________________
तृतीयाविभक्त्यर्थविचारः] व्युत्पत्तिवादः। त्वविषयत्वोभयसंबन्धेनान्वयो बोध्यः ( पाकादौ)। कृतिजन्यत्वस्य तृतीयार्थत्वे जन्यत्वसंबन्धमध्ये एव स्वनिरूपकविषयत्वं प्रवेशनीयम् । कृतिविषयत्वमेव वा तुंतयिार्थः, स्वनिरूपकजन्यत्वं विषयतायाः संबन्धमध्येऽन्तर्भावनीयम् । __ 'काष्ठेन पचति ' इत्यादौ करणत्वं तृतीयार्थः, तच्च व्यापारवत्कारणत्वम्, व्यापारे कर्तृव्यापाराधीनत्वं निशमीयम्, अन्यथा कर्तुरपि करणतापत्त्या 'चैत्रश्चैत्रेण पचति ' ' काष्ठं चैत्रेण पचति' इत्यादिप्रयोगापत्तेः । न च कर्तु. श्चेष्टादिरूपव्यापारस्य तदीयकृत्यादिरूपव्यापाराधीनतया तद्विशेषणदानपि कर्तुः करणत्वं दुर्वारमेवेति वाच्यम्, स्वभिन्नत्वेन कर्तुविशेषणीयत्वात् । चास्त्येव, अत्रापि पाकाद्यनिष्पत्तिस्थले 'पच्यते' इत्यादिप्रयोगप्रामाण्यपरिहाराय संबन्धमध्ये जन्यत्वनिवेश आवश्यक एवेत्यर्थः । पक्षान्तरमाह- कृतिजन्यत्वस्येति, 'चैत्रेण पच्यते' इत्यत्र कृतिजन्यत्वस्य तृतीयार्थत्वे तादृशस्य तृतीयार्थभूतकृतिजन्यस्वस्य स्वनिरूपकविषयत्वसंबन्धेन पाकेऽन्वयः, स्वं कृतिजन्यत्वं तच्च कृतिजन्यत्वं पाकनिष्ठं पाकनिष्ठा या कृतिविषयता तन्निरूपितमेवेति तादृशविषयत्वे कृतिजन्यत्वनिरूपकत्वं प्रासमिति स्वनिरूपकविषयत्वसंबन्धेन पाके तृतीयार्थकृतिजन्यत्वस्यान्वयः- कृतिजन्यत्वनिरूपकविषयत्वस्य ( कृतिविषयत्वस्य) पाके सत्त्वादेवे. त्यर्थः । पक्षान्तरमाह-कृतिविषयत्वमिति,अन्तर्भावनीयमिति-कृतिविषयत्वस्य तृतीयार्थस्य स्वनिरूपकजन्यत्वसंबन्धेन पाकेऽन्वय इत्यन्वयः, अत्र स्वं कृतिविषयत्वं तच्च पाकनिष्ठं कृतिविषयत्वं पाकनिष्ठकृतिजन्यत्वनिरूपितमेवेति तादृशजन्यत्वे कृतिविषयत्वनिरूपकत्वं प्राप्तमिति स्वनिरूपकजन्यत्वसंबन्धेन तृतीयार्थकृतिविषयत्वस्य पाकेऽन्वयः कृतिविषयत्वनिरूपकजन्यत्वस्य पाके सत्त्वादेवेत्यर्थः । चैत्रवृत्तिकृतिजन्यत्वविशिष्टपाकजन्यविलित्याश्रयः-चैत्रवृत्तिकतिविषयत्वविशिष्टपाकजन्यविक्लित्याश्रयस्तण्डुल इति यथासंख्यं शाब्दबोधी विज्ञेयो।।
करणतृतीयार्थ निरूपयति-काष्ठेनेति । तत् करणत्वम् । व्यापारे इति- कर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वमित्यर्थः । विपक्षे बाधंकमाह- अन्यथेति, कर्तृव्यापाराधीनत्वनिवेशाभावे केवलं व्यापारवत्कारणत्वं तु कर्तुरप्यस्त्येवेति कर्तुरपि करणत्वं स्यात्तथा च 'चैत्रश्चैत्रेग पचति' 'काष्ठं चैत्रेण पचति' इत्यादिरपि प्रयोगः स्याद् न चैतदिष्टम्, उक्तरीत्या कर्तृव्यापाराधीनत्वनिवेशे तु चैत्रस्य स्वतन्त्रत्वेन चैत्रकाष्ठा दिव्यापाराधीनव्यापारवत्त्वाभावात् न करणत्वापत्तिस्तथा च न 'चैत्रश्चैत्रेण' इत्यादिप्रयोगापत्तिरपि । ननु तद्विशेषणदानेपि=उक्तकर्तृव्यापाराधीनत्वविशेषणदानेपि कर्तुः करणत्वं स्यादेव कर्तुः पाकादिव्यापारस्यापि तदीयपाकाद्यनुकूलकत्यादिरूपव्यापाराधीनत्वादेवेत्याशङ्क्याह- न चेति । परिहारमाह-वभिन्नेति, तया च 'स्वभिमकर्तृव्यापाराधीनव्यापारवत्कारणत्वं करणत्वम्' इति वक्तव्यं तथा च चैत्रव्यापारस्य चैत्रवृत्तिकृत्याद्यधीनत्वेपि चैत्रभिन्नकर्तृन्यापाराधीनत्वं नास्तीति न चैत्रस्य करणत्वापत्तिः । काष्ठादिश्यापारस्य तु काष्ठादिमिन्नचैत्रव्यापाराधीनत्वमेवेति काष्ठादोनां करणत्वं प्राप्तमित्यर्थः ।
२७
"Aho Shrutgyanam"