________________
॥ श्रीः ।।
अथ
सटीक:
व्युत्पत्तिवादः
। श्रीमते हयग्रीवाय नमः ॥ शाब्दबोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते ।
अथ
॥ व्युत्पत्तिवादादर्शः ॥
॥ भगवते श्रीहयग्रीवाय नमः ॥ आद्यं विद्यानिदानं विधिविबुधवरैर्बन्धमानाघ्रिपमं
धाम्नां धामैन्दवानां दनुजभुजरुजां जन्मनां छद्म जिझम् । प्रज्ञाऽऽलोकार्कमर्तिप्रतिकृतिममतिध्वान्तदन्त्येणशक्रं चक्रं भक्ताघचके हरिमिह तुरंगग्रीवमुमं प्रपद्ये ।। नत्वा श्रीमद्धयग्रीवं विद्याविघ्नविनाशनम् । स्मृत्वा स्मृत्वा पदाम्भोजं श्रीगङ्गाधरशास्त्रिणाम् ।। करोति बालबोधार्थ मूलार्थप्रतिपादिकाम् ।
व्याख्यां व्युत्पत्तिवादस्य ह्याऽऽदर्शाम उपरीनः ॥ ननु न्यायमते प्रत्यक्षानुमानोपमानशब्दभेदात् प्रमाणचतुष्टयं तत्र घटप्रत्यक्षे जाते घटे यो घटत्वादीनां नीलरूपादीनां च संबन्धः स तु संयुक्तविशेषणतासंसर्गेण भासते-चक्षुस्संयुक्तघटे तस्य विशेषगत्वादिति तादृशसंबन्धनिष्ठा विषयता संयुक्तविशेषगतासंनिकर्षप्रयोज्यास्ति घटस्तु चक्षुम्संनिकृष्ट एव, वैशेषिकमते च समवायस्याप्रत्यक्षवाहिशिष्टबुद्धया समवायानुमानं भवति तदुक्तं तैः-" इहात्मनि ज्ञानमिहाकाशे शब्द इतीहबुद्धिरुत्पद्यमाना न विना संभमत्पत्तुमर्हति तेनानुमीयते-अस्ति कश्चित्संबन्धः ।" इति । अनुमितौ च पर्वतधूमौ चक्षुस्संनिकृष्टौ घह्निनिष्ठा च विषयता च्याप्तिज्ञानप्रयोज्यास्ति पर्वतीयवह्निसंयोगनिष्टा च विषयता पक्षधर्मताज्ञानप्रयोज्यारित. अर्थात्-धूमपर्वतयोः प्रत्यक्षेण ज्ञातत्वद् वह्वेश्च व्याप्तिज्ञानेन ज्ञातत्वात् पक्षधर्मताज्ञानेन 'वहिव्याप्यधूमवान् पर्वतः । इत्यनेन वह्निसंयोग एव ज्ञायतेऽत एव पक्षधर्मताज्ञानानन्तरं तत्कार्यभूतं ' वहिमान् पर्वतः । इत्याकारकं ज्ञानं जायते. अत्र वाप्तिज्ञानेन ज्ञानत्वात् पारि
"Aho Shrutgyanam"