां समानवचनकत्वाभावे कथं साधुत्वैसाक्षेपः।
"Aho Shrutgyanam"