________________
श्येनयागविषयक विचारः ] व्युत्पत्तिवादः ।
( ४१५ )
कत्वात् । वेदस्यले विशिष्टान्वयस्यात्सर्गिकत्वेपि श्येनस्य मरणजनकत्वे विध्यर्थबाथप्रसङ्गेन मरणं प्रति श्येनस्यान्यथासिद्धताया एवोपगन्तव्यतया तस्य जनकतागर्भहिनस्त्यर्थतावच्छेदकरूपशून्यताया व्याप सूपपादत्वात् ।
न च यदि खड्गाभिघातजन काऽदृष्टव्यवहितस्य श्येनस्य मरणेऽन्यथासिद्धत्वं तदा हननकर्तृव्यापारोपि तत्रान्यथासिद्धः स्यात् यश्च व्यापारो मरणेऽव्यवहितसाधनं तत्र तद्धेतुः कृतिरेवान्यथासिद्धेति मरणकारणव्यापारकारणकृतिमखं न कस्यापि हेतुः स्यादिति वाच्यम्, तण्डुलविक्लित्त्यादिरूपफलव्यवहितस्यापि तुषादिप्रक्षेपस्य तत्करणदशायाम् 'पचति' इत्यादिव्यवहारानुरोधेन यथाऽनन्यथासिद्धत्वं तथा खड्गप्रक्षेपादिकरणदशायाम् 'हन्ति' इतिव्यपदेशानुरोधेन तत्र व्यवहितस्यापि मरणेऽनन्यथासिद्धत्वमवश्याभ्युपेयमिति सामञ्जस्यात् ।
वस्य बाधः स्याद् न चेतदिष्टमिति नैतादृशं लाघवमिष्टमिति पृथक् पृथगेव हेतुत्वं कल्य्यमित्यर्थः । वेदस्थले ति - वेदस्थले विशिष्टान्वयस्यौत्सर्गिकत्वेन श्येनस्य मरणसाधनीभूतखड्गाद्यभिघातं प्रति साधनत्वेन विशेषणीभूतमरणं प्रति साधनत्वे प्राप्तेपि यदि श्येनस्य मरणजनकत्वं स्यात्तदा श्येनविध्यर्थस्य = इष्टसाधनत्वस्य बाधः स्याद् न चैतदिष्टमिति मरणं प्रति श्येनस्यान्यथासिद्धत्वमेव तथा च तस्य येनस्य जनकतागर्भः = मरणजनकताविशिष्टो यो हिनस्त्यर्थः = मरणानुकूलव्यापारस्तादृशहिनस्त्यर्थतावच्छेदकं यद्रूपम् = मरणानुकूलव्यापारस्वं तच्छून्यत्वमपि प्राप्तमिति न श्येनस्य पापजनकत्वं न वा श्येन कर्तुर्हिसामूलकप्रायश्चित्तं भवतीत्यर्थः । श्येनप्रयुक्तरात्रुहिंसया तु नरको मत्येवेति विज्ञेयम् ।
ननु यदि श्येनस्यादृष्टव्यवधानेन मरणेऽन्यथासिद्धत्वं तदा हननकर्तृव्यापारस्यापि तत्रभरणेऽन्यथासिद्धत्वं स्यात् पीडादिना व्यवधानात् तादृशव्यापारस्य पीडामात्रजनकत्वात् पश्च व्यापारो मरणेऽव्यवहितसाधनं तद्धेतुभूता कृतिरपि तत्रान्यथासिद्धैव स्यात् तादृशव्यापारविषयकक्कत्यनन्तरं कटिबन्धनशस्त्रमहणादीनामावश्यकत्वेन तैर्व्यवधानादिति मरणकारणीभूतव्यापारस्य कारणीभूता या कृतिस्तादृशकृतिमत्त्वमपि श्येनवत् न कस्यापि पापस्थ हेतुः स्यात् न चैतदिष्टमिति यथा व्यवहितस्याप्येतादृशकृतिमत्त्वस्य पापजनकत्वं तथाऽदृष्टेन व्यवहितस्यापि श्येनस्य पीपजनकत्वं युक्तमित्याशङ्क्याह- न चेति । परिहारमाह- तण्डुलेति, तत्करणदशायाम् = तुषादिप्रक्षेप करणदशायाम् । यथा तुषादिप्रक्षेपकरणदशाम् 'पचति' इतिव्यवहारात् तुषादिप्रक्षेपस्य विलित्तिरूपफलव्यवहितस्यापि नाऽन्यथासिद्धत्वं तथा खड्गाभिघातदशायाम् "हन्ति इतिव्यवहारात् न खड्गाभिघातस्य मरणेऽन्यथासिद्धत्वम् । श्येनस्य च मरणेऽनन्यथासिद्धत्वे न विध्यर्थबाधः स्यात् श्येनानुष्ठानकाले 'हन्ति' इति व्यवहाराभावाच मरणे श्येनस्याऽन्यथासिद्धत्वमेवेत्यर्थः : ।
"Aho Shrutgyanam"