________________
( ४१६)
सादर्श:
[ तृतीयाकारकेतण्डुलक्रयणदशायाम् 'पचति'इत्याद्यभाववत् खड्गादिनिर्माणदशायाम् हन्ति' इत्यऽव्यवहारात् तव्यापारो मरणेऽन्यथासिद्धतया न हिंसा । व्याघ्रमरणोद्देशेन कृतो यन्त्रार्पणादिर्यथा तत्र देवाद्गवादिमरणेपि न हिंसारूपस्तथा न व्याघ्रादि. हिंसारूपोपि- तत्करणदशायाम् 'हन्ति' इत्यप्रयोगात् । अतथात्वेपि तन्मरणोद्देश्यकाऽदृष्टाद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्थापि हिंसावत् पापजनकत्वादुक्तस्थले गोवधाभिसंधाने गोवधप्रायश्चित्ताऽऽचरणमित्यवधेयम् । . एवं च 'चैत्रः पचति' इत्यादौ विषयताघटितकर्तृत्वबोधनिर्वाहाय यथा कृती पाकादेरुपधायकत्वविषयित्वोभयसंबन्धनान्वयः, विषयितायाः संबन्धत्वेप्युपधायकत्वनिवेश आवश्यक:- पाकाद्यनिष्पत्तिस्थले 'पचति-पश्यात' इत्यादिप्रयोगस्य प्रामाण्यवारकत्वात्, तथा 'चैत्रेण पच्यते' इत्यादावपि तृतीयार्थकृतेर्जन्य
: तण्डुलेति-- खड्गादिनिर्माणदशायाम् 'हन्ति' इति व्यवहारो न भवति तद्व्यापारः= खड़गादिनिर्माणव्यापारो न हिंसा न वा निर्माणकर्तुः प्रायश्चित्तमित्यर्थः । अस्मिन् यन्त्रे प्रविष्टो व्याघ्रो मरिष्यतीति गृह्यतामयं यन्त्र इत्येवं यत्र व्याघ्रमरणोदेशेनापि यन्त्रार्पण कृतं तत्र तस्मिन् यन्त्रे दैवात् प्रविष्टगवादिमरणेपि सति यथा यन्त्रार्पणव्यापारो न गोहिंसारूपस्तथा तस्मिन् प्रविष्टव्याघ्रमरणेपि न व्याघ्रहिंसारूप:- तत्करणदशायाम्-यन्त्रार्पणकरणदशायाम् ‘हन्ति' इति प्रयोगव्यवहारयोरभावात्, न वा यन्त्रार्पणकर्तुः प्रायश्चित्तमित्याह- व्याघ्रमरणेति । अतथात्वेपीति- यत्र परमरणार्थ कृतेन व्यापारेण मरणं न जातं तत्र तादृशव्यापास्थाऽतथात्त्वेपि3 अहिंसारूपत्वेपि किं वा मरणरूपफलानुत्पादकत्वेपि तादृशस्य तन्मरणोद्देश्यकादृष्टाद्वारकतन्मरणप्रयोजककृतिजन्यव्यापारस्य हिंसाबद् यथा पापजनकत्वं भवति तथोक्तस्थले व्याघ्रमरणोद्देशेन यन्त्रार्पणस्थले यदि गोवधाभिसंधानं भवति तदा तस्मिन् यन्त्रे गोमरणे सति गोवधप्रायश्चित्तं भक्त्येवेत्यर्थः । व्याघ्रमरणोदेशेन यन्त्रार्पणस्थले व्याघ्रमरणेपि न सद् व्याघ्रादिहिंसारूपो गोवधाभिसंधाने तु गोवधप्रायश्चित्तमित्युक्तवैषम्ये गोवधस्य प्राबल्यमेव हेतुरित्युन्नेयम् ।
उपसंहरति- एवं चेति, “ चैत्रः पचति । इत्यत्र पाकविषयक( पाकानुकूल )कृतिमांश्चैत्र इत्याकारकबोधो जायते तनिहाय कृतौ उपधायकत्व (जनकत्व ) विषयित्वैतदुभयसंबन्धन यथा पाकस्यान्वयो भवति, कृतौ विषयित्वं जनकत्वं चास्त्येव, संबन्धमध्ये उपधायकत्वनिवेशस्य फलमाह- विषयिताया इति, पाकाद्यनिष्पत्तिस्थलेपि कृतौ विषयितायाः सत्त्वेन विषयितासंबधेन कृतौ पाकान्वयसंभवात् “पचति' इत्यादिप्रयोगस्य प्रामाण्यं स्यात्. न चैतदिष्टमिति संबन्धे उपधायकत्वनिवेशः कार्यस्तथा च पाकाद्यनिष्पत्तिस्थले कृतौ पाकादिजनकत्वाभावात 'पचति. पश्यति' इत्यादिप्रयोगस्य प्रामाण्य न भवति, प्रकृतमाह-तथेति. तथा 'चैत्रेग पच्यते' इत्यत्र तृतीयार्थकृतेर्जन्यत्वविषयत्वेतदुभयसंबन्धेन पाकादावन्वयो भवति, पाके कृतिजन्यत्वं कृतिविषयत्वं.
"Aho Shrutgyanam"