________________
( ४१४ )
सादर्श:
[ तृतीयाकारकेबोधकश्रुत्या विशेषणीभूतमरणसाधनतापि श्येनस्य प्रत्याय्यते तदापि श्येनानुकूल कृतेर्मरणसाधनत्वमप्रामाणिकमेव- क्रियाजनक कृते स्तज्जन्यजनकतानियमस्याsप्रामाणिकत्वात् ।
'अथाऽन्योद्देशेन नाराचक्षेपकर्तुर्विशिष्टविषयककृतिमत्त्वघटित विशिष्टकर्तृताविर - हेपि यथार्धवधजन्यपापप्रायश्चित्तं तथा श्येनकर्तुर्विशिष्टाऽकर्तृत्वात् पापार्धस्थावइयकत्वादू बलवदनिष्ठाननुबन्धित्वबाधो दुर्वार एवेति चेत् ?, न-अकामकृतेप्यर्धप्रायश्चित्तस्मरणेन मरणावच्छिन्नव्यापारस्य विषयतामनन्तर्भाव्य विशिष्टजनककृतिमत्त्व संबन्धेन न्यूनपापे स्वतन्त्रहेतुत्वकल्पनात् तद्बलेन विशिष्टाकर्तुः श्येनकर्तुर्दिसाजन्य पापानुत्पत्तेः । न च लाघवेन मरणोपलक्षितव्यापारजनकत्वमेव प्रत्यासत्तिमध्ये निवेश्यतामिति वाच्यम्, श्रुत्यर्थबाधापादकलाघवस्याप्रयोजपीति, श्येनस्य मरणकारणत्वे प्राप्तेपि श्येनानुकूलकृतेर्मरणकारणत्वमप्रामाणिकमेवेत्यर्थः । अत्र हेतुमाह-क्रियाजनकेति, क्रियाजनककृतेः क्रियाजन्यं यन्मरणादिरूपफलं तज्जनकतापि भवतीति नियमस्याऽप्रामाणिकत्वात् । तस्माच्छयेनस्य खड्गाद्यभिघातं प्रत्येव कारणता न तु मरणं प्रतीति न श्येनकर्तुः संपूर्णप्रायश्चित्तप्रसङ्ग इत्यर्थः
नन्वन्योद्देशेन नाराचक्षेपाद् यत्र ब्राह्मणमरणं भवति तत्र विशिष्टविषयका = मरणानुकूला या कृतिस्तादृशकृतिमत्त्वघटितम् = तादृशकृतिमत्त्वरूपं यद् विशिष्टकर्तृत्वं वधकर्तृत्वं तदभावेपि यथा तादृशनाराचक्षेप्तुरर्धवधप्रायश्चित्तं भवति तथा श्येनकर्तुरपि विशिष्टाकर्तृत्वात् = चधकर्तृत्वाभावेपि शत्रुमरणार्थमेव श्येनानुष्ठानात् पापार्ध स्यादेव तथा च श्येनस्य बलवदनिष्टाननुबन्धित्वं न स्यादिति श्येनविध्यर्थबाधः प्रसज्येतेत्याशङ्कते - अथेति । परिहरति-नेति, कामकृते पापे कामकृतपापापेक्षयाऽर्धप्रायश्चित्तं भवतीति कामकृतपापस्य संपूर्णप्रायश्चित्ते हेतुत्वं कल्प्यं मरणावच्छिन्नव्यापारस्य = कामकृतमरणानुकूलव्यापारस्य विषयतामऽनन्तर्भाव्याऽकामकतमरणानुकूलव्यापारस्य च न्यूनपापे पृथगेव हेतुत्वं कल्प्यमिति तद्बलेन = उक्तहेतुहेतुमद्भावकल्पनाबलेन श्येनकर्तरि संबन्धभूतस्य विशिष्टजनककृतिमत्त्वस्य = मरणोद्देश्यकमरणजनक कृतिमत्त्वस्याऽभावाद्द्द्विशिष्टाकर्तुः =मरणजनक खड्गाद्यभिघाताद्यनुकूलकृतिरहितस्य श्येनकर्तुः हिंसाजन्यं पापं नोत्पद्यते यत्र पुरुषे विशिष्टजनककृतिमत्त्वं भवति तत्रैव पापमुत्पद्यते इत्यर्थः । ननु मरणानुकूलव्यापारस्य मरणानुकूलव्यापारजनककृतिमत्त्वसंबन्धेन पापोत्पत्तिं प्रति हेतुत्वे ह्यकामकृतव्यापारेण मरणस्थलेऽर्धप्रायश्चित्तप्रयोजकपापोत्पत्तिं प्रति पृथग् हेतुत्वकल्पनापत्त्या गौरवं स्यादिति तदपेक्षया मरणोपलक्षितव्यापारजनककृतिमत्त्व संबन्धेन व्यापारस्य पापोत्पत्तिं प्रति हेतुत्वं कल्प्यताम् एवं च पृथक् पृथग् हेतुहेतुमद्भावकल्पनापेक्षा नास्तीति लाघवं स्यादित्याशङ्क्याहन चेति । परिहारमाह-- श्रुत्यर्थेति, एवं हि श्येनस्यापि शत्रुमरणेच्छयेवानुष्ठानेन श्येनव्यापारस्यापि मरणोपलचितत्वात् श्येनस्यापि पापजनकत्वं स्यात् तथा च श्येनबोध कश्रुत्यर्थस्येष्टसाधन
"Aho Shrutgyanam"