________________
(२)
सादर्श:
[ प्रथमाकारके - शेष्याहिसंयोग एव विषय इति । उपमितौ च गवयनिष्ठा विषयता चक्षुस्संनिकर्ष प्रयोज्यास्ति गवयगवयपदयोर्वाच्यवाचकभावसंबन्धनिष्ठा च विषयता सादृश्यज्ञानप्रयोज्यास्ति तत्र वाच्यवाचकभावसंबन्धस्य सादृश्यज्ञानेन ज्ञायमानत्वात् प्रथमम् ' गोसदृशो गवयः ' इत्यतिदेशवाक्यश्रवणात् तस्य गवयदर्शनकाले स्मरणात् इत्येवं प्रत्यक्षानुमानोपमानेतिप्रमाणत्रयस्थले तु येन प्रका. रेण संबन्धज्ञानं जायते संबन्धनिष्ठा च विषमता यत्प्रयोज्या भवति तत्सर्वं विज्ञातम्, संप्रति 7 राजपुरुषः ' नीलघटमानय' इत्यादिवाक्यजन्यशाब्दबोधस्थले स्वत्वाऽभेदादिसंबन्धानां प्रतीतिः कथं भवति तादृशसंबन्धनिष्ठा विषयता च किं प्रयोज्या भवतीति न ज्ञातमिति तद्वक्तव्यमित्याशङ्कय श्रीमद्गदाधरभट्टाचार्यो व्युत्पत्तिवादाख्यं ग्रन्थमारमत - शाब्दबोधे चेति । कुम्भकारः ' इतिवत् ' व्युत्पत्तीर्वदतीति व्युत्पत्तिवादः इति ग्रन्थनामार्थः ।
L
22.
"
शाब्दबोध इति - अत्र चस्त्वऽर्थे, “ शाब्दबोधे " इति सप्तम्यर्थो निरूपितत्वम्/ एकपइति सप्तम्यर्थोऽनुयोगित्वन, " अपरपदार्थस्य " इति षष्ठ्यर्थः प्रतियोगित्वम् संसर्गः भभेदादिसंबन्धः, संसर्गमर्यादया = आकाङ्क्षया, तृतीयार्थश्च प्रयोज्यत्वम्, भासधात्वर्थो विषयता, आत्मनेपदप्रत्ययार्थ आश्रयता, तथा च ' एकपदार्थानुयोगिकोऽपरपदार्थप्रतियोगिकोमेदादिसंबन्धः शाब्दबोध निरूपिताऽऽकाङ्क्षा प्रयोज्यविषयताश्रयः ' इति वाक्यार्थः, पदार्थद्वयस्य यः संसर्गः स शाब्दबोधे आकाङ्क्षाबलेन भासते इति यावद् यथा- नीलघटमानय ' इत्यत्र नीलप्रतियोगिको घटानुयोगिकश्व यो नीलघटयोरभेदसंवधः स केनापि पदेनानुपस्थितत्वादाकाङ्क्षाबलेन मासते, यथा च ' राजपुरुषः' इत्यत्र राजप्रतियोगिकः पुरुषानुयोगिकश्च यः स्त्रत्यसंबन्धः स आकाङ्क्षाबलेन भासते ' राजपुरुषः ' इत्यादिविशिष्टबुद्धेः संबन्वमानं विनोत्यतेरसंभवात्. संबन्धभासकपदस्य चाभावात् तादृशस्वत्वादि संबन्धस्याकाङ्क्षया मानं स्वीकि - यते, ओकाङ्क्षा च “यत्पदेन विना यस्याननुभावकता भवेत् । आकाङ्क्षा । " इति विज्ञेया । ' नीघटम् ' इत्यादी पदनिष्ठा विषयता श्रावणप्रत्यक्षप्रयोज्या नीलघटादीनां च विषयता नीलादिपदघटादिपदप्रयोज्या नीलघटाद्येोर्योऽमेदादिसंबन्धस्तन्निष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या भवतीति यावत् । एवम् ' राजपुरुषः ' इत्यादौ स्वत्वादिसंवन्धनिष्ठा विषयताऽऽकाङ्क्षाज्ञानप्रयोज्या विज्ञेया । अत एव शक्तिवादेऽन्विताभिधानवादखण्डनस्थले हामेदादिसंबन्धे शक्तिं दूषयित्वा संबन्धस्याकाङ्क्षामास्यत्वं प्रतिपादितम् । नीलो घट: ' इत्यादिव्यासस्थले विशेषण विभक्तेरभेदार्थकत्वमते त्वऽभेदादेर्विभक्त्युपस्थापितत्वात् प्रकारत्वमेव भवति न तु संसर्गस्वम् ' नीलाभेदवान् घटः * इति च तत्र शाब्दबोधः, तस्माद् यत्र यस्य संसर्गत्वं तत्र तस्याकाङ्क्षाभास्यत्वमेव विज्ञेयम्, व्यासस्थलेपि विशेषणविभक्तेर्निरर्थकत्वमते ह्यभेदादेः संसगत्वमेव "भवतीत्याकाङ्क्षामास्यत्वमेव, तत्र विशेषणविभक्तिः साधुत्वार्थ विज्ञेया ' अभेदसंबन्धेन नीलवशिष्ट घटः ' 'स्वत्वसंवन्धेन राजविशिष्टः पुरुषः' इत्यादिश्च शाब्दबोचाकारो विज्ञेय इत्यलम् ।
"Aho Shrutgyanam"
66