________________
अभेदसंबन्धः ]
व्युत्पत्तिवादः । स च क्व चिदऽभेदः क्व चिच्च तदतिरिक्त एवाधाराधेयप्रतियोग्यनुयोगिविषयविषयिभावादिः ।
अभेदश्च प्रातिपदिकार्थे स्वसमानविभक्तिकेन स्वाव्यवहितपूर्ववर्तिना च पदेनोपस्थापितस्यैव संसर्गमर्यादया भासते यथा- 'नीलो घटः ' 'नीलघटमा. नय' इत्यादी घटादौ नीलादेः, न तु विरुद्धविभक्तिमत्पदार्थस्य - ' नीलस्य घटः । इत्यादौ नीलघटाभेदान्वयबोधस्य सर्वानुभवविरुद्धत्वात् ।
संवन्धो द्विविधः- अभेदलक्षणो भेदलक्षणश्च तत्राभेदलक्षणम्यैकत्वाद् भेदलक्षणस्य चाऽनेक. रूपत्वात् प्रथममभेदर्सबन्धमाह- स चेति । सः-संसर्गः । कतिपयभेदसंबन्धानाह- कचिच्चेति । तदतिरिक्तः अभेदातिरिक्तः । 'भूतले घटः ' 'घटवद् भूतलम् ' इन्यादावाऽऽधाराधेयभावः संबन्धः । ' भूतले घटो नास्ति । इत्यादौ प्रतियोग्यनुयोगिभावः संबन्धः । 'घटे ज्ञानम् । सोले इच्छा ,इत्यादौ घटादिविषयकज्ञानस्य मोक्षादिविषयकेच्छायाश्च प्रतीयमानत्वाद् विष
विषयित्यादित्यर्थः । एतच्च प्राचीनमतेन, नवीनमतने त्वानुमा
बिदासरतासाथ क्वचिदाधेयतासंबन्धो यथा भूतलस्य घटे एवं कचित् प्रतियागिता कागदपोती षयता क्वचिद्विषयिता संबन्ध इति विवेकः ।
उक्तमभेदसंबन्धं व्युत्पादयति- अभेदश्चेति । “प्रातिपदिकार्थे " इतिसप्तम्यर्थोऽनुयोगित्वम्, “ उपस्थापितस्य " इतिषष्ठयर्थः प्रतियोगित्वम्, पदार्थस्येतिशेषः, यथा-'नीलो घटः। इत्यत्र प्रातिपदिकार्थे घटे स्वसमानविभक्तिकेन= घटादिलक्षणानुयोगिवाचकघटपदादिसमानविभक्तिकेन नीलपदेनोपस्थापितस्य नीलपदार्थस्याऽभेदः संसर्गमर्यादया आकाङ्क्षया भासते नीलपदोत्तरविभक्तेः साधुत्वमात्रार्थकत्वात् । 'नीलघटमानय ' इत्यत्र च स्वसमानविभक्तिकत्वाभावेष्यभेदस्य भासमानत्वेनोक्तम्- स्वाव्यवहितेति, तथा चात्र स्वं घटपदं तदव्यवहितपूर्ववर्तिना नीलपदेनोपस्थापितस्य नीलपदार्थस्य प्रातिपदिकार्थे घटेऽभेदसंबन्धः संसर्गमर्यादया भासतेतादृशसंबन्धोपस्थापकपदाभावात् । एवकारो भिन्नक्रम इति “स्वसमान विभक्तिकेनैव स्वाव्य. वहितपूर्ववर्तिनैव च " इत्यन्वयः, एवकारव्यवच्छेद्यमाह-न विति, नीलस्य धरः इत्यत्र नीलसदस्य घरपदसमानविभक्तिकत्वमपि नास्ति षष्ठया व्यवधानेन च घटपदाव्यर्विवर्तित्वमपि नास्तीति न नीलघटयोरभेदो भासते । नीलपदोत्तरषष्ठयां च बातमदास्यवहितपूर्ववर्तिस्वेप्यऽयोग्यत्वाल षष्ठयर्थसंबन्धस्याभेदेन घटेऽन्वयः संभवति । स्वसमानेत्यादिनियमाभावे च 'नीलस्य घटः' इत्यत्रापि नीलघटयोरभेदान्वयबोधः प्रसज्येत स तु सर्वविज्ञानुभवविरुद्ध एवेति न विरुद्धविभक्तिमत्पदार्थस्याभेदो भासते इति मूलार्थः ।
"Aho Shrutgyanam"