________________
श्येनयागविषयकविचारः] युत्पत्तिकादः।
वस्तुतः श्येनानुकूलकृतेर्मरणप्रयोजकत्वमेव न तु मरणकारणत्वम्-अन्यथासिद्धत्वाद, मरणोपलक्षितान्यकर्तृकखड्गाभिघातादिरूपवैरिवधं प्रत्येव श्येनस्य हेतुताया वेदेन बोधितत्वात् । क्रियाजन्यकायें तक्रियानुकूलकृतिहेतुताया नियमोप खड्गाभिवातादावेव श्येनकृतेर्हेतुत्वात् । तथा चाऽनिष्टविशेषफलजनकतोवच्छेदकप्रत्यासत्तिप्रविष्टमरणानुकूलत्वं मरणजनकत्वमेव न तु प्रयोजकत्वम. अतोऽदृष्टाद्वारकत्वं न तत्र निवेशनीयम्, कारणत्वपर्यन्तनिवेशलाभायैव वा तदुपादानम् । यदि. च विशिष्टान्वयपरताया वेदे औत्सर्गिकत्वेन वधसाधनतामतेपि " श्येनेनाभिचरन् यजेत " इत्यत्र श्येनयागक्रियायामनिष्टसाधनत्वाभावात् श्येनयागे विध्यर्थस्य इष्टसाधनत्वस्य बाधो नास्त्येव, श्येनयागप्रयोज्यशत्रुमरणस्यैव हिंसात्वेनाऽनिष्टसाधनत्वादित्यर्थः । फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धेनानिष्टसाधनत्वमस्तीति तस्य संबन्धस्य कारणतावच्छेदकसंबन्धत्वं विज्ञेयम् । - सिद्धान्तमाह-वस्तुत इति, श्येनानुकूलकृतेर्मरणकारणत्वामावे हेतुमाह-अन्यथेति । अन्य. थासिद्धत्वे हेतुमाह-मरणोपलक्षितेति, श्येने कृते मरणलक्ष्यभूतशत्रौ श्येनप्रभावादन्येन केनापि खगाद्यभिघातः क्रियते तेन च तस्य शत्रोर्मरणं भवतीति चैरिवधकारणीभूतखड्गाभिधातादिकं प्रत्येव वेदेन श्येनस्य कारणत्वं बोध्यते न तु साक्षान्मरणं प्रतीति मरणं प्रत्यन्यथासिद्धत्व प्राप्तम् । कार्यकारणयोरभेदोपचारेणात्र खङ्गाभिघातस्य वैरिवधरूपत्वमुक्तम्--" खङ्गाभिघातादिरूपवैरिवधम् " इति । ननु यथा संयोगानुकूलक्रियाजन्यसंयोगे संयोगानुकूलक्रियानुकूलकृतेहेतुत्वमस्त्येव एवं खड्गाभिघातजन्यशत्रुमरणे तादृशखगाभिघातकारणीभूतश्येनानुकूलकृतेरपि कारणत्वे प्राप्ते श्येनस्य शत्रुमरणं प्रति कारणत्वं स्यादेवेत्याशङ्क्याह-क्रियाजन्येति । तथा चानिष्टविशेषरूपफलस्य यो जनकतावच्छेदकसंबन्ध उक्त फलविशिष्टस्वनिरूपितकर्तृत्वसंबन्धः ( अदृष्टाद्वारकमरणानुकूलव्यापारनिरूपितकर्तृत्वं संबन्धः) तङ्घटकं यन्मरणानुकूलत्वं तन्मरणजनकलमेव न तु मरणप्रयोजकत्वं श्येनस्य च मरणप्रयोजकत्वमेवास्ति न तु मरणकारणत्वमित्युक्तसंबन्धेः कारणत्वनिवेशेनैव श्येनन्यवच्छेदे जाते तत्र उक्तमणिकृद्धिंसालक्षणे श्येनव्यवच्छेदाय · अदृष्टाद्वारकत्वम् ' विशेषणं न निवेशनीयमित्यर्थः । पक्षान्तरमाह-कारणत्वेति, उक्तसंबन्धकोटौ कारणत्वनिवेशलाभायैव अदृष्टाद्वारकत्वविशेषणस्योपादानमस्ति । किं वा कारणत्वपर्यन्तलाभायैवाऽदृष्टाद्वारकत्वविशेषणस्योपादानमस्ति कारणत्वलाभस्तु संबन्धकोटी कारणत्वनिवेशेनापि जात एवेत्यदृष्टाद्वारकत्वविशेषणं न निवेशनीयमित्यर्थः । ननु वेदवाक्येन विशिष्टान्वय एव प्रतिपाद्यते विशिष्टान्वयस्थले च विशेषणेप्यन्वयो भवत्येवेति " श्येनेनामिचरन् यजेत " इति श्रुत्या श्येनस्य मरणसाधनीभूतो यो वधः खड्गाभिघातस्तत्साधनताबोधनेन मरणानुकूलखगाभिघातरूपवधविशेषणीभूतं यन्मरणं तादृशमरणसाधनत्वमपि प्रत्याय्यते इति श्येनस्य मरणकारणत्वमेव प्राप्तं न तु मरणप्रयोजकत्वमित्याशङ्क्याह-यदि चेति । उत्तरमाह-तदा
"Aho Shrutgyanam"